Sanskrit Essays

🌺सोमवासरः- 14-11-16🌼

🌻प्रस्तावविषयः — जनकः

Samskrit essay about Father .

पितृदेवो भव। पिता एव प्रथमः गुरुः। पितुः भक्त्या प्रसिद्धः अस्ति श्रीरामः। जनकः पूजार्हः इति अस्माकं धर्मविचारः। पितृदेवो भव इत्यस्य वाक्यस्य अनुवादं सर्वत्र एवं द्रष्टुं शक्नुमः पिता देव इव इति। वस्तुतः कुत्रापि पठितवान् यत् यस्य मनसि पिता एव देव इति भावाना अस्ति त्वं तादृशः भावनायुक्तः भव इति।

अर्थात् श्रीरामसदृशं भवाम। यः सन्तानस्य रक्षणं पोषणं च सम्यक् करोति स एव पिता। पाति रक्षत्यपत्यं यः सः पिता इत्येव किल निर्वचनम्। अतः केवलं जन्मनः कारणात् एव नास्ति इति स्पष्टम्।। पितुः पूजनं पालनं च कृत्वा वयं सुपुत्राः भवाम।।

________________________________________________________________________________________________________________________________

🌸मङ्गलवासरः- 15-11-16🔅

🌻प्रस्तावविषयः — पाठशाला; 🌺

Samskrit essay about school.
पाठशाला इति शृण्वन्ति चेत् सर्वे स्वस्य बाल्यजीवनम् अवश्यं स्मरन्ति। तादृशः प्रभावः भवति अस्माकं जीवने विद्यालयस्य। पाठशालां गत्वा न तु केवलं पुस्तकानि पठन्ति अपितु छात्राः पाठशालां गत्वा पाठ्येतरविषयानां विचाराणाम् आधारेण अनुभवज्ञानं प्राप्नुवन्ति।। पुस्तकानि एव पठित्वा जीवने विजयं कदापि न भवति। अवसरानुगुणं चिन्तनं प्रायोगिकविद्यापि प्राप्तव्या अस्माभिः। पाठ्यपुस्तकेषु स्थितान् विषयान् पठाम किन्तु कालान्तरे विस्मरन्ति किन्तु प्रायोगिकविषये तथा न भवति। अस्माकं पाठशालायां छात्राणां मूल्यवर्धनविषये इदानीं तनकाले किञ्चित् अधिकं चिन्तनीयम्। प्राचीननूतनयोः विचारयोः सङ्गमं भवेत्। अन्यथा प्रमाणपत्राणां प्राप्यर्थमेव भविष्यति शाला। उत्तमपौराणां निर्माणं भवेत् । विद्यालयद्वारा अग्रिमपरम्परा शोभना सुभद्रा च भवेत् इत्यपि सङ्कल्पं कुर्मः।।

________________________________________________________________________________________________________________________________
🌸 गुरुवासरः- 24-11-16🔅

🌻प्रस्तावविषयः — नृपः; 🌺

💥धातुः-त्रा🌼

Samskrit essay about king.

नृपः नाम राजा पुरातनकाले भारते अपि नृपाणां भरणम् आसन्। भारते इदानीं जनाधिपत्यम् अस्ति किन्तु केषुचित् राज्येषु इदानीमपि नृपशासनं प्रचलन्ति । भारते पुरातनकाले राजानः पण्डिताः आसन्। विविधानि शास्त्राणि पठित्वा सम्यक् धर्मानुष्ठानं कृत्वा राज्यं परिपालितवन्तः। ते प्रजानां हिते रताः आसन्। नृपाः जनान् दुखेभ्यः शत्रुभ्यः च त्रायन्ते स्म। भरतः नाम महाराजस्य भरणेन एव अस्माकं देशस्य नाम भारतमिति प्रसिद्धं जातम् इति सर्वे जानन्ति खलु। पुराणेषु अनेकान् उत्तमान् धर्मिष्ठान् प्रजातत्परान् नृपान् द्रष्टुं शक्नुमः। किन्तु यदि राज्ञः नीतिबोधः सम्यक् नास्ति तर्हि तस्मिन् राज्ये वासो दुष्करो भवति स्म। दुश्शासकाः भूत्वा बहवो नृपाः चरित्रपुटे स्वनामानि विरूपानि कृतानि इत्यपि सत्यमेव। अस्माकं राज्ये इदानीं दृश्यमानानां सुन्दरमन्दिराणां पृष्ठतः एकैकस्य नृपस्य कथां श्रोतुं शक्नुमः।राजा ऋषिः इव परिगण्यते राजर्षिणां तादृशानां स्मृतौ श्रद्धां समर्पयामो वयम्।।

________________________________________________________________________________________________________________________________

🌸 रविवासरः- 26-11-16🌼

🌻प्रस्तावविषयः– वैद्यः; 🌺

💥 धातुः- सेव्🌹

Samskrit essay on doctor.

वैद्यो नारायणो हरिः इत्येव अस्माकं वीक्षणम्। वैद्यः भगवतः प्रतिरूपःअत एव वदन्ति रिक्तहस्तेन न पश्यन्तु राजानं भिषजं गुरुम्। भारतीयानां अस्माकं पूर्विकानां चिन्ता एवमस्ति वैद्यः रोगिणां कृते समर्पितभावेन सेवां कुर्यात्। रोगी च तं भगवान् इव पश्येत्। परस्परविश्वासपूर्वं व्यवहारः करणीयः ताभ्याम्। रोगिणां हितार्थं शीघ्रसुखप्राप्यर्थं च वैद्यः सदा प्रेरयति तस्य मनोविचारानुगुणं व्यवहरति उत्तमो वैद्यः। रोगचिकित्सायाः प्रमुखः अंशः भवति तयोः बन्धः इति सर्वे जानन्ति एव। अद्यत्वे वाणिज्यदृष्ट्या केचन वैद्याः कार्यं कुर्वन्ति इत्यपि सत्यमेव यतोहि बहवः अधुनापि सन्ति ये समर्पितभावेन चिकित्सां कुर्वन्ति। व्याधेः पूर्णनाशनं वैद्यानां कार्यं एतदर्थमेव धन्वन्तरेः अंशाः वैद्याः इति पण्डिताः वदन्ति।। एतादृशाः उत्तमगुणयुक्ताः वैद्याः अधिकाः भवेयुः तेन अस्माकं देशे आरोग्यदृढगात्रजनाः सर्वत्र भवेयुः इत्याशास्महे।।

________________________________________________________________________________________________________________________________

सोमवासरः- 27-11-16🌼

🌻प्रस्तावविषयः– क्रीडा; 🌺

💥 धातुः- क्रीड्🌹

Samskrit essay on games.

क्रीडा धियः आलस्यं हरति। शरीरस्य स्थिरता दृढता च क्रीडया वर्धयति। क्रीडा द्विधा अस्ति। बौधिकक्रीडा शारीरिकक्रीडा च। बुद्धेः विकासार्थं बौधिकक्रीडा आवश्यकी। शरीरस्य दृढतायाः प्राप्यर्थं शरीरिकक्रीडा आवश्यकी। बाल्यादारभ्य उत्तमाक्रीडायां असक्ताः भवेयुः शिशवः। तेन तेषां जीवनं सम्यक् भवति मनोनिग्रहम् अपि प्राप्नुवन्ति ते। कुटुम्बजनानां मध्ये परस्परमैत्रीं वर्धयति क्रीडा। समाजे मैत्रीं सौख्यं च आनयति किडा।।
________________________________________________________________________________________________________________________________

🌸 मङ्गलवासरः- 28-11-16🌼

🌻प्रस्तावविषयः– नाटकम्; 🌺

💥 धातुः- नट्🌹

Samskrit essay on drama.

नाटकं जनप्रियकलारूपम् अस्ति। जनानां पुरत: आशयप्रचारार्थं नाटकम् अत्यन्तम् उचितमाध्यमं भवति। भारते पुरातनकाले अपि नाटकानां विपुलप्रचारः आसीत्। संस्कृतभाषायाम् अपि विश्वप्रसिद्धानि नाटकानि सन्ति। कालिदासस्य भासस्य च नाटकानि प्रसिद्धानि। नाटकानां विषयाः भिन्नाः भवितुम् अर्हति। दुःखास्पदः सुखास्पदः प्रणयविषयः विरहास्पदविषयः हास्यविषयः च भवति। नाटकं जनहृदये तीव्रं विकारं जनयति इति कलाकाराः वदन्ति । वीथीनाटकम् अपि नाटकानां भिन्नं रूपम् अस्ति। अधुना चलनचित्राणां अतिप्रसारेण नाटकस्य प्रचारः न्यूनः जातः। किन्तु इदानीं सर्वत्र नाटकस्य प्रचारार्थं विविधपद्धतयः जनैः क्रियन्ते। संस्कृते अपि नूतननाटकानां रचना आवश्यकी। तदर्थं संस्कृतपण्डिताः मार्गनिर्देशं कुर्युः इति प्रतीक्षामहे।।

________________________________________________________________________________________________________________________________

🌸 बुधवासरः- 29-11-16🌼

🌻प्रस्तावविषयः– नृत्यम्; 🌺

💥 धातुः- नृत्🌹

Samskrit essay on dance .

नाटराजताण्डवम् अतिप्राचीनं प्रसिद्धं च।

भारतीयनाट्यकला हैन्दवधर्मस्यानुबन्धा भवति। भरतमुनेः नाट्यशास्त्रस्य आधारेण कृतं नृत्यं भरतनाट्यम् इति प्रसिद्धम्। लास्यं ताण्डवं नटनं नृत्यं नर्तनं इत्यादीनि पदानि नृत्यस्य पर्यायपदानि। तालमेलसङ्गीतसमेतं भवति नृत्यम्। नर्तकानां चिरकालतपस्याः बहिः स्फुरणमेव तेषां नृत्यम्।

देवालयेष्वपि विविधानि मनोहराणि नट्यरूपाणि द्रष्टुं शक्नुमः।

आधुनिककालेऽपि नटनस्य प्राधान्यं वर्तते चलनचित्रादिनि कलारुपेषु। सुन्दरं नृत्यम् अस्माकं हृदये सन्तोषं जनयति यथा मयूरनटनैः वृष्टिः जायते तथा मनसि सन्तोषवृष्टिः निष्पद्यते।।

________________________________________________________________________________________________________________________________

🌸 मङ्गलवासरः- 6-12-16🌼

🌻प्रस्तावविषयः– सङ्गणकम्; 🌺

💥 धातुः-गण्🌹

Samskrit essay on computer.

सङ्गणकं सम्यक् संख्यां गणयति। इदं यन्त्रम् आधुनिके जीवने अविभाज्यघटकम् अस्ति। न तु केवलं संख्यायाः गणना अपितु प्रदत्तविवरस्य विशकलनं तारतम्यं सर्वं कुर्वन्ति सङ्गणकानि। गणकयन्त्राणाम् अभावे किमपि कार्यं न भविष्यति आगामिनि काले इति तु स्पष्टमेव। असाध्यम् इति चिन्तितानि कार्याणि सुसाध्यानि जानाति सङ्गणकानाम् साहाय्येन। अस्मिन् नूतनविद्यायाः क्षेत्रेषु परिवर्तनं प्रतिदिनं जायमानम् अस्ति। साधारणजनानां जीवनेऽपि प्रत्यक्षपरोक्षरीत्या सङ्गणकस्य प्रभावः अस्तिरेव। अन्तर्जालेस्य विकासः सङ्गणकानां प्रभावेन जातः इति वयं जानीमः। पठनपाठने, चिकित्साक्षेत्रे, कृषिकार्ये, देशसुरक्षाविषये इत्यादिषु प्राधान्यस्थानेषु सङ्गणकानाम् अत्यन्तम् उपयोगः क्रियते जनैः। एवमस्तिचेदपि मनुष्याणां सहजकर्मवैभवानां ह्रासोपि एतेन जायते इति केचन तत्वज्ञानिनां मतम्। अस्याः विद्यायाः सदुपयोगार्थं सर्वे मानवाः श्रद्धां दद्युः इति प्रतीक्षां कुर्मः।।

________________________________________________________________________________________________________________________________

🌸 गुरुवासरः- 8-12-16🌼

🌻प्रस्तावविषयः– गौः; 🌺

💥 धातुः-पूज्🌹

Sanskrit essay on cow

गावो विश्वस्य मातरः इत्येव अस्माकं सङ्कल्पः। स्वमातुः क्षीरपानस्यानन्तरं धेनोः क्षीरेण एव बाल्ये बालकानां वर्धनं भवति। कृषिकार्ये धेनोः आवश्यकता अस्ति। अधुना सर्वत्र विषमयशाकानि निर्माय जनानाम् आरोग्यं भूमेः नैर्म्ल्यं च नाशयन्ति कुजनाः। अस्याः समस्याः निवारणम् अस्माकं पूर्विकानां कार्षिकपद्धतेः पुनरुज्जीवनेनैव भवति इति तु नूतनकृषिशास्त्रज्ञानां मतम्। गोमयस्य उपयोगेन कृषिकार्यं भवेत् तेन अस्माकं आरोग्यं भूमेः धातुपुष्टिः च संरक्षणं कर्तुं शक्नुमः।।

________________________________________________________________________________________________________________________________

🌸 रविवासरः- 11-12-16🌼

🌻प्रस्तावविषयः– अहिंसा; 🌺

💥 धातुः-हन्🌹

Samskrit essay on non violence.
अहिंसा परमो धर्मः।

हिंसा इत्युक्ते नतु केवलं प्राणापहरणं नतु केवलं देहोपद्रवम् अपितु मानसीकपीडा च। अतः अन्येषु मानसिकपीडापि न करणीया।

आत्मावत् सर्वे भूतेषु यः पश्यति स पश्यति इत्येव खलु गीतावाक्यम्। सनातनधर्मस्य अन्यतमा विशिष्टता अस्ति अहिंसा । युद्धेपि एवं दयागुणः प्रदर्शनीय इति वदन्ति अस्माकं पूर्वजाः। देवीभागवते मधुकैटभौ विष्णुुना सह घोरं युद्धं कृतवन्तौ। देव्याः वरमस्ति इति कारणेण विष्णु: तौ जेतुं बहुकालं प्रयत्ने कृते सति न शक्तवान् अन्ते श्रान्तः भूत्वा सः जगन्नाथः महाविष्णुः एवम् अकथयत्।
*श्रान्ते भीते त्यक्तशस्त्रे पतिते बालके तथा।*

*प्रहरन्ति न विरास्ते धर्म एष सनातनः।।*
अर्थात् युद्धेष्वपि दया दर्शनीया अहिंसा पालनीया। अस्माकं देशे नैके महापुरुषाः अहिंसाव्रतनिरताः आसन्। राष्ट्रपिता गान्धिमहोदयः अहिंसायाः मार्गेम् अवलम्ब्य एव स्वातन्त्र्ययुद्धे भागं स्वीकृतवान् इति वयं जानीमः। अतः वयमपि हिंसारहितदिनानि काम्क्षयामः।।
________________________________________________________________________________________________________________________________

🌸 गुरुवासरः- 15-12-16🌼

🌻प्रस्तावविषयः– भगवद्गीता; 🌺

💥 धातुः- गै🌹

Samskrit essay on bhagavt geeta.
गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।

या स्वयं पद्मनाभस्य मुखपद्माद्विनिःसृता ॥
गीता अस्माभिः अध्येतव्या। साक्षात् भगवतः मुखात् आगता गीता अस्माकं धर्मस्य तत्त्वबोधिनी अस्ति। भगवद्गीता जीवने मार्गदर्शनं करोति इति पण्डिताः वदन्ति। गीतायाः सन्देशं समस्तमानवानां कृते एव। इदानीम् अन्यदेशेषु अपि भगवद्गीतायाः पठनपाठनं प्रचलत् अस्ति इति वयं जानीमः। किन्तु भारतदेशे राजनैतिकानां तात्कालिकलाभार्थं गीतायाः विषयेऽपि विवादः संजातः अत्र केवलं हैन्दवानां ग्रन्थः इति वदन्ति केचन । सार्वजनिकरूपेण पाठनं मास्तु इत्येव तादृशानां मन्दमतीनां अभिप्रायः। गीतायाः सन्देशाः आशयाश्च सनातनाः। इदानींतन कालेऽपि तेषामुपयोगः शक्यः अस्माकं बालकाः बाल्यारभ्य गीता पठनं कुर्युः एतदर्थं वयमेव पठित्वा अन्यान् बालकान् पाठयामः। गीतायाः पठनं यत्र वर्तते तत्र देवाः आगच्छन्ति तीर्थानि प्रवहन्ती इत्येव खलु अस्माकं विश्वासः। अतः प्रथमं गृहात् आरम्भः करणीयः अस्माभिः। किञ्चित् गीताध्ययनं क्रियते चेत् मृत्युसंसारसागरात् मोचनमपि साध्यं भवति। संसारमलविमोचनार्थं गीतागङ्गायां प्रतिदिनं स्नानं करिष्यामः। गृहे गीतापारायणं कृत्वा पूताः भवामः। पूजागृहे भगवद्गीतायाः पुस्तकं पूजयामः।

गीतामातुः अनुग्रहं सदा भवतु।।
________________________________________________________________________________________________________________________________

🌸 गुरुवासरः- 15-12-16🌼

🌻प्रस्तावविषयः– भक्तिः; 🌺

💥 धातुः- स्तु🌹

Samskrit essay on devotion.

भगवति तीव्रप्रेमभावः अचञ्चला श्रद्धा एव भक्तिः। भगवान् भक्तानां दासः भवति इत्येव पुराणेषु कथितः। जपतपपूजादि क्रियाणाम् अनुष्ठानेन चित्तशुद्धिं सम्पाद्य तीव्रं विशुद्धं भक्तिभावं सम्पादयितुं शक्नुवन्ति पुण्यमनुजाः। आत्मसाक्षात्काराय भक्तिमार्गः एव सरलमार्गः इति वदन्ति आचार्याः। प्रह्लादः नारदमहर्षिः आञ्जनेयः उद्धवः विभीषणः ध्रुवः एवमेव अस्माकं पुराणेषु अनेकानां भक्तानां वैशिष्ट्यं सविस्तरं प्रतिपादितं वर्तते। गोपिकाः कृष्णभक्त्या परमतत्त्वं दृष्टवत्यः इति सर्वे जानन्त्येव। सर्वत्र भक्तिभावः अस्माकं धर्मवैशिष्ट्यम्। भक्ताः इहलोके सर्वं प्राप्तुं शक्नुवन्ति तदनन्तरं परलोकेऽपि सद्गतिं प्राप्स्यन्ति।

श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् ।

अर्चनं वन्दनं दास्यं सख्यमात्मनिवेदनम् ॥
इत्येव नवधाभक्तिः परमभागवताः विभिन्नेषु मार्गेषु भक्तिपूर्वकं जीवनं कृत्वा कृतकृत्याः अभवन्। ईश्वरे परानुरक्तिं संस्थाप्य वयमपि भक्तिमार्गं सरामः।।

________________________________________________________________________________________________________________________________

🌸 शनिवासरः- 17-12-16🌼

🌻प्रस्तावविषयः– सूर्यः; 🌺

💥 धातुः- काश्

Samskrit essay on sun
अस्मिन् लोके जन्तुजालस्य निवासः सूर्यस्य आधारेण एव भवति। यदि सूर्यः नास्ति तर्हि अत्र जीवितमेव अशक्यं भवति। सूर्यदेवः प्रत्यक्षविष्णुरिति भावयन्ति जनाः। सूर्यस्य ऊर्जः सर्वत्र प्रसारितः तस्मादेव अस्माभिः जीवनोर्जं प्राप्यते। सूर्यस्य स्थानम् इतोऽपि भूमेः समीपं भवतिचेदत्र सर्वं तापेन भस्मं भविष्यति । यदि सो दूरे तिष्ठति चेदपि अतिशैत्येन जीवनमसाध्यं भविष्यतीति वयं जानीमः। तरुसस्यलतादयः आदित्यात् एव अन्नं पचन्ति। तेन कारणेन इतरजीविनः अत्र वसन्ति इति स्पष्टमेव। सौरयूथस्य केन्द्रः सूर्यः। सर्वे ग्रहाः तम् आधारीकृत्य एव भ्रमन्ति । समयासमयं ऋतुपरिवर्तनं सम्भवति सूर्यस्य प्रभावेण। एतानि सर्वाणि कार्याणि परस्परपूरकानि। एवं भहुकार्यैः अत्र जीवस्य परिपालनं क्रियमाणः अस्ति भास्करः। पूर्विकानां मतानुसारम् आदित्य नमस्कारं ये कुर्वन्ति तेषां पापानि नश्यन्ति। सूर्येपासना अधुनापि लोके बहुत्र अस्ति। सूर्यनमस्कारः योगाभ्यासस्य प्रमुखः भागः। अतः प्रतिदिनं तं सूर्यनारायणं नमाम्यहम्।।

________________________________________________________________________________________________________________________________

🌸 गुरुवासरः- 22-12-16🌼

🌻प्रस्तावविषयः– पुत्रः; 🌺

💥 धातुः- त्रा🌹

Sanskrit essay about son.

पुन्नाम्नो नरकात् त्रायते पुत्रः। आत्मजः तनयः सूनु सुतः तनयः इत्यादीनि पर्यायपदानि पु्त्रशब्दस्य। यः मातापित्रोः पालनम् आजीवनं करोति स एव उत्तमपुत्रः। पुम् इति एकस्य नरकस्य नाम यदा जीवः शरीरं त्यक्त्वा गच्छति तदा एव पुं नाम नरकस्य अनुभवः भवति जीवनस्य अन्ते अस्मिन् समये यः सान्त्वयति मृत्योः पीडाः निवारयति अथवा न्यूनीकरोति स एव पुत्रः। मातापितरौ सुपुत्रनां कारणात् इहलोके परलोके च शान्तिं प्राप्नोति इत्येव खलु। पुत्रस्य स्वभावः मातापितृभ्यां निर्मीयते। अतः आरम्भे धार्मिकतया परिपालनीया।पोषकः पुत्रस्य कारणात् कीर्तिं प्राप्नोति। वस्तुतः पुत्रस्य पुत्र्याः च कर्तव्यौ समानौ स्तः अतः तयोः मध्ये भेदभावः न करणीयः। परस्परविश्वासः स्नेहपूर्णव्यवहारः च कुटुम्बस्य आधारः भवति । एतेषु दिनेषु अस्माकं समाजे तादृशानां व्यवहाराणां ह्रासो दृश्यते तथा न भवितव्यम् ।।

________________________________________________________________________________________________________________________________

🌼बुधवासरः- 16-11-16💥

🌻प्रस्तावविषयः — पुष्पाणि; ⚜

🌸धातुः-मन्⚡

Samskrit essay about flowers

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति।

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ।।
इति गीतायाम् अस्ति।

वसुधायाः तोषः पुष्पैः प्रकटितः।

पुष्पाणि मनोरञ्जनानि भवन्ति। पूजार्थं पुष्पाणि अत्यन्तापेक्षितानि। देवाः पुष्पाणि अभिलषन्ति।षोडशोपचारपूजासमये पुष्पार्चना विशिष्टा इति कथ्यन्ते। पूजापुष्णाणि शुद्धानि भवेयुः दलानि च पूर्णानि भवेयुः। दुर्गन्धं पुष्पं पूजायां निषिद्धम् अस्ति तथा विषमयं कीटमलिनं च। भक्ताः तुलसीपत्राणि, बिल्वपत्राणि च अर्चयन्ति अर्थात् तानि अपि पुष्पाणि इव परिगण्यन्ते । एकैकस्य देवस्य देवतायाः च इष्टपुष्पाणि अपि सन्ति तेषाम् अर्चनया देवानाम् अधिकप्रीतिं प्राप्नुयात्!। पुष्पाणां समेतं चन्दनजलं पाटलपुष्पजलं अक्षतान् च स्थापयित्वा अर्चयाम। चम्पक: कमलं जपाकुसुमं मन्दारं मल्लिका करवीरः अशोकः जाती पाटलपुष्पं च विशिष्टानि पुष्पाणि। अतः वयमपि पुष्पाणि वर्धयामः तानि अर्चयामः तुष्यामः तोषयामः ।।

________________________________________________________________________________________________________________________________

💐रविवासरः (26-02-17)

🖥प्रस्तावविषयः- चलचित्रम्; 📺

💣धातुः – वि+मृश्📻

Samskrit essay about cinema
उत्सवप्रियाः खलु मानवाः!
चलनचित्रं जनानाम् उल्लासाय भवति। नतु केवलं मनोरञ्जनार्थं अपिच चलनचित्रमेकं शक्तं माध्यमम् अपि। अस्माकं देशेपि चलनचित्रकला प्रमुखा अस्ति। कलघट्टानुसारं चलनचित्रे बहवः परिष्काराः आगताः। अधुना साङ्केतिकविद्यायाः सहाय्येन चलनचित्रेषु अत्यन्तमद्भुतं दृश्यमपि सरलतया योजयितुं शक्यते इति जानीमः अनेन चलनचित्रम् इतोप्यधिकम् आकर्षकं भवति। किन्तु जनमनसि नटनां स्थानं स्वाभाविकाभिनयेनैव प्राप्नुवन्ति। पूर्वं यथा समाजे नाटकं सर्वत्र आसीत् तथा अधुना चलनचित्रम्। किन्तु नाटकाभिनयस्यापेक्षया चलनचित्राभिनयं तावत् कष्टं नास्ति नाटकम् अत्यन्तं परिवर्तनसहितं भवति। गीतनृत्यवाद्यघोषाणां समुचितयोजनेन संविधायकाः चलनचित्रं मनोज्ञं कुर्वन्ति। भारते सर्वासु भाषासु चलनचित्राणि सन्ति। संस्कृते अपि चलनचित्राणि सन्ति। समीपकालेऽपि संस्कृतचलनचित्राणां निर्माणं जातं बहूनि चित्राणि आगमिष्यन्ति च। भाषाप्रसाराय चलनचित्रम् उत्तमं भवति। बालानां कृते पुण्यकोटि इति सञ्जीवनचलनचित्रस्य (animated film) निर्माणम् अधुना प्रचलत् अस्ति। चित्रस्य निर्माणकारः संविधायकः च सुरभारत्याः उपासकः रविशङ्करः अस्ति एषः महाशयः IT उद्योगस्थः सन् अत्यन्तप्रयत्नेन अस्य कार्यं निष्ठया कुर्वन् अस्ति। एवं रीत्या देवभाषायाः प्रणयिनः आगामिनि काले नैकानि उत्तमचलनचित्राणि निर्माणं करिष्यन्ति इति मे विश्वासः।।

________________________________________________________________________________________________________________________________

🥛सोमवासरः (27-02-17) 🍧

🍒प्रस्तावविषयः — पायसम्; 🍎

🍮धातुः – पच्🍵

Samskrit essay about payasam.
आदौ वदामि पायसप्रियोऽस्मि! अत्यन्तस्वादिष्टक्षीरान्नम् पायसम्। पायसं तण्डुलेन निर्मीयते। धेनुक्षीरयुक्तं नोचेत् नालिकेरक्षीरयुक्तं भवति पायसम्। किन्तु केवलं घृतमिश्रितगुडान्नमपि पायसम् इव परिगण्यते। देविदेवाः पायसप्रियाः तत्रापि वर्तते किञ्चित् वैशिष्ट्यम्। विष्णोः प्रियपायसं दुग्धपायसं शिवस्य नालिकेरपायसं तथा देव्याः अतिमधुरगुडपायसम्। केरलीयपूजासम्प्रदाये उषःकाले गुडपायसं मध्याह्ने दुग्धपायसं रात्रौ नालिकेरमिश्रितपायसं च देवाय निवेद्यन्ते। पितृगणपूजायां तिलपायसम् अर्पयन्ति। पायसनिर्माणे अतिनैपुण्यम् आवश्यकम्। केरलराज्ये अम्बलप्पुष़ श्रीकृष्णस्य पायसं प्रसिद्धमस्ति। केरले विविधमन्दिरेषु चतुश्शतपायसम् (४०४)इति एकपायस्य समर्पणविधिः अस्ति। एतदर्थं १०१ परिमाणचषकपरिमितं तण्डुलं, १०१ पलं गुडं, १०१ नारिकेलानि , १०१ कदलीफलानि च उपयोगं कुर्वन्ति पायसे धृतयोजनमपि भवति। क्षेत्रनवीकरणादि विशिष्टतान्त्रिक क्रियासु देवानां प्रतिष्ठापनसमये प्रतिष्ठापायसम् इति विशिष्टं पायसम् अर्पयन्ति। एतत् सर्वं विहाय पनसफलपायसं, कदलीफलपायसं द्विदलधान्यपायसं, तण्डुलखण्ड पायसं इत्यादीनि बहूनि सन्ति।।
अस्तु!!!! धन्यवादाः 😋

________________________________________________________________________________________________________________________________

👑बुधवासरः (14-06-17) 🌷

✍प्रस्तावविषयः– सिंहासनम्🌹

Sanskrit essay about simhasanam
राज्ञः विशिष्टासनं सिंहासनम् इति कथ्यते। आसनमिदं सुवर्णरत्नमयं भवति। पुराणेषु प्राचीकथासु च सिंहासनस्य विवरणमस्ति। महाराज्ञः इति शृणुमः चेत् प्रथमं मनसि सिंहासने वीरभावेन विराजितस्य नृपस्य चित्रमेव आगच्छति खलु। सिंहासनं सभायाम् उन्नतभागे एव स्थापितं वर्तते। सिंहासने सिंहस्य चिह्नानि वा प्रतिमाः च भवन्ति। विशिष्टवस्त्राणाम् अलङ्काराः अपि वर्तन्ते। पार्श्वद्वये चामरध्वजादि राजकीय वस्तूनि अपि भवन्ति। सेवकाः सिंहासनं परितः स्थित्वा महाराजस्य सेवां कुर्वन्तः भवन्ति। कोऽपि अन्यः सिंहासने नोपविशति।पूजायां देवीदेवानां कृते रत्नसिंहासनं समर्पयन्ति भक्ताः। देवीभागवते देव्याः सिंहासनस्य वर्णनम् अपि तत्र तत्र वर्तते।।

________________________________________________________________________________________________________________________________

⛳बुधवासरः (02-08-17)🌷

✍प्रस्तावविषयः– आचार्यः शङ्करः🙏

Sanskrit essay about adi shankaracharya
सदाशिवसमारम्भां शंकराचार्यमध्यमाम् । अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥

श्रीशङ्कराचार्याणां जन्मस्थानं केरलराज्ये एर्णाकुलं जनपदे कालटीप्रदेशे आसीत्‌। सनातनधर्मस्य तथा अद्वैतवेदान्तस्य च महान् प्रचारकः आसीत्। यद्यपि अद्वैतसिद्धान्तः अनादि तथापि आचार्यस्य प्रभावेणैव विपुलप्रचारः अभवत्। विविधाः साम्प्रदायानुवर्तिनः तदानीम् अपि आसन् तेषु वैष्णवाः शैवाः गाणपत्याः शाक्तेयाः प्रमुखाः तेषां मध्ये कलहः वा अस्वारस्यः वा सदा भवति स्म। शङ्करः अद्वैतवेदान्तस्य प्रचारेण तादृशानां मध्ये चिन्तोत्पादकम् आशयम् अस्थापयत्। अल्पे एव काले अयं महायुगपुरुषः अनेकानि स्तोत्राणि तथा प्रस्थानत्रयभाष्याणि च रचितवान्। आचार्यः भगवान् भाष्यकारः इति नाम्ना अपि प्रसिद्धः। विविधाः क्षेत्राचारपद्धतयः चतुर्मठः च स्थापितवान्। आभारते सञ्चरन् सनातनधर्मस्य दृढीकरणं कृतवान्। अहो कियत् आश्चर्यम् 🙏 नमो नमः शङ्करपादुकाभ्याम् 🙏🙏🙏
________________________________________________________________________________________________________________________________

😵मङ्गलवासरः (22-08-17) 🙉

✍प्रस्तावविषयः– असत्यम्🙊

Sanskrit essay about untruth

समूलो वा एष परिशुष्यति योऽनृतमभिवदति इत्येव किल आप्तवाक्यम्। सत्यमेव जयते नानृतम् इति भारतस्य वीक्षणम्। अतः कदापि असत्यं न वदामः। किन्तु तावत् सरलकार्यं नास्ति तदर्थं दृढसङ्कल्पः करणीयः अस्माभिः । जीवने अनेकेषु सन्दर्भेषु सत्यं वक्तुं अशक्तो भवति इतितु वास्तविकानुभः तथापि असत्यकथनात् स्वयमेव नियन्त्रणं कर्तुं शक्नुमः ननु। यावद् शक्यम् अप्रियसत्यमपि न वक्तव्यं । सर्वं सत्ये प्रतिष्ठितम्। ईश्वरोऽपि सत्यस्वरूपः खलु। एकम् असत्यं वदति चेदपि तस्य स्थापनार्थम् अनेकानि असत्यवाक्यानि वक्तव्यानि भवन्ति अतः प्रयत्नेन दृढचित्तेन आदौ एव तस्मात् दूरं तिष्ठामः। एवमेव बाल्यादेव सत्यस्य महत्त्वम् असत्यस्य दोषं च बोधनीयम्। स्वयमेव आदर्शं दर्शयामश्चेदेव अन्यान् वक्तुं शक्नुमः।।

________________________________________________________________________________________________________________________________

🤥बुधवासरः (23-08-17)🎃

✍प्रस्तावविषयः– स्वार्थजीवी🤕

Sanskrit essay about selfish

नित्यं यः स्वस्य सुखमेव चिन्तयित्वा जीवति सः एव स्वार्थजीवी। वस्तुतः सर्वे जन्तवः जन्मना एव किञ्चित् स्वार्थाः एव ननु । किन्तु मनुष्याः इतरजीवीनाम् अपेक्षया इतोऽपि स्वार्थाः तस्य कारणं मानवाः जीवनाय यदावश्यकं तस्माद् उपरि एव सर्वदा वाञ्छन्ति अनया चिन्ताया ते सदा स्वार्थकार्ये समर्पिताः। किन्तु सज्जनाः यावद् आवश्यकं तावदेव कामयन्ति अपिच मम सदृशाः एव इतरजीविनः इति भावनां स्मृत्वैव जीवन्ति। यथाशक्ति परोपकाराय समयः दीयते। प्रायः भक्षणार्थम् एव पशवः पक्षिणः च स्वार्थतां दर्शयन्ति न तु मानवसदृशं सदा सर्वत्र। यथाशक्यं स्वार्थमनोभावः न्यूनः करणीयः। तदर्थं परिश्रममग्नाः भवेम।।
________________________________________________________________________________________________________________________________

💐शनिवासरः (26-08-17) 🌷

✍प्रस्तावविषयः– ऋषिपञ्चमी

Sanskrit essay about irishi panchami

नागपञ्चमी, वसन्तपञ्चमी, ऋषिपञ्चमी इत्यादयः तिथयः हैन्दवानां कृते महत्त्वपूर्णाः तिथयः। भारतसंस्कारस्य अपरं नाम आर्षभारतसंस्कारः इति तत्र आर्षः इत्युक्ते ऋषिसम्बन्धः इत्यर्थः अतः भारते ऋषीणां स्थानं प्रमुखं वर्तते। ऋषयः सत्यद्रष्टारः तेषां पूजनेन परमसत्यावबोधनं भवतीति अस्माकं विश्वासः। वेदमन्त्राणां जपवेलायां ऋषि-छन्दः-देवता इति क्रमेण मृगमुद्रया सहितं

न्यासं कुर्वन्ति पूजकाः तदनन्तरमेव तैः मन्त्रप्रयोगः क्रियते। भाद्रपदमासे विनायकचतुर्थ्यनन्तरम् अग्रिमा तिर्थिरस्ति ऋषिपञ्चमी। सप्तर्षीनां पूजनं तथा पञ्चर्षीनां पूजनं च भवतः प्रायः । कश्यपः अत्रिः भरद्वाजः विश्वामित्रः गौतमः जमदग्निः वसिष्ठः एते सप्तर्षयः इति प्रसिद्धाः। ऋषयः मन्त्रद्रष्टारः इत्यपि जानीमः। अस्माकं धर्मग्रन्थाः तेषां व्याख्याः च सर्वे ऋषयः एव रचितवन्तः तदाश्रित्य खलु अस्माकमस्तित्वम्। ज्ञाताज्ञातदोषनिवारणार्थं ऋषीणां पूजां कुर्वन्ति अधुनापि । अनया पूजया पूर्वजन्मनि कृतानि पापान्यपि निवारयितुं शक्यते इत्येव शास्त्रमतम्। विश्वकर्मा एव अस्य प्रपञ्चस्य ब्रह्मादिदेवानां ऋषीणां च सृष्टेः पृष्ठतः अस्तीति वेदस्य प्रमाणं किन्तु तेषां पुरतः स्वयमेव सः परमेशः नाविर्भूतवान् तन्निमित्तं दुखिताः बह्मादिदेवगणाः सर्वे ऋषयः च तस्य सेवाम् अकुर्वन्। अन्ते तेषां पुरतः स्वस्य विराटस्वरूपसमेतः परमकारणभूतभगवान् प्रत्यक्षमकरोत् तदारभ्य तद्दिनस्य आचरणं ऋषिपञ्चमी इति नाम्ना अस्ति इत्यपि प्रसिद्धा कथा श्रूयते । सर्वेषां संस्कृतसमुपासकानां मम बान्धवानां कृते अस्यैव पुण्यदिवसस्य शुभाशयाः अस्मिन् समये संस्कृतक्षेत्रे अपिच अस्माकं शास्त्रेषु च निपुणतां प्राप्तुं ऋषीणां अविरामानुग्रहं भवतु इति प्रार्थये।।

________________________________________________________________________________________________________________________________

🌺सोमवासरः (04-09-17)⛳

✍प्रस्तावविषयः– ओणम् (श्रवणण्)🌾

Sanskrit essay about onam
तिरुवोणम् केरलीयानां प्रमुखोत्सवः। वामनावतारसंबद्घःअस्ति अयम् उत्सवः। श्रावणमासस्य अत्तं (हस्तनक्षत्रम्) नक्षत्रदिनादारभ्य तिरुवोणनक्षत्रदिनपर्यन्तम् (श्रावणनक्षत्रम्) दशदिनानि भवति अयम् आघोषः। जनाः प्रथमदिनादारभ्य गृहे पुष्पाणि उपयुज्य अलङ्कारं कुर्वन्ति। श्रीपार्वत्याः प्रियं पुष्पं तुम्ब (Leucas aspera) तस्मिन् अलङ्कारे मुख्यमस्ति। अलङ्कारस्य मध्ये वामनमूर्ते: सङ्कल्पनार्थं ओणत्तप्पन् अपि भवति। अाघोषस्य अन्तिमदिनद्वयम् इतोऽपि प्रामुख्यम् अस्ति। विशिष्टं भोजनम् अपि सिध्दं कुर्वन्ति जनाः। नूतनवस्त्राणां धारणं भवति। केरले प्रादेशिकशौल्या आघोषे तत्र तत्र किञ्चित् भेदाः दृश्यन्ते।पूर्वं महाबली केरलराज्ये महाराजः आसीत् तस्य शासनकाले सर्वत्र ऐश्वर्यं तथा समृद्धिः च आसीत्। विष्णुः वामनावतारं स्वीकृत्य तं पातालं प्रति प्रेषितवान् तदनन्तरम् ओणदिने सः प्रजानां दर्शनार्थम् आगच्छति इत्येका कथा नवीनविद्याभ्यासकालादारभ्य प्रचारे आगता अद्यत्वे सा मिथ्या कथा एव सर्वे वदन्ति। केरले ओणं सार्वजनिकोत्सवः इति मन्यते। पुराणानां सम्यक् ज्ञानं विनायेव अधुना ओणस्य परिकल्पनां कुर्वन्ति बहवो जनाः। केचन असुरनायकस्य बलेः उत्तमगुणान् चिन्तयित्वा भगवतः विष्णोः अवतारस्य किञ्चित् निन्दाभावेनाऽपि तुलनां कुर्वन्ति! हा कष्टं खलु वक्रीकृतकथा !! नूतन- नूतनमार्गेण पुराणस्य वक्रीकरणम् अपि तत्र तत्र भवतीति सत्यमेव। मतप्रचारार्थम् अन्यमतस्थाः अपि ओणं पर्वाणः तेषां व्याख्यानं कुर्वन्ति!। व्यावसायिक-वाणिज्य दृष्ट्या ओणसमयः व्यापारीणां कृते धनार्जनार्थम् उत्तमः अवसरः अस्ति।ओणं कृषकानाम् उत्सवः अपि आसीत् यतोहि कार्षिकवृत्तेः फलप्राप्तिः अस्मिन्नेव समये भवतीति कारणतः। विद्यालयेषु दशदिनपर्यन्तं विरामकालः भवति इत्यनेन छात्राः एव सोत्साहम् अस्मिन् समये सर्वत्र भागं स्वीकुर्वन्ति। बालाः गृहतः दूरं दूरं गत्वा प्रतिदिनं पुष्पाणां संग्रहणं कृत्वा अग्रिमदिनस्य पुष्पालङ्कारार्थं सज्जतां कुर्वन्ति। कदलीपत्रे पुष्पाणि स्वीकृत्य बालाः इतस्ततः धावन्तः भवन्ति इतितु गतकालस्मरणा! ये तथा कृतवन्तः तेषां जीवने ओणं तु अतीवमनोहरोत्सवः इति सत्यमेव । आधुनिके काले दूरदर्शनस्य पुरतः उपविश्य चलनचित्रं पश्यन्ति प्रायः बालाः! यतोहि पुष्पाणि आपणं गत्वा क्रीणन्ति पोषकाः तत्र मानसिकोल्लासं तावद् न भवतीति मे अभिप्रायः। यद्यपि यत्र यत्र केरलीयाः देशविदेशेषु निवसन्ति तत्र तत्र अद्यापि ते यथाशक्तिः ओणाघोषं कर्तुं प्रयत्नं कुर्वन्ति । नवीनजीवितसाहचर्ये इतरेषु उत्सवेषु इव अस्मिन् उस्तवे अपि सर्वेषां भागस्वीकरणम् अस्तियेव। कारणं तु नास्ति अन्यत् *उत्सवः प्रियाः खलु मानवाः*!

सर्वेभ्यः अस्य श्रावणोत्सवस्य ओणं पर्वणः शुभाशया:
________________________________________________________________________________________________________________________________

😾शुक्रवासरः (08-09-17) 🤕

✍प्रस्तावविषयः– दास्यभावः😓

दासस्य भावः दास्यभावः परिचारकानां भावः भवति दास्यभावः किन्तु जनाः दास्यभावः नीचभावः इति बहुधा भावयन्ति। दास्यभावोऽपि श्रेष्ठभावो भवति यदि भगवतः वा महापुरुषाणां वा दासो भवतिश्चेद्। कस्य दासः इत्यनुसारमेव तत्र श्रेष्ठत्वं सिध्यति इति जानीमः। नवविधभक्तिमार्गेषु दास्यमपि अस्ति खलु तत्र भगवतः दासोऽहम् इति भावेन सत्कर्मेषु संलग्नो भवितव्यम्। वस्तुतः जीवने सर्वेऽपि कस्यचित् दासा एव ननु। भक्तानां दासः भगवान् इति पुराणेषु विवृतं वर्तते। भगवान् कृष्ण एव अनेकेषु सन्दर्भेषु इदं जीवने अनुष्ठितवान् अस्मान् बोधितवानपि। नीचानां कुपुरुषाणां दासो भूत्वा स्वस्य नीचत्वमपि गताः बहवः इत्यपि पुराणेषु दृश्यते। यथा रावणस्य दासो भूत्वा कुम्भकर्णस्य नाशः तथा दुर्योधनस्य दासो भूत्वा भीष्मस्य पतनम् इत्यादीनि उदाहरणानि द्रष्टुं शक्नुमः। अस्माकं नीतिशास्त्रानुसारं राजा प्रजानां दासः किन्तु तद्विरुद्धमपि दृश्यते बहुत्र। स्वयं भगवतः दास इति विचिन्त्य उत्तमकार्येषु समर्पितचित्ताः भवेम।।

________________________________________________________________________________________________________________________________

👶🏻गुरुवासरः (07-09-17) 👦🏻

✍प्रस्तावविषयः– पाठशाला-सुहृत् 🤝

(=पाठशालायां सहपाठी-मित्रम्)

केनापि पाठशालाजीवनं कदापि विस्मर्तुं नैव शक्यते। विद्यालयकाले अनेकानि मित्राणि भवन्ति। पठनकाले परस्परसहकार्येण क्रीडया च व्यक्तेः विकसनस्य प्रारम्भः भवति। छात्राणां मैत्री प्रायः कलङ्करहिता एव। तेषु बहवः सुहृद्बन्धाः आजीवनं तिष्ठन्ति । विद्यार्थिनां पठनतात्पर्यकौशलविकासार्थं पाठशालसुहृदः अत्यन्तं प्राधान्यं वहन्ति। परस्परविनिमयेन पठने शीघ्रं फलप्राप्तिरपि सिध्यन्ति यतोहि खलु भिन्नभिन्नवैभवयुक्ताः भवन्ति छात्राः। समाजसेवऽऽपि पठशालातः एव प्रारम्भः भवति। विद्यालयात् यदा महाविद्यालयं प्रविशन्ति तदा विद्यार्थिनां मध्ये मित्रत्वम् अधिकं भवति किन्तु सत्सङ्गेन एव तेषाम् अभिवृद्धिर्भवति अन्यथा मैत्री आजीवनबाधारूपेण आपतति। अद्यत्वे महाविद्यालयछात्रसंघादेव छात्राः समाजविरुद्धमद्यपानादि अनुत्तमकार्येषु निहिताः भवन्ति इति तु दुःखसत्यम्। पोषकाः यथाशक्तिः बालानां सौहृद विषयेऽपि जागरूकाः भवेयुः।।
________________________________________________________________________________________________________________________________

🕗शुक्रवासरः (15-09-17) 🔱

✍प्रस्तावविषयः– समयस्य सदुपयोगः▶

समयः जीवने अत्यन्तामूल्यः इति संशयं विना वक्तुं शक्यते।यः समयस्य सदुपयोगं करोति तस्यैव विजयप्राप्तिः भवति। किन्तु समान्यतया वयं समयस्य अमूल्यत्वं सदा न स्मरामः। समायाभावेण यत्किमपि नष्टं भवति चेदेव समयस्य विषये चिन्तयन्ति मानवाः। कदाचित् मानवानां आयुः विषये तस्मिन् काले समयस्य यापनविषयस्योपरि सन्देशमेकम् अपठम्। तत्रलिखितमस्ति निद्राभोजनस्नानवार्तालापादि रूपेण जीवनस्य भूरिभागोऽपि नष्टो भवतीति तदेव जीवनं इति चिन्तयाम तथापि तत्रच समयस्य वृथायापनमेव अधिकं भवति। छात्राणां समयोपयोगः तेषां भविष्यकालजीवने निर्णायकः भवति। आधुनिके काले अन्तर्जाले तथा वाट्साप्प् इत्यादि तन्त्रांशेषु बहवः कालयापनं कुर्वन्ति इति तु सत्यम्। एवं सति तत्रापि ज्ञानार्जनार्थं तथा अभ्यासार्थं वा तस्यैव समयस्य सदुपयोगं कर्तुं शक्नुमः इत्यस्मिन् विषये गणोऽयं मकुटोदाहरणम् इति भावये। तर्हि सम्भूय वयं सर्वेऽपि इतः परं समयस्य सदुपयोगं कर्तुं दृढमनस्को भवेम।।
________________________________________________________________________________________________________________________________

🗣मङ्गलवासरः (12-09-17) 👌✍प्रस्तावविषयः– सुभाषितम्📚

सुभाषितं नाम सुन्दरं वाक्यम्। संस्कृते अनेकानि लोकप्रियाणि सुभाषितानि सन्ति। प्रायः इतरभाषासु अपि भवन्ति विविधानि सुभाषितानि। उत्तमकार्याणि सरलरीत्या बोधयन्ति तानि। आकर्षकं भवति सुभाषितानां रूपम्। उदाहरणसहितेन वा अलङ्काराणां साहाय्येन वा सुभाषितकाराः तानि रचयन्ति कथयन्ति च।
विषादप्यमृतं ग्राह्यं बालादपि सुभाषितम् । अमित्रादपि सद्वृत्तं अमेध्यादपि काञ्चनम्।।
इत्येव खलु? सुभाषितं श्रुत्वा विवेकशालिनः तस्य सारांशं स्वीकृत्य जीवने आचरन्ति। प्रायः सुभाषितानि नीतिधर्मसद्गुणबोधकानिभवन्ति । संस्कृते अनेकाः सुभाषितकाराः सन्ति। भर्तृहरेः सुभाषितानि अत्यन्तप्रसिद्धानि।

येषां न विद्या, न तपो, न दानं ज्ञानं न शीलं न गुणो न धर्मः ।

ते मर्त्यलोके भुवि भारभूताः मनुष्यरूपेण मृगाश्चरन्ति ।।

यस्य नास्ति स्वयं प्रज्ञा शात्रं तस्य करोति किम् | लोचनाभ्याम् विहीनस्य दर्पण: किं करिष्यति।।

अलसस्य कुतो विद्या , अविद्यस्य कुतो धनम् |
अधनस्य कुतो मित्रम् , अमित्रस्य कुतः सुखम् ||
एतादृशानि सुभाषितानि किञ्चित् कठिनरीत्या चेदपि अस्मान् सत्कर्मार्थं प्रेरयन्ति ननु ।
संस्कृतपठने सुभाषितानां प्रयोजनं महत्तमं वर्तते यतः सरलभाषाप्रयोगेन छात्राणां भाषाभिरुचिः वर्धमाना भवति।
वयमपि सुभाषितास्वादकाः भवेम। तानि पठामः स्वजीवने आनयामः संस्कृतप्रचारे प्रयोगयामः।।
________________________________________________________________________________________________________________________________

🚃रविवासरः (01-10-17)🚝

✍प्रस्तावविषयः– रेलयानम्🚂
विश्वे अस्माकं रेल् शृङ्खला दैर्घ्ये तृतीयस्थानं वहति। भारतसर्वकारेण नियन्त्रिता संस्था 119,630 किलोमीटर् विस्तृता अस्ति। आङ्ग्लशासनकाले एव रेल् व्यवस्थायाः आरम्भः जातः आदौ वस्तूनां गतागतार्थं परिकल्पितम् कालान्तरे जनानां सञ्चारार्थमपि। अद्य अस्माकं जीवने रेल् व्यवस्था मुख्या ननु। देशस्य विकासो ऽपि रेल् विस्तारेण जातः। आधुनिककाले सङ्गणक-अन्तर्जाल विज्ञानानां योजने सति रेल् व्यवस्थायाः नवयुगप्रभावस्य आरम्भः जातः । भारतदर्शनम् इति विनोद-तीर्थयात्राः अपि IRCTC द्वारा प्रचलिताः। रेल् यात्रा सर्वदा सुखप्रदायिनी सुदीर्घयात्रायाः अनन्तरमपि तावत् शरीरिकक्षीणं न भवति इति कारणतः प्रायः सर्वे अस्याः व्यवस्थयाः उपयोगं कर्तुम् इच्छन्ति। स्त्रीणां सुरक्षा भक्षणपद्धत्यां परिष्कारः शौचालयशुचित्वम् समयनिष्ठा इत्यादयः विषयाः पुनरपि परिष्कारणीयाः। मुख्यनगरेषु मेट्रोरेल्यानस्य निर्माणं वाहनसम्मर्दं न्यूनीकरोति। आधुनिककाले रेल् यानस्य स्थानं मुख्यं वर्तते। सर्वेषां यात्रा सुरक्षितयात्रा सुखयात्रा शुभयात्रा च भवेत्।।

________________________________________________________________________________________________________________________________

🌷सोमवासरः (2-10-17)🌼प्रस्तावविषयः– गान्धीजन्मदिम्💐

राष्ट्रपिता महात्मागान्धेः जन्मदिनम् आभारते विपुलरीत्या सर्वदा अघोषयन्ति। प्रायः सर्वत्र शुचित्ववाराघोषमपि भवन्ति। अनेकाः स्वातन्त्र्यसमरनायकाः सन्ति तथापि महात्मागान्धिः तेषु अन्यतमः य अहिंसामार्गेणैव समराग्रे स्थित्वा मातृभूमेः मोचनार्थं प्रयत्नं कृतवान्। विश्वे बहवः प्रमुखजनाः जीवनादर्शेषु अद्यापि गान्धिमार्गम् अनुसरन्ति। महात्मा सदा भगवद्गीता स्वस्य मूलग्रन्थम् इव परिगणितवान्। ललितजीवननिरतः सन् अन्यान् तदर्थं प्रेरितवान् च। मार्टिन् लूथर् नेल्सन् मण्डेल स्टीव् बीक्को इत्यादयः वैदेशिका अपि गान्धिमार्गे आकृष्टाः जाताः । मम सत्यान्वेषणपरीक्षणकथा गन्धिमहोदयस्य आत्मकथा अस्ति।

हिन्दुधर्माचरणे सदा तस्य गौरवभावोप्यासीत् गान्धेः कृते टागोर् महोदयेन कृतं विशेषणं महात्मा इति अन्वर्थम् एव।।

________________________________________________________________________________________________________________________________

🌻बुधवासरः (04-10-17) ⛳

✍प्रस्तावविषयः– आङ्ग्लभाषा 🙏

इङ्ग्लेण्ड् देशे जाता भाषा अस्ति आङ्ग्लभाषा। एषा भाषा अद्यत्वे विश्वभाषायाः स्थाने विराजते। आधुनिकलोके आङ्ग्लभाषायाः परिज्ञानम् अत्यावश्यकं तथापि नैकेषु देशेषु तेषां मातृभाषां अवलम्ब्येव जनाः व्यवहरन्ति यथा चीनादेशः जप्पान् देशः स्पेन्-देशः फ्रेञ्च्देशः इत्यादयः । मातृभाषां परित्यज्य आङ्ग्लभाषायाः पृष्ठे न धावाम: मातृभाषया एव संस्कृतेः पोषणं भवति ननु। किन्तु विरुध्यसमीपनमेव अद्यापि भारते दृश्यते। आङ्ग्लभाषा सर्वदा व्यक्तेः वा बुद्धेः वा कुलीनतयाः मापिनी भवति! कार्यक्षेत्रेपि कर्मकराणां क्षमतायाः विषयेऽपि आङ्ग्लभाषायाः प्रभावो दृश्यते एतत् सम्यक् न। विविधभाषासम्पन्नदेशः भारतदेशः तथापि भारतीयानां परस्परव्यवहारार्थं आङ्ग्लभाषा उपयुज्यते। संस्कृतस्य प्रचारलोपः वैदेशिकानां शासनप्रभाव: च तत्र कारणे। किन्तु मूढा इव भाषाविरोधमपि न करणीयम् अस्माभिः शक्त्यनुसारं अधिकभाषां ज्ञात्वा अस्माकं मातृभाषायाः तथा संस्कृतस्य परिपोषणमपि कर्तव्यम्। आङ्ग्लभाषा एका भाषा न तु जनानां व्यक्तित्वस्य लक्षणम् ‌। अस्यां भाषायामपि संस्कृतस्य प्रभावोऽस्तीति भाषानिपुणाः वदन्ति तदपि अस्माकं कृते अङ्गीकारं किल।।
________________________________________________________________________________________________________________________________

💐शनिवासरः (30-09-17) 💥

✍प्रस्तावविषयः– विजयदशमी🌺

नवरात्राघोषस्य अन्तिमदिनम् अस्ति विजयदशमी। हैन्दवानां प्रमुखदिनेस्मिन् सर्वत्र सरस्वत्याः पूजाः भवन्ति तथैव भक्ताः बालानां विद्यारम्भं कारयन्ति। मन्दिरेषु विशेषपूजाः भवन्ति। प्रदेशानुसारम् आचरणे किञ्चित् भेदाः भवन्ति तथापि प्रायः सर्वत्र आयुधपूजा पुस्तकपूजा विद्यारम्भकार्यं च मुख्यं भवन्ति। दुर्गाष्टम्यां सायंकाले पूजायाः अरम्भः भवति तदनन्तरं विजयदशमीदिनपर्यन्तम् अनध्ययनदिनानि भवन्ति अतः बाल्ये एतानि दिनानि अतीवसन्तोषदायकान्यासन् 😃। सरस्वती पूजायाः प्रसादः मधुरपृथुक अतीव रुचिकरः। विजयदशमीदिने पूजानन्तरं भक्ताः गुरुं गणपतिञ्च ध्यात्वा वाग्देव्यीं प्रणम्य सकलदेवीदेवानां मङ्गलश्लोकान् उक्त्वा अर्चकेन प्रदत्तं पुस्तकं स्वीकृत्य विद्यारम्भः क्रियते। प्रायः सर्वे प्रतिवर्षम् एवं रीत्या विद्याक्षेत्रे नूतनोऽस्मि इति भावनया सरस्वत्या अनुग्रहार्थमेवं कुर्वन्ति। तदेव सत्यं खलु आजीवनं विद्यार्थिनः एव ननु सर्वे। सर्वेभ्यः महासरस्वत्याः कृपानुग्रहं भवतु इति प्रार्थये।।

________________________________________________________________________________________________________________________________

🍨शनिवासरः (28-10-17) 🍯

✍प्रस्तावविषयः– प्रीतिभोजनम् 🍒

भोजनविषये वक्तुं सर्वे इच्छन्ति! 🤣 भोजनं विना जीवनमेव नास्ति। प्रीत्या भोजनं दद्युः प्रीत्या भोजनं खादामश्च। अद्यत्वे भोजनार्थम् एव समयः नास्तीति बहूनां कथनम्। किं वा प्रयोजनं तर्हि भोजनार्थम् न जीवामः तथापि जीवनार्थं भोजनं करणीयमेव किल। उत्तमं भोजनम् आरोग्यदायकम्। व्यक्तेः स्वभावानुगुणमेव भोजनेऽपि रुचिः भवति तथापि स्वात्तिकभोजनमेव श्रेष्ठतमम् इति शास्त्रमतम्। कुटुम्बे परस्परैक्यवर्धनाय सर्वे सम्भूय भोजनं करणीयम्। मित्रैः सह बान्धवैः सह प्रीतिभोजनेन एव मैत्रीं वर्धते। एतदर्थम् एव अस्माकं संस्कारे विवाहजन्मदिनादि उत्सवेषु भोजनम् अत्यन्तम् अविभाज्यो भवति इति वयं जानीमः। यावश्शक्यं गृहे एव एतादृशानि प्रीतिभोजनमेलनानि भवेयुः तेन भवति लाभद्वयम् एकः लाभः धनस्य अल्पव्ययः अपरः शुद्धभोजनसिद्धिः। संस्कृतभाषयायः विकासाय अपि प्रीतिभोजनं कर्तुं शक्नुमः खलु! प्रथमं कः आह्वयति इति पश्यामः।।

________________________________________________________________________________________________________________________________

🎯सोमवासरः (30-10-17)⚙

✍प्रस्तावविषयः– अभियन्ता🚗

आधुनिके लोके वैज्ञानिकविद्यायाः प्रभावः सर्वत्र दृश्यते। विविधयन्त्राणि तथा विविधाः निर्मितयः सर्वम् अपि शास्त्रसाङ्केतिकविद्यायाः विकासात् जातम्। यन्त्रनिर्माणमेखला एव वर्तमानकालस्य विविधसौकर्य्याणां पृष्ठतः अस्तीति को वा न जानाति।वैज्ञानिकक्षेत्रस्य विकासाः सर्वत्र रूढमूलाः वैद्यशास्त्रे निर्माणमेखलायां कलाक्षेत्रे कृषिकार्ये विद्याभ्यासक्षेत्रे कुत्र नास्ति। अस्य पृष्ठभूमौ अभियन्त्रॄणां परिश्रममेव खलु। गतदशाकानाम् अपेक्षया वार्ताविनिमये बहुदूरम् अग्रे प्राप्तवन्तः इति सुस्पष्टम्। पुरातनकाले अभियन्ता नोचेत् अभियन्त्री समूहे अत्युन्नतस्थाने आसीत् किन्तु अद्यत्वे तथा किमपि नास्ति प्रायः सर्वेषु कुटुम्बेषु भवति एक: तन्त्रज्ञः। तथापि तपोयुक्तः तन्त्रज्ञः अद्यापि लोककल्याणकृत् इत्येव परिगण्यते। एतेषु दिनेषु एकस्य देशस्य विकासः तस्य देशस्य वैज्ञानिकविकासस्य आधारेण एव मापनं भवति यद्यपि सांस्कृतिकविकासो नास्ति तथापि ते एव लोकनेतारः एतत् किञ्चित् अनुचितम् इत्यपि चिन्तयामि। वैज्ञानिकरीत्या सर्वतोमुखविकासं भवेत् इत्येव आशास्महे।

________________________________________________________________________________________________________________________________

⛳मङ्गलवासरः (31-10-17) 🏵एकादशी–

✍प्रस्तावविषयः– उत्थान-एकादशी💐

उत्थानएकादश्याः अपरनामानि हरिबोधिनी, प्रबोधिनी, देवोत्थानि इत्येतानि। कार्त्तीकमासस्य द्वितीया एकादशी एव उत्थान-एकादशी इति कथ्यते। अस्मिन् दिने व्रताचरणम् सर्वपापानां विनाशं करोति इति विश्वासः। पुराणेषु उत्थान-एकादश्याः वैशिष्ट्यं ब्रह्मदेवः नारदाय प्रोक्तम् इति दृश्यते।श्रद्धया व्रतानुष्ठानं कुर्मश्चेत् पूर्वजन्मनि कृतानि पापान्यपि नश्यन्ति । पद्मपुराणे कार्त्तिकमासस्य माहात्म्ये वर्णितम् अस्य दिनस्य वैशिष्ट्यम्। तत्र ब्रह्महत्यादोषपरिहारार्थम् अपि निर्दिश्यते। पद्मपुराणानुसारं भगवतः विष्णोः अनुग्रहार्थम् एकादशीव्रतानुष्ठानमेव आचरणीयम्। तुलसीकल्यणम् इति कश्चन विशिष्टकार्यक्रमः उत्थान-एकादश्याः अग्रिमदिने एव जनैः आचर्यते। उत्थान-एकादश्यानन्तरं चातुर्मास्य व्रतसमाप्ति: भवति। मांसाहारवर्जनं पलाण्डुनां वर्जनं इत्यपि करणीयम्। किञ्चित् स्वात्तिकभोजनमेव व्रतानुष्ठानधिया स्वीकरणीयम्। हरिनामजपे एव बुद्धिं समर्पयेत्।।

________________________________________________________________________________________________________________________________

🌺बुधवासरः (01-11-17) द्वादशी🌷

✍प्रस्तावविषयः– तुलसीकथा🌿

तुलस्या सर्वदेवानां प्रीतिर्भवति।पूजासु तुलसीपत्राणाम् अर्चनं कुर्मश्चेद् अभीष्टसिद्धिरेव फलम्। प्रायः तुलसीपत्रैः सर्वदेवाः पूज्यन्ते। गणानाथं तुलस्या न पूजयेत् इत्यपि केचन वदन्ति किन्तु केरलसम्प्रदाये तथा किमपि न दृष्टवान् । सर्वासु पूजासु अभिषेकोत्तरं तुलसीपत्रे चन्दनं लेपयित्वा मूर्तेः ललाटे मूलमन्त्रसहितं संस्थाप्येव मूर्त्तिपूजायाः आरम्भः भवति। वैष्णवपूजासु तुलसीपत्राणाम् प्राधान्याधिक्यं दृश्यते। केरलमन्दिरेषु पूजापुष्पसज्जीकरणं तथा मालानिर्माणं कश्चनविभागीयैः एव क्रियेते ते मालारचनसमये अादौ तुलसीपत्राणां योजनेनैव मालाः रचयन्ति तथा कश्चन विधिः वर्तते। तुलसीस्तोत्रे तुलस्याः माहात्म्यं सम्यक् वर्णितम्। तत्रैव वर्णितं यत् वासुदेवादयः देवाः पुण्यतीर्थानि च तुलसीदले तिष्ठन्ति। यत्र यत्र तुलसीवनानि सन्ति तत्रैव वासुदेवस्य वासः ‌। अन्तिमे श्लोके एवमस्ति

“यन्मूले सर्वतीर्थानि

यन्मध्ये सर्वदेवताः

यदग्रे सर्ववेदाश्च

तुलसि त्वां नमाम्यहम् ”
पुरातनरीत्या अस्माकम् आचरणे तुलसीपूजा नित्यपूजा भवेत्। सन्ध्यासमये तूलसीमण्डपे दीपं प्रज्वलयामः अनेन सर्वदेवानां तथा श्रुतिमातुः च अनुग्रहं लप्स्यामहे।।

________________________________________________________________________________________________________________________________

संभाषणविषयः – भारतदेशः

धातुः – दृश्
गायन्ति देवा: किल गीतिकानि, धन्यास्तु ते भारतभूमिभागे।

स्वर्गापवर्गास्पद – मार्गभूते, भवन्ति भूय: पुरुषा: सुरत्वात्।

विष्णपुराणस्य अयं श्लोकः भारतस्य महत्त्वं बोधयति। ये जनाः भारतभूमौ वसन्ति ते देवानाम् अपि अग्रे एव! स्वर्गकवाटम् अस्ति अस्माकं देशः तथा मोक्षदायकः देशोऽपि । भारतवर्षस्य वर्णनं पुराणेषु तत्र तत्र दृश्यते। अत्रैव पुण्यभूमिः कर्मभूमिः च इतरदेशाः भोगदेशाः इत्येव सङ्कल्पः। पूर्वं राजाभरतेन अस्य देशस्य भरणं कृतम् अतयेव भारतम् इति नाम्ना प्रसिद्धं जातम् इति पण्डिताः वदन्ति भा इत्युक्ते प्रकाशः भायां रतं भारतम् इत्यपि वदन्ति बुधाः समानरीत्या भारतं इति ग्रथस्य नाम्नापि भारतं इति जातम् इत्यपि। भारं चतुर्वेदादिशास्त्रेभ्योऽपि सारांशं तनोतीति भारतं तस्य ग्रथस्य देशः भारतदेशः इत्यपि अभिप्रायोऽस्ति। भवतु नाम सर्वत्रापि अस्माकं देशस्य महिमायाः प्रकटीकरणमेव सूच्यन्ते खलु। विष्णुपुराणे एवमपि अस्ति भारतभूमेः भूप्रदेशस्य वर्णनम्
उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।

वर्षं तद्भारतं नाम भारती यत्र संतति ।।
अनन्तरं एवमपि अस्ति।
इत: स्वर्गश्च मोक्षश्च मध्यं चान्तश्च गम्यते।

न खल्वन्यत्र मर्त्यानां कर्मभूमौ विधीयते ॥

भारतं विहाय अन्यत्र कर्मभूमिः नास्तीति आशयः।
क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा।।
इत्येव ननु गीतावाक्यम् कर्माणां सिद्ध्यर्थं भारतमेव श्रेष्ठतमम्।
ब्रह्मवैवत्तपुराणे एवमस्ति
शतजन्मतपः कृत्वा जन्मेदं भारते लभेत् ।।

करोति सफलं जन्म श्रुत्वा हरिकथामृतम्।।
एवं रीत्या सर्वत्र भारतमहिमा वर्णिता अस्ति। भारतदेशे जन्मं प्राप्य वयं सर्वे धन्याः स्मः
रत्नाकराधौतपदां हिमालयकिरीटिनीम्‌ ब्रह्मराजर्षिरत्नाढ्याम् वन्दे भारतमातरम्‌ ॥
धन्यवादः सर्वेभ्यः। शुभरात्रिः।।

________________________________________________________________________________________________________________________________

⭐रविवासरः (05-11-17) प्रतिपदा*⃣✍प्रस्तावविषयः– नक्षत्राणि🌟

नक्षत्राणि प्रकाशं वहन्ति। प्रपञ्चे अनन्तनक्षत्राणि सन्ति। भूमेः समीपस्थं नक्षत्रं सूर्यः एव। सूर्यः एव ऊर्जस्य केन्द्रः। रात्रौ सूर्यस्य प्रकाशः भूमेः अन्यपार्श्वे प्रसारितः इत्यनेन रात्रौ अन्यनक्षत्राणां दर्शनं साध्यं भवति। भारतीयानां ज्योतिश्शास्त्रे नक्षत्राणां विषये सुविस्तरप्रतिपादनं विद्यते। २७ नक्षत्राणां तथा नवग्रहाणाम् आधारेण एव ज्योतिषशास्त्रं तिष्ठति। अद्यापि नक्षत्राणि शास्त्रान्वेषणतत्पराणां मनसि नैकान् प्रश्नान् जनयन्ति। सङ्कीर्णाः रासप्रक्रियाः निरन्तरं प्रचलन्ती अस्ति नक्षत्रमण्डलेषु।नक्षत्राणाम् अपि जननमरणं भवन्ति तेन नक्षत्रपदे बहुपरिवर्तनानि च भवन्ति।। नक्षत्रनिरीक्षणम् आनन्ददायकमेव।।
________________________________________________________________________________________________________________________________
🌼मङ्गलवासरः (24-10-17) 💪

✍प्रस्तावविषयः– शक्तिपीठम्🌺

दक्षपुत्र्याः सतीदेव्याः भौतिकशरीरावशिष्टस्थानेषु एव शक्तिपीठानि जातानि इत्येव कथा। दक्षयागे दक्षः आदिपराशक्त्याः सतीदेव्याः अपमाननं कृतवान् तत्रैव तेन शिवः अपमानितः। स्वस्य पतेः अपमानात् देवी क्रुद्धा तथा अत्यन्तदुःखिता च जाता। दक्षपुत्री अस्मि इति कारणतः भगवान् महादेवोऽपि सभायां निष्ठूरवचनैः तिरस्कृताः अतः अत्रैव मम देहत्यागं करोमि इत्युक्ता देवी आत्माहुतिम् अकरोत्। इमां वार्तां श्रुत्वा शिवः अत्यन्तकोपाकुलो जातः। दक्षयागे उग्रस्वरूपः वीरभद्रः महाकाली

शिवभूतगणाश्च गतवन्तः ते दक्षयागनाशं तथा दक्षस्य शिरछेदनं कृतवन्तः। तथापि करुणामयः परमेशः पुनः दक्षाय जीवदानेन अनुग्रहं दत्तवान् अजमुखेन दक्षः भगवतः स्तुतिम् अकरोत्। ततः सतीदेव्याः भौतिकशरीरेण सह परमविरहेण भगवान् शिवः प्रपञ्चे सर्वत्र अटितवान्। शिवदुःखनिवृत्यर्थं भगवान् विष्णुः सुदर्शनचक्रेण देव्याः मृतशरीरस्य छेदनम् अकरोत्।

छिन्नानि शरीरावशिष्टानि भूतले तत्र तत्र पतितानि। यत्र यत्र देव्याः शरीरभागाः पतिताः तत्रैव शक्तिपीठानाम् आविर्भावः इति कथा। देवीभागवते शिवमहापुराणे च प्रमुखानां शक्तिपीठानां विषये सूचना अस्ति। कालभैरवेण सह शक्तिपीठेषु देव्याः सानिध्यं वर्तते इति विश्वासः। इदानीं भारते तथा समीपस्थेषु विदेशेषु च १०८ शक्तिपीठानि वर्तन्ते। तेषु ५२ स्थानानि मुख्यानि तेषु १८ तथा ४ पीठानि अत्यन्तमुख्यपीठानि इत्येव कथ्यन्ते। विमला-तारातरिणि-कामाख्य-दक्षिणकालिका एतानि चत्वारि शक्तिपीठानि इति प्रसिद्धानि।।

________________________________________________________________________________________________________________________________

🎀सोमवासरः (06-11-17) द्वितीया🌷

✍प्रस्तावविषयः– उज्जयिनी💐
*उज्जयिन्यां महाकालः*

उज्जयिनी पुरातननगरम् अस्ति।उज्जयिनी अधुना मध्यप्रदेशे अस्ति। महाभारते उज्जयिनी अवन्ती नाम देशस्य केन्द्रस्थानम् इत्येव सूचितं वर्तते। हैन्दवानां पुण्यसप्तनगरीषु अन्यतमम् । उज्जयिन्न्यां महाकालेश्वरस्य प्रसिद्धज्योतिर्लिङ्गमन्दिरं विद्यते शिवमहापुराणे ज्योतिर्लिङ्गश्लोके अस्य मन्दिरस्य प्रतिपादनम् अस्ति। प्रतिद्वादशवर्षे अत्र महाकुम्भमेला भविष्यति। श्रीकृष्णस्य गुरोः सान्दीपनिमहर्षेः आश्रम उज्जयिन्याम् एव आसीद् इति विश्वासः।उज्जयिन्येव भारतीयानां कालगणनायाः आधारः तत्रत्य महाकालेश्वरः शिवः कालस्य ईश्वरः। एवं बहुविधरीत्या उज्जयिनी प्रसिद्धं पौराणिकनगरम् आसीद् इति सप्रमाणं वक्तुं शक्नुमः।।

________________________________________________________________________________________________________________________________

🌺मङ्गलवासरः (07-11-17) तृतीया🌷

✍प्रस्तावविषयः– वणिक्🌸

यः वाणिज्यं कृत्वा जीवति स एव वणिक् इति कथ्यते। पुरातनकालादारभ्य वाणिज्यकार्यम् अस्ति। शास्त्रानुसारं ते वैश्याः। किन्तु अधुना सर्वेऽपि वाणिज्यं कर्तुं शक्नुवन्ति। वाणिज्ये सत्यनिष्ठा नीतिबोधः सुतार्यता च अद्यत्वे नष्टप्रायाः। भारते पौराणिककाले जनाः अन्नस्य औषधस्य तथा विद्यायाः विपणनं न कुर्वन्ति स्म किन्तु दौर्भाग्यवशाद् अधुना तेभ्यः एव जनाः अधिकलाभं जनयन्ति। अनेन कारणेन सर्वत्र धार्मिकमूल्यानां च्युतिरेव जातम्। खाद्यवस्तूनां विक्रयणेऽपि नीचरीत्या अशुद्धपदार्थमिश्रणं

रासपदार्थानां योजनं परिमाणे वञ्चना एवं बहुविधानि कुकार्याणि कुर्वन्ति केचन अपणिकाः। अधिकारिणः सर्वदा जागरूका न भवन्ति तथा उपभोक्तॄणाम् अपि बोधनं सम्यक् नास्ति इत्येव सत्यम्। कृषिकार्ये अमितलाभार्थम् अतीवहानिकराणां रासवस्तूनां प्रयोगः अधुना सर्वत्र दृश्यन्ते। विज्ञानस्य काल एषः अतः वाणिज्येष्वपि अन्तर्जलास्य प्रभावं सर्वत्र द्रष्टुं शक्नुमः। गृहे उपविश्य एव जनैः सर्वाणि वस्तूनि क्रीणते।अन्तर्जालवाणिज्यं नूनं नूतनसंस्काराय एव मार्गं रचयति। अत्रापि सौलभ्यं तथा वञ्चना द्वयमपि वर्तेते । ग्राहकानां बोधनं तत्रापि अवश्यं भवितव्यम्। यत्किमपि भवतु वाणिज्यक्षेत्रम् अस्माकं जीवनस्य नित्यभागं जातम् इति तु सत्यं तर्हि श्रद्धया नियमानुसारं च सर्वत्र व्यवहारः करणीयः नान्यः उपायः विद्यते।।

________________________________________________________________________________________________________________________________
👍बुधवासरः (08-11-17) चतुर्थी💪

✍प्रस्तावविषयः– प्रयत्नो विधेयः☝

*उद्यमेन हि सिध्यन्ति कार्याणि न मनोरथैः । न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥*

सुप्रसिद्धसुभाषितमिदं प्रयत्नस्य प्राधान्यं द्योतयति। प्रयत्नं विना किञ्चिदपि कार्यसिद्धिर्नभवति। परिश्रमम् एव मानवानां धनम्। कठिनपरिश्रमेण किमपि असाध्यं नास्ति। परिश्रमेण विना विजयमपि नास्ति। केचन परिश्रमस्योपरि भाग्यमेव प्रधानम् इति मन्यन्ते विजयपराजयोः पृष्ठतः भाग्यमित्येव चिन्तयित्वा अलसाः भूत्वा जीवन्ति तेषां चिन्तनं सर्वदा नोचितम्। यत्र परिश्रमः विद्यते तत्रैव दैवानुग्रहेण सह भाग्योऽपि आगच्छति। सूर्यवंशस्य राजा भगीरथः कठिनपरिश्रमेण गङ्गां भूमण्डले आनीतवान् इति कथा प्रसिद्धा खलु भगीरथप्रयत्नः इति प्रयोगोऽपि एतदेव सूचयति। भगीरथस्य प्रयत्नेन गङ्गा भूमौ आगतवती इत्यनेन सा भागीरथी इति प्रसिद्धा च जाता। परिश्रमः न तु केवलं छात्राणां कृते न तु केवलं उद्योगार्थीनां कृते मानवाः सर्वे परिश्रमशालिनः भवेयुः। यदि राष्‍ट्रवासिनः सर्वे परिश्रमशालिनः भवन्ति तर्हि राष्ट्रस्य पुरोगमनं तीव्रगत्या भवति जप्पान् देशस्य पुनरुत्थानम् एतेन कारणेन जातम् इति वयं जानीमः। लोकेऽस्मिन् कर्मजाः क्षिप्रं सिद्धिं प्राप्नुवन्ति इति गीतायां भगवतः वचनम्। भगवद्गीतायाः बोधनमपि कर्माचरणेषु परिश्रमश्रद्धां ददतु इत्येव। यदि वयं महापुरुषाणां जीवनं तेषां विजययात्रां च पश्यामश्चेत् कठिनपरिश्रमस्य मूल्यं कियदस्ति इति अवगन्तुं शक्नुमः। न केवलं भौतिकसुखार्थम् अपितु आत्मीयौनत्यार्थमपि प्रयत्नो विधेयः। जीवने सर्वत्र सूक्ष्मताम् आनयाम तथा निरन्तरप्रयत्नमपि कुर्मः तर्हि भाग्यं विजयं च सुनिश्चितम् ।।
________________________________________________________________________________________________________________________________

🌺गुरुवासरः (09-11-17) षष्ठी🌸✍प्रस्तावविषयः– षट् (संख्या)6⃣

सर्वाः संख्याः प्रधानाः तथापि भारतीयानां चिन्तनमनुसृत्य काचितां संख्यानां प्राधान्यं किञ्चिद् अधिकम् अस्तीति दृश्यते। यथा शून्यम् एकम् अष्ट नव षोडश अष्टादश अष्टोत्तरशतं इत्यादयाः। एवं रीत्या षड् अपि किञ्चित् प्राधान्ययुक्ता एव । भारतीयानां तत्तचिन्तने षड् इति संख्यायाः प्राधान्यं कुत्र कुत्रास्‍तीति सम्क्षिप्तरूपेण पश्यामः।
*षण्मुखः*
भगवतः कार्तिकेयस्य षण्मुखः -षडाननः इति नामद्वयं प्रसिद्धं तस्य षट् मुखानि सन्तीति कारणेन षडानन इति प्रसिद्धो जातः। भगवतः षट् मुखानि पञ्चेन्द्रियानां तथा मनसः प्रतीकानि इत्येव अवगम्यन्ते। षट्मातृभिः पोषितः भगवान् सुब्रह्मण्यः षण्मातुर इत्यपि प्रसिद्धः।
*षड्गुणा:*
ज्ञान-बल-ऐश्वर्य- वीर्य – शक्ति -तेजस् एते षड्गुणा इति बुधैः कथ्यन्ते।
*अरि- षड्वर्गः*

षट् शत्रवः काम-क्रोध लोभ – मोह – मद – मास्तर्य एते जीवने अस्माकं नाशाय एव भवन्ति। अत वयं एतान् वर्जयेम।
*षडूर्मयः*
शोक – मोह- ज्वर – मृत्यु – क्षुधा – पिपासा च एताः षडूर्मयः। अर्थात् ऐताः शारीरिकान् एवं मानसिकान् च भावान् जनयन्ति। शत्रुजित्त्, शत्रुतापनः एेते विष्णोः नामनी अत्र आत्मनि स्थितानां एतादृशानां शत्रूणाम् उपरि विजयं प्राप्तम् इत्येव भावः।
*षडङ्गन्यासः*
होमजपपूजादि उपासनानां पूर्वं मन्त्रसमेतं शरीसस्य षट् स्थानेषु स्पृशति एतदेव षडङ्गन्यासः।
*षट्कर्माणि*
क्षमा – दम – तप – शौच – क्षान्ति- आर्जवम् इति ब्राह्मणानां लक्षणानि इति गीतायाम्।
*षड्शास्त्राणि*
शिक्षा -कल्प- व्याकरणं- निरुक्तं -छन्दः- ज्योतिषम् एतानि षड्शास्त्राणि इति प्रसिद्धानि।
*षड्दर्शनानि*
साङ्ख्यम् – योगम् – न्यायम् – वैशेषिकम् – मीमांसा – वेदान्तः एतानि भारतीयानां विश्वप्रसिद्धानि षड्दर्शनानि।
*षड्ऋतवः*
मार्गपौषौ हिमः १

माघ-फाल्गुनौ शिशिरः २ चैत्रवैशाखौ वसन्तः ३

ज्यैष्ठाषाढौ ग्रीष्मः ४ श्रावणभाद्रौ वर्षाः ५

आश्विनकार्त्तिकौ शरत् ६
“मासद्वयात्मकः कालः ऋतुः प्रोक्तो विचक्षणैः” इति श्लोके।
*षड्रसाः*
षट् विध रुचयः

कषाय- मधुर- तिक्त- लवण – आम्ल – कटु
तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः।

तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु॥

षट् संख्यासंबद्घाः इतोऽपि वैशिष्ट्यम् अस्माकं धर्मे दृश्यते।

एवं प्रकारेण बहुप्राधन्ययुक्ता संख्या अस्ति षट् इति वयं जानीम।

________________________________________________________________________________________________________________________________

✍प्रस्तावविषयः– प्रतीक्षा😌

विना प्रतीक्षया जीवनं जीवनं नास्ति। लोके सर्वैः सर्वेषु कार्येषु सर्वासु अवस्थास्वपि विविधाः प्रतीक्षाः क्रियन्ते। मृत्युशय्यायां नु जनाः वैद्यं पृच्छन्ति मम अस्यां परितस्थितौ किञ्चित् वा प्रतीक्षा अस्ति वा इति। तेनापि उच्यते भवान् प्रतीक्षमाणः भवतु सर्वं सम्यक् भवतीति । अल्पप्रतीक्षऽऽपि मनसि दृढविश्वासं जनयति आत्मबलं वर्धतेश्च।सत्यं हि मानवाः आजीवनं किमपि प्रतीक्षमाणाः भवन्ति। विद्यार्थी उत्तमशिक्षणम् विजयं च प्रतीक्षयति। उद्योगार्थि तु उद्योगं तथा अधिकवेतनं गृहस्थ उत्तमगृहं स्त्रियः आभरणानि नूतनवस्त्राणि युवकाः नूतनयानं किमधिकेन मधुराय क्रीडकनाय शिशवोऽपि प्रतीक्षां कुर्वन्ति खलु । प्रतीक्षारहितं जीवनं अर्थशून्यं तत्र करणीयं नास्ति किमपि। प्रतीक्षाः भवेयुः तदनुगुणं क्रियाशीलता अपि भवेत्।फलेच्छां त्यक्त्वा कर्माचरणं करणीयम् इति शास्त्रमतम् तत्र कार्याणां सम्यक् निर्वहणाय प्रतीक्षां कर्तुं शक्नुमः खलु। शुभप्रतीक्षा यत्र भवति तत्र कार्यनिर्वहणे ऊर्जाधिक्यं दृश्यते। एतदर्थमेव निर्दिश्यते ननु

तन्मे मनः शिवसंकल्पमस्तु इति । सर्वं भावनया जायते। अतः कदापि आशुभप्रतीक्षां न कुर्याम।

प्रतीक्षा क्रियाशीलता एतयोः तुलनं यत्र वर्तते तत्रैव वृध्दिः कार्यसिद्धिः सुखं च भवन्ति।।

________________________________________________________________________________________________________________________________

बुधवासरः (15-11-17) द्वादशी🌻

✍प्रस्तावविषयः– द्वादशीव्रतम्🌺
एकादशी-द्वादशी व्रतयोः प्राधान्यम् अस्माकं धर्मे तत्र तत्र विवृतं वर्तते। इदं व्रतं व्रतानां राजा इत्येव मतम्।अग्निपुराणे द्वादशीव्रतस्य विषये प्रतिपादितम् अस्ति। द्वादशीव्रतेण लोकेऽस्मिन् ऐश्वर्यजीवनं कृत्वा अन्ते मोक्षपदं गन्तुं शक्यन्ते इत्येव विश्वासः। मार्गशीर्षमासे शुक्लपक्षस्य द्वादशी अत्यन्तं वैशिष्ट्यम् अस्ति अस्मिन् दिने वैष्णवाः विष्णुं ध्यात्वा पूजां च कृत्वा द्वादशीव्रताचरणं कुर्वन्ति। अस्यैव व्रतविषये एकदा ब्रह्मा नारदशङ्कानिवारणार्थमेवम् उवाच द्वादशीव्रतेन तथा पूजया कथाश्रवणेन च वाजपेययज्ञफलप्राप्तिर्भवतीति। सर्वाणि व्रतानि आत्मशुद्ध्यर्थमेव इति ज्ञात्वा यथाशक्तिः शास्त्रोक्तरीत्या वयमपि अनुष्ठानं कुर्याम।।

________________________________________________________________________________________________________________________________
⛳शनिवासरः (18-11-17) अमावस्या😊

✍प्रस्तावविषयः– बसुयानम्🙏

बह् यानम् अथवा लोकयानम् अद्यत्वे सर्वसाधारणम् अस्ति। यान्त्रिकयुगेऽस्मिन् वाहनानां स्थानं प्रथमं वर्तते। गतशतकेषु जनानां गमनागमनम् अत्यन्तकष्टपूणम् आसीत्। अश्वशकटानां वा वृषभशकटनां वा साहाय्येन कष्टेन मन्दगत्या च जनाः सञ्चरन्ति स्म। तेन कारणात् तस्मिन् काले देशस्य विकासोऽपि तथैव मन्दगत्यैवासीत्। किन्तु अधुना वाहनानाम् अतिप्रसारं सर्वत्र द्रष्टुं शक्नुमः। अवास्था इयं गुणदोषमिश्रितं वर्तते तथापि अस्माकं दैनन्दिनकार्याणि तथा राष्‍ट्रपुरोगमनमपि तीव्रगत्या प्रचलन् अस्ति। लोकयानं साधारणजनानां वाहनं ये जनाः कार्यानं वा स्कूट्टर् इत्यादीनि वाहनानि क्रेतुं न शक्नुवन्ति तेषां लाभाय भवन्ति नानाप्रकाराणि सामुहिकवाहनानि बस् यानं तेषु अन्यतमम्। रोड् मार्गाः देशस्य नाडीसमूह इति कल्पयामश्चेत् लोकयानादि यानानि तस्यान्तर्गतजीवरक्तप्रवाहोऽस्तीति नास्ति संशयः। बस्यानसौकर्यम् इदानीं देशस्य कोणे कोणे अस्ति तेन यत्र कुत्रापि गन्तुं प्रभवन्ति जनाः। स्वीयवाहने अतिदूरयात्रा सर्वैः न रोचते तादृशा अपि लोकयानम् आश्रित्य निश्चिन्तया यात्रादृश्यम् अवलोक्य वा सम्यक् निद्रां कृत्वा वा गन्तुं शक्नुवन्ति। गतदशकषु शिलातैल्यमूल्यवृद्ध्या बस्यानेष्वुपि मूल्यवृद्धिर्जाता अपिच वातानुकूलयानेषु इतोऽप्यधिकं यात्राशुल्कं दातव्यम्।अधुना

अन्तर्जालेन यानचीटिकायाः सम्पादनं कथं करणीयमिति बालाः अपि जानन्ति।यन्त्रविद्यायाः विकासानुगुणं लोकयानेषु सुखानि अधुना वर्धितानि। multi-axle इत्यस्य नैकाक्षदण्डसहितेषु लोकयानेषु यात्रा अायासरहिता आस्वादकरी च भवति। यानानां विकासानुगुणं देशे सर्वत्र उत्तममार्गाः च भवेयुः। यात्रिकाणां सुरक्षाविषयेऽपि श्रद्धा दातव्या अमितवेगेन हानिरपि भविष्यति। अस्माकं देशे प्रायः जनाः स्वस्य सुरक्षाविषये तावत् चिन्तनं न कुर्वन्ति इतितु सत्यम् यथा चालकाः तथा सर्वे यात्रिकाः च seat belt इत्यस्य सुरक्षामेखलायाः सदुपयोगं कुर्युः। सुखयात्रा सुरक्षितयात्रा शुभयात्रा इत्येव सङ्कलनं कुर्याम।

________________________________________________________________________________________________________________________________

/11/2017
🎵🎵🎵🎵🎵🎵🎵🎵
संभाषणविषयः सङ्गीतम्;
🎵🎵🎵🎵🎵🎵🎵🎵
धातुः – गै

भ्वा० अनिट् प० ; गै शब्दे

(गायति) 🗣🎙
सङ्गीतं नाम रागताललययुक्तकलारूपम्। विविधशब्दानां विस्मयावह विन्यासद्वारा सङ्गीतं सर्वेषां हृदयं तोषयति।सङ्गीतस्य विषये नाट्यशास्त्रे रागताळलययुक्ताविष्कार इत्येव सूचितं वर्तते। सम्यक् गीतं सङ्गीतम् इत्यपि वक्तुं शक्नुमः। श्रोतॄणां मनसि सन्तोषः दुःखम् अनुकम्पा आत्मनिर्वृतिः इत्यादि अवस्थाः सङ्गीतैः निर्मीयन्ते।मनोरञ्जनार्थं आरोग्यार्थम् रोगाणां शमनार्थम् च सङ्गीतं उपयुज्यन्ते। प्रपञ्चोत्पत्तिसमयादारभ्य सङ्गीतं वर्तते इत्येव पण्डितानां मतम् तदेव प्रकृतेः सङ्गीतं पशुपक्षिणां कळरवः एतदेव खलु। भारतीयानाम् अस्माकं सङ्गीतं विश्वे अन्यतमम् वर्तते। भारतीयसङ्गीते सर्वं शास्त्रनिबध्दं वर्तते यतः शरीरस्य स्पन्दनानां अनुगुणमेव अत्रत्यः आविष्कार इत्येव वैज्ञानिकमतम् ।यदि मधुरस्वरेण तथा रागताळलययुक्तेन एकः अथवा एका गायति चेत् कस्य वा सन्तोषं न जनयति। आबालवृद्धाः जनाः सङ्गीतानुरागिणः। सामवेदः सङ्गीतस्य वेद इति प्रसिद्धः तर्हि को भेदः सङ्गीतसंस्कृतयोः मध्ये? नैकानि कीर्तनानि संस्कृते एव वर्तन्ते। सनातनधर्मे सङ्गीतसाहित्यकलादीनां प्राधान्यम् इतोऽप्यधिकम् दृश्यते । भगवान् शिवः भगवान् कृष्णः वीणाधारिणी सरस्वती परमभक्त आञ्जनेयः एते सर्वे सङ्गीतकार्ये निपुणा खलु। विविधवाद्यानां वादनेऽपि भारतीयाः अग्रगण्या एव। ईश्वरस्य वरदानं सङ्गीतं अतः वयमपि यावद् शक्यं सङ्गीतं आस्वादयाम।।

________________________________________________________________________________________________________________________________
🌸रविवासरः (19-11-17) प्रतिपदा🌻

✍प्रस्तावविषयः– गुरुदर्शनम्🙏

गुरुः प्रथमपूज्यः गुरुदर्शनेन ईश्वरदर्शनाद् अधिकं पुण्यं प्राप्यते। प्राचीनकाले गुरुकुले उषित्वा एव विद्यार्जनं भवति स्म। तदानीं गुरोः परिचरणं छात्राणां कर्तव्यम् इत्येव भावोऽप्यासीत्। विद्यार्जनं गुरुपरिचरणया तथा तस्यानुग्रहेणेव सम्भवति।
गुरुर्ब्रह्मा ग्रुरुर्विष्णुः गुरुर्देवो महेश्वरः ।

गुरुः साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥
सर्वदेवमयो गुरुः स एव परमकारुण्यमूर्त्तिः यतः तस्य करुणया एव आत्मज्ञानम् ईश्वरावबोधं जीवनलक्ष्यं च मनुष्यैः अवगम्यन्ते। वस्तुतः लोकेऽस्मिन् सर्वे अस्माकं गुरवः। ते सर्वे किमपि कार्यं वा तत्त्वं वा बोधयन्ति अस्मान्। विद्यालये बहवः शिक्षकाः भवन्ति यद्यपि ते सर्वे न पाठयेयुः तथापि छात्राः तान् सर्वानपि समभावनया एव पश्यन्ति।यद्यपि विद्यालयजीवनं समाप्तं

वर्षाणि च अतीतानि तथापि गुरोः दर्शनात् यत्र कुत्रापि भवतु गौरवम् अनुभवामः खलु। समाजे गुरूणां स्थानं सर्वदा उन्नतस्तरे एव भवन्ति।

शङ्कराचार्यविरचिते गुर्वष्टके गुरोः माहात्म्यं विस्तरेण प्रतिपादितं वर्तते।
*कलत्रं धनं पुत्र पौत्रादिसर्वं*
*गृहं बान्धवाः सर्वमेतद्धि जातम्*
*मनश्चेन्न लग्नं गुरोरघ्रिपद्मे*
*ततः किं ततः किं ततः किं ततः किम्।।*
।।श्री गुरुभ्यो नमः।।

________________________________________________________________________________________________________________________________

शुक्रवासरः (17-11-17) 🌸

✍प्रस्तावविषयः– आर्जवम्💐

आर्जवं सर्वकार्येषु आवश्यकम्। आर्जवेन सर्वे कार्यं कर्तुं नैव शक्नुवन्ति सत्यसन्धाः धर्म्मिष्ठाः सज्जना एव तथा प्रभवन्ति। वक्रतां त्यक्त्वा न्यायेन ये कार्यं कुर्वन्ति तेषां कृते भीतिजनकानि किमपि न विद्यन्ते । कर्मक्षेत्रे सत्यसन्धता भवति चेत् भ्रष्टाचारः स्वजनपक्षवादः कुधनार्जनं इत्यादीनि न भवन्ति। आर्जवेन कर्मकराणां स्वाभिमानं तथा कर्मकुशलता च पोषणं कर्तुं शक्यते।यदि नेतारः निर्णयेषु आर्जवं प्रदर्शयन्ति तर्हि कार्यविजयम् अवश्यं भवति। देशस्य विकासाय अत्यन्तापेक्षितमस्ति। किञ्चित् विचारयामश्चेत् अस्माकं देशस्य अपचयस्य कारणं नेतृत्वस्य आर्जवराहित्यमेव इति द्रष्टुं शक्नुमः।कार्ये निश्चय दार्ढ्यं व्यक्तिजीवनेऽपि करणीयम्।।

________________________________________________________________________________________________________________________________

🌸रविवासरः (19-11-17) प्रतिपदा🌻

✍प्रस्तावविषयः– गुरुदर्शनम्🙏

गुरुः प्रथमपूज्यः गुरुदर्शनेन ईश्वरदर्शनाद् अधिकं पुण्यं प्राप्यते। प्राचीनकाले गुरुकुले उषित्वा एव विद्यार्जनं भवति स्म। तदानीं गुरोः परिचरणं छात्राणां कर्तव्यम् इत्येव भावोऽप्यासीत्। विद्यार्जनं गुरुपरिचरणया तथा तस्यानुग्रहेणेव सम्भवति।
गुरुर्ब्रह्मा ग्रुरुर्विष्णुः गुरुर्देवो महेश्वरः ।

गुरुः साक्षात् परं ब्रह्म तस्मै श्री गुरवे नमः ॥
सर्वदेवमयो गुरुः स एव परमकारुण्यमूर्त्तिः यतः तस्य करुणया एव आत्मज्ञानम् ईश्वरावबोधं जीवनलक्ष्यं च मनुष्यैः अवगम्यन्ते। वस्तुतः लोकेऽस्मिन् सर्वे अस्माकं गुरवः। ते सर्वे किमपि कार्यं वा तत्त्वं वा बोधयन्ति अस्मान्। विद्यालये बहवः शिक्षकाः भवन्ति यद्यपि ते सर्वे न पाठयेयुः तथापि छात्राः तान् सर्वानपि समभावनया एव पश्यन्ति।यद्यपि विद्यालयजीवनं समाप्तं

वर्षाणि च अतीतानि तथापि गुरोः दर्शनात् यत्र कुत्रापि भवतु गौरवम् अनुभवामः खलु। समाजे गुरूणां स्थानं सर्वदा उन्नतस्तरे एव भवन्ति।

शङ्कराचार्यविरचिते गुर्वष्टके गुरोः माहात्म्यं विस्तरेण प्रतिपादितं वर्तते।
*कलत्रं धनं पुत्र पौत्रादिसर्वं*
*गृहं बान्धवाः सर्वमेतद्धि जातम्*
*मनश्चेन्न लग्नं गुरोरघ्रिपद्मे*
*ततः किं ततः किं ततः किं ततः किम्।।*
।।श्री गुरुभ्यो नमः।।

________________________________________________________________________________________________________________________________
🌹सोमवासरः (20-11-17) 🌻

✍प्रस्तावविषयः– प्रातिपदिकम् (व्याकरणे)🌸
क्रियापदानां मूलं धातुः तद्वत् नामपदानां मूलं प्रातिपदिकम् इत्युच्यते ।

धातुं, प्रत्‍ययं, प्रत्‍ययान्‍तं च विहाय अन्‍येषां सार्थकशब्‍दानां प्रातिपदिकसंज्ञा भवति ।
“अर्थवदधातुरप्रत्‍यय: प्रातिपदिकम्” इति सूत्रे
अर्थवत् अधातु अप्रत्यय प्रातिपदिकम्

अर्थात् अर्थसहितं किन्तु धातुः नास्ति प्रत्यय अपि नास्ति। राम: इत्यस्य शब्दस्य प्रातिपदिकम् अस्ति राम इति।

पदानां बीजं भवति प्रातिपदिकम्। प्रातिपदिकेन सह सुप् प्रत्ययस्य योजनेन पदं सिध्यति।वाक्येषु पदानामेव प्रयोगः भवति, न तु प्रातिपदिकानाम् । एकः वर्ण अपि अर्थपूर्णः सन् शब्दो भवितुमर्हति यथा ‘ अ ‘ इति विष्णुपर्यायः ।शक्तं पदं इति खलु तत्र प्रातिपदिकस्य तथा प्रत्ययस्य योजनेन शक्तिं प्राप्यते।।

________________________________________________________________________________________________________________________________
🗣मङ्गलवासरः (21-11-17) 🎼

✍प्रस्तावविषयः– वंशी🏵
वंशीविभूषितकरान्नवनीरदाभात्

पीताम्बरादरुणबिम्बफलाधरोष्ठात्।

पूर्णेन्दुसुन्दरमुखादरविन्दनेत्रात्

कृष्णात् परं किमपि तत्त्वमहं न जाने ॥
वंशी इति शब्दश्रवणेन मनसि पूर्णपुण्यावतारस्य भगवतः श्रीकृष्णस्य सुन्दरवपुरेव आगच्छति। यथा परिपिच्छः वटपत्रं पीताम्बरम् नवनीतम् इत्यादीनां वस्तूनां दर्शनेन भक्तैः चेतोहरकृष्णलीलाः स्मर्यन्ते तथैव वेणोः दर्शनादपि सम्भवति।कृष्णस्य वेणुगीते सकलचराचरा अपि स्तब्धाः भवन्ति स्म। कालिन्दी नद्याः प्रवाहवेगोऽपि मन्दः भवतीति श्रूयते। वस्तुतया सत्यं स्यात् मनोहरवेणुगीतश्रवणे कस्य वा हृदयं न रञ्जयति?। जगति ईश्वरनिर्मितानां सर्वेषामपि वस्तूनां प्रयोजनम् अस्तीति जानीमः प्रयोजनहीनं किमपि नास्ति आशयोऽयं वंश्याः उदाहरणत्वेन वक्तुं शक्नुमः ननु । लखुदण्डेन कण्टकेन कीदृशमधुरध्वनेः आविष्कारः क्रियते। सुषिरवाद्योपकरणेषु वेणुरेव अत्याकर्षम् इति तु सत्यम्। भारते हरिप्रसाद् चौरस्य , राजेन्द्रप्रसन्नः टि विश्वनाथः केशव गिण्डे एवं नैके वेणुवादनविशारदाः सन्ति। वेणौ अष्ट वा नव वा अङ्गुलीरन्ध्राणि भवन्ति। रन्ध्रेषु वायोः विविधाः विन्यासद्वारा मनोहरशब्दाः निस्सर्यन्ते।भारतीयानां वाद्यत्रयेषु मुरली अपि एकम्। वीणा वेणुः मृदङ्गं च वाद्यत्रयम् इति प्रसिद्धम्। रन्ध्रान् वेणोरधरसुधया पूरयन् गोपवृन्दै-

र्वृन्दारण्यं स्वपदरमणं प्राविशद् गीतकीर्तिः इति भागवते तादृशः वेणुगोपालः अस्मान् पातु।।
________________________________________________________________________________________________________________________________

🗣बुधवासरः (22-11-17) 🎼

✍प्रस्तावविषयः– कार्यसिद्धिः🏵

कार्याणां फलप्राप्तिः कार्यसिद्धि इत्युच्यते। कथं भवति कार्यसिद्धिः सुचिन्तितकर्मानुष्ठानेन एव।यद्यपि आकस्मिकतया किमपि लभ्यते प्राप्यते इति विचार्यते तथापि आकस्मिकम् इति किमपि नास्तीति वदन्ति तत्त्वचिन्तकाः। कारणेन विन कार्यं न भवति यदा कदापि कारणं किमिति न जानीमः तावदेव। उद्यमेन एव सिद्ध्यन्ति कार्याणि न मनोरथै इत्येव खलु। फलप्राप्तिरेव चिन्तयित्वा कार्याचरणं करोति चेत् दुःखम् अपि भवितुम् अर्हति यतः पूर्वनिश्चयानुगुणं सिद्धिः न स्यात्। अत्रैव गीतोक्तं वाक्यं स्मर्यते कर्मण्येवाधिकारस्ते मा फलेषु कदाचन इति।
कर्मण्येव अधिकारः न ज्ञाननिष्ठायां ते तव। तत्र च कर्म कुर्वतः मा फलेषु अधिकारः अस्तु कर्मफलतृष्णा मा भूत् कदाचन कस्याञ्चिदप्यवस्थायामित्यर्थः। यदा कर्मफले तृष्णा ते स्यात् तदा कर्मफलप्राप्तेः हेतुः स्याः एवं मा कर्मफलहेतुः भूः। यदा हि कर्मफलतृष्णाप्रयुक्तः कर्मणि प्रवर्तते तदा कर्मफलस्यैव जन्मनो हेतुर्भवेत्। यदि कर्मफलं नेष्यते किं कर्मणा दुःखरूपेण इति मा ते तव सङ्गः अस्तु अकर्मणि अकरणे प्रीतिर्मा भूत्।।

यदि कर्मफलप्रयुक्तेन न कर्तव्यं कर्म कथं तर्हि कर्तव्यमिति उच्यते । इति शङ्करभाष्ये।

एवं चेदपि प्रयोजनम् अनुदिश्य मन्दोऽपि न प्रवर्तते। तर्हि कथम् एतयोः समर्थनं भवति। चिन्तयेऽहं यत् कार्यं तु प्रयोजनं युक्तं भवेत् तत्र तस्य प्रलप्राप्तिः सिध्यति वा न वा इति अदौ एव न विचारणीया। अस्यैव आशयं सुभाषितेऽस्मिन् प्रकटयति इति मम विचारः।
प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहिता विरमन्ति मध्याः ।
विघ्नै: पुनः पुनरपि प्रतिहन्यमानाः
प्रारभ्य च उत्तमजनाः न परित्यजन्ति ।।
तर्हि करणीयं तु कार्यं हि तदर्थं क्रियाशीलता भवेत्। क्रियाशक्तिरेव मुख्या। क्रियाशक्तेः साकं इच्छाशक्तिः तथा ज्ञानशक्तिरपि अस्ति चेत् कार्यसिद्धि: निश्चयेन सम्भवति। एतदर्थमेव ननु भगवत्या नामसु

इच्छाशक्ति-ज्ञानशक्ति- क्रियाशक्ति-स्वरूपिणी इत्यपि प्रतिष्ठितम्। सा पराशक्त्याः अनुग्रहेण सदा कार्यसिद्धिः नियतम् अस्तीति विचिन्त्य कार्यनिरताः भवेम।।
क्रियासिद्धि: सत्त्वे भवति महतां नोपकरणे।।

________________________________________________________________________________________________________________________________

🌹गुरुवासरः (23-11-17) 🏵

✍प्रस्तावविषयः– सत्यसाईबाबा

सन्ति भारते नैके तत्त्विकाचारार्या:। अखण्डगुरुपरम्परायां बहवोऽप्यासन्। सत्यसाईबाबा अपि तादृशः दिव्यपुरुष आसीत्।
स्वामिनां पूर्वनाम सत्यनारायणराजु इत्येवासीत्। आन्ध्रप्रदेशस्य पुट्टपर्त्ति नाम स्थले १९२६ तमे वर्षे भूजातः। षिर्डिसायिनां पुनर्जन्म इत्येव विश्वासः।
सर्वेभ्यः स्नेहः।

सर्वेषां कृते सेवनम्।

आलम्बरहितेभ्यः निरन्तरसहाय्यम्।

परपीडावर्जनम्।

इत्येव स्वामिनः सन्देशाः।

देशविदेशेषु बहुप्रसिद्धोऽप्यासीत्। नेैकानि प्रवचनानि अद्भुतसिद्धयः च तैः कृताः।
२०११ तमे वर्षे दिव्यसमाधिं प्राप्तवन्तः।
अधुनापि सायीभक्ता: स्वामिनां मार्गनिर्देशं शिरसावहन्तः सेवारताः सन्ति।
यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम्‌ ॥
इति गीतायाम्। भारतीयानां व्यक्त्याराधनयाः पृष्ठत एतदेव आधार इति मन्ये।

एतादृशानां आत्मीयाचार्याणां भक्ताः बहवः सन्त्यद्यत्वे। ईश्वरस्य अवतार इत्येव तेषां विश्वासः।

यद्यपि नाहं तादृशः भक्तः तथापि सर्वेषाम् गुरूणां आत्मीयाचार्याणां च बहुमानं करोमि। तेषां वचनेषु तथा तेषां सामाजिकसेवनेषु श्रद्धां ददामि। विरोधिन अपि बहवः सन्ति किन्तु कदापि सज्जना: अन्यान् न निन्दन्ति। पौण्ड्रकवासुदेवोऽपि बहवः सन्ति। ते स्वयमेव भगवतवतारोऽस्मि इत्युक्त्वा जनान् वञ्चयन्ति। यत्किमपि भवतु सत्ययुक्ताचार्याः

चिरकालं जनमनसि प्रतिष्ठिताः भवन्ति। तेषां सकाशे एव देशविदेशतः जनाः प्रवहन्ति । ते एव लोककल्याणाय तिष्ठन्ति। भगवान् सत्यसाई तादृशः महापुरुष आसीत्। यस्याः सेवाप्रवर्तनद्वारा अधुनापि बहुत्र पेयजलसौलभ्यं जातम्। निराधारजनाः उत्तमचिकित्सां प्राप्तुं शक्नुवन्ति। विद्याभ्यासे लाभचिन्तां त्यक्त्वा साईभक्ताः विद्यादानं कुर्वन्ति । एतत्सर्वं लोकोपकाराय एव ननु।

वयमपि यत्र यत्र सत्यः धर्मः सेवाभावः सन्ति तत्र तत्र यथाशक्तिः सहयोगं कुर्मः। युक्तियुक्तं विचिन्त्य कर्मानुष्ठानं कुर्याम तेन कदापि वञ्चिता अपि न स्याम।।
________________________________________________________________________________________________________________________________

💊शनिवासरः (25-11-17)👩🏻‍⚕

✍प्रस्तावविषयः– आधुनिकवैद्यपद्धतिः (एलोपथी)👨🏻‍⚕

पाश्चात्य चिकित्सापद्धतिः आधुनिकवैद्यपद्धति इत्युच्यते। १९ तमेशतके यूरोप्-अमेरिका इत्यादि प्रदेशे प्रसिद्धा रीति आसीत्। अलोपथि इत्यपि प्रसिद्धनाम। एतत् तु ग्रीक् पदम्। अद्यत्वे सर्वत्रापि आधुनिकवैद्यालयाः सन्ति। विविधशस्त्रक्रियया रोगनिवारणं कुर्वन्ति आधुनिकवैद्याः। रोगशमनं शीघ्रं भवतीति कारणेन जना अस्यां चिकित्सायाम् आकृष्टाः भवन्ति।सङ्गणकयन्त्राणां सहाय्येन विविधपरिशोधनां कृत्वा नोगनिर्णयं तथा आरोग्यस्थितिञ्च ज्ञातुं शक्नुमः। विविधानि औषधान्यपि अस्यां चिकित्सायां प्रयुज्यन्ते। विविधरासगुणयुक्तवस्तून्येव अत्र औषधत्वेन वर्तन्ते। अस्यां पद्धत्यां प्रकृतिजन्यैः औषधैः नाधिकशुश्रूषाः वर्तन्ते एतेनैव कारणेन पार्श्वफलानि अधिकानि भवन्ति इत्येव चिकित्सादोषः। औषधानां पार्श्वप्रवर्त्तनात् अन्यरोगाः भवितुम् अर्हन्ति। वैद्यरोगीबन्धोऽपि सर्वासां चिकित्सायां प्रमुखस्थाने तिष्ठति। आङ्ग्लवैद्यपठनार्थं वैद्यालयचिकित्सासामग्रीणां सज्जीकरणार्थं च प्रभूतधनम् आवश्यकं एतेन कारणेन वैद्याः तथा वैद्यालयनिर्वाहकाः सर्वत्र वाणिज्यदृष्ट्या हि चिन्तयन्ति। यत्र सेवाभावं त्यक्त्वा जनाः कार्यं कुर्वन्ति तत्र विविधाप्रकारवञ्चना अपि भवतीति जानीमः। शास्त्रविद्यायाः विकासानुगुणम् आङ्ग्लचिकित्सायाम् अपि परिष्कारो दृश्यते। एवं दुणदोष सम्मिश्रा पद्धतिः इति निर्णेतुं शक्नुमः।।

________________________________________________________________________________________________________________________________

🎯रविवासरः (26-11-17) सप्तमी🥇

✍प्रस्तावविषयः– नायकः🏹

नयति प्रापयतीति नायकः। अनुचराणानां कृते समीचीनमार्गनिर्देशान् दत्त्वा तेषां कर्मपथसंयोजनं कुर्वन्ति नायकाः। यद्किमपि क्षेत्रं भवतु तत्र निश्चयेन नायकः वा नायकाः वा भवितुम् अर्हन्ति। राष्ट्रशासनकार्ये राजनैतिकनेतारः सन्ति। क्रीडाक्षेत्रे दलस्य नेतारः भवन्ति। विविधकार्यक्षेत्रेष्वपि मुख्यकार्यनिर्देशकत्वेन भवन्ति भूयो नेतारः। योग्यनेतृत्वेन असम्भवकार्याण्यपि सम्भवन्ति। यदि सम्पूर्णे देशे शासनेषु वरेण्यनेतारः भवन्ति तर्हि राष्ट्रवृद्धिः तीव्रतया सम्भविष्यति।कार्यसफलतासु नेतृत्वस्य प्रभावः सर्वदा भवत्येव। यदि नायकस्य कर्मकुशलता आत्मविश्वासः दृढनिश्चयः च समीचीनाः भवन्ति तर्हि सम्पूर्णदलस्यापि आत्मविश्वास्यापि वर्धनं भविष्यति। इदानीं तन काले अन्यान् उपयुज्य कार्यं यः सम्यक् कारयति सः श्रेष्ठ: सः समर्थ इति भावोप्यस्ति। नायकानाम् अस्मिन्नेव क्षेत्रे खलु अधिकस्पर्धां द्रष्टुं शक्नुमः। सर्वे अहमेव श्रेष्ठ इति सोदाहरणं स्थापयितुं व्यायामं कुर्वन्ति । तादृशजना एव विविधवाणिज्यसंस्थाभिः स्वीक्रियन्ते। नायकानां भवन्ति नैके गुणाः ते च एवं भवन्ति।
नायकः सदा अन्येषां कृते आदर्शो भवेत्।
सः सदा जनान् कर्तव्ये प्रेरयत्।
इतरेषां कृते मार्गदर्शको भवेत्।

नायक आत्मविश्वासयुक्तो भवेत्।
सर्वत्र सूक्ष्मभावेन चिन्तयेत्।
सदा केन्द्रीकृतचिन्तनम् कुर्यात्।
नित्यं सत्यसन्धतां दर्शयेत्।
समस्यानिवारणसमर्थोऽपि भवेत्।
एवं जीवने नायकगुणान् सम्पाद्य वयमपि समाजे वा स्वस्यजीवने एव वा उन्नतस्थानं प्राप्स्यामः।

________________________________________________________________________________________________________________________________

सोमवासरः (27-11-17)

✍प्रस्तावविषयः– वन्यपशवः

वनं जीवनस्य आधारम्। वन्यजीवीनां संरक्षणम् अस्माकं परमकर्तव्यम्। वनरक्षणेन अस्माकं रक्षणं तथा वन्यपशूनां रक्षणं च भवतः। भूतले अधुना अनेकाः पक्षिमृगादयः तथा सस्यलतादयश्च अतिजीवनयुद्धं कुर्वन्तः सन्ति। मानावानां लोभेन ते नितरां पीडां सहन्ते।एवम् अतिजीवनरणाङ्गणे इतः पूर्वमेव बहवो मृताः। इतः परं शिष्टानां संख्या कथं भवतीत्यपि आशङ्का वर्तते। मनुष्याः विशेषबुद्धिजीविन इति खलु तर्हि सा बुद्धि अपरजीवजालस्य नाशने एव प्रदर्शिता वा लोकेऽस्मिन् तेषां नास्ति वा किमपि अवकाशः ?किञ्चित् चिन्तयामश्चेत् अस्माकं मनसि बहुविधप्रश्ना उद्भवन्ति। वन्यपशूनां संरक्षकाः के? वयमेव तेषां संरक्षकाः। तेषां पालनेन प्रकृतेः स्वाभाविकचक्रं अविघ्नं भ्रमति। नोचेत् सन्तुलनं नष्टं भवति।न्यूनातिन्यूनं तुलनात्मकधिया अपि वन्यमृगसंरक्षणं कुर्याम अस्य विस्मरणेन मानवानां जीवनमतिदुष्करं भविष्यति। वन्यनियमानां पालने सर्वदा श्रद्धां दद्याम। ग्रामगमनसमये मम मार्गे बहुदूरं वनप्रदेशं आगच्छति। वनरक्षणविषये लेखनपठनोत्तरं

वृष्टिकाले फलवृक्षाणां बीजानि स्वीकृत्य गमनसमये वने क्षिपामि स्म!। मम गृहसमीपमपि नागदेवानां पूजार्थम् उपवनमेकं परिकल्पितं पूर्वजैः। तत्रैव सन्ति लखु पक्षिमृगादयः सूक्ष्मकीटाः पतङ्गाः तेषां निरीक्षणेन बाल्ये अत्यन्तं तोषमनुभूतवान् ।सनातनधर्माचरणे प्रकृतेः रक्षणम् अन्यजीवजालस्य पोषणं च सर्वत्र दृश्यते। पूर्वजानां विशालचिन्तनम् अनुसरामो वयम्।।

________________________________________________________________________________________________________________________________

मङ्गलवासरः (28-11-17)

✍प्रस्तावविषयः– प्रेतः
😱😱😱😱😱
प्रेत इत्युक्ते नरकस्थप्राणी। मरणविषये चिन्तनं कोऽपि न इच्छति! तथा प्रेतविषयेऽपि। प्रायः “प्रेत” शब्दः आबालवृद्धानां मनसि भयजनकः शब्दः भवति। भूतप्रेतापिशाचानां नामोल्लेखं कृत्वा बालकान् भाययन्ति ज्येष्ठाः। विविधाः कथाः तथा चलनचित्रस्थानि दृश्यानि च प्रेतविषये अधुनापि भयं जनयन्ति !। ममापि अनुभवाः सन्ति विषयेऽस्मिन्। बाल्ये यस्मिन् गृहे उषितवान् तत् गृहं केरलीयनिर्माणरीत्या नालुकेट्ट् इत्युच्यते तत् विशालं गृहम् आसीत्। तदानीम् अस्माकं गृहे जनानां संख्याऽपि अधिका एवासीत्। यद्यपि वैद्युति अस्ति तथापि प्रायः तत्र तत्र बहुअन्धकार एव भवति। प्रेतानां विषयमुक्त्वा तदा सर्वे भयं जनयन्ति। मातुः हस्तं गृहीत्वा एव गृहेऽपि सञ्चरामि स्म। गृहात् दूरस्थं श्मशानस्थाने किमपि वस्तूनि दर्शयित्वाऽपि भयं जनयन्ति अग्रजाः । गच्छता कालेन प्रेतविषये भयं नासीत्। तदानीं वयं दिने किमपि वस्तूनि श्मशाने स्थापयित्वा रात्रौ तानि क आनयति इति पृष्ट्वा क्रीडां कुर्मः स्म!। प्रेतानां आवाहनम् इति कश्चन तन्त्रविधिः वर्तते। प्रेतमोक्षाय तथा दुर्बाधायाः निवारणार्थं तान्त्रिकरीत्या पूजां होमं च कृत्वा आवाहनं कुर्वन्ति। रात्रौ भवति इयं पूजा। यदा कदापि जनानाम् उपरि दुर्बाधां दृश्यते! स्म। आभिचारक्रियार्थं श्मशाने अपि केचन मान्त्रिकैः कार्याणि क्रियन्ते इत्यपि श्रुतवान् । ब्राह्मणस्य प्रेतबाधया गृहस्य समीपस्थ एकः मुहम्मदीयपुरुष अस्माकं गृहम् आगत्य नारायणीयश्लोकान् वदति स्म इति एकवारं मम पितामह्या प्रेक्तम्।

एवं नैके अनुभवाः सन्ति मम। सर्वं पुनः स्मारणं न कर्तुम् अधुनापि न इच्छामि!! । भयात् मुक्तिः मानसिकशक्त्या एव भवति। यत्किमपि भवतु प्रेतानां विषये काचित् निगूढता अस्ति इत्येव अनुभवात् मम अभिप्रायः।
*स्थाने हृषीकेश तव प्रकीर्त्या*
*जगत् प्रहृष्यत्यनुरज्यते च।*
*रक्षांसि भीतानि दिशो द्रवन्ति*

*सर्वे नमस्यन्ति च सिद्धसङ्घाः*
अस्य मन्त्रेण प्रेतमुक्तिर्भवति इति विश्वासः। भयनाशनाय नित्यं पञ्चाक्षरमन्त्रं जपामः।।

________________________________________________________________________________________________________________________________

⛳बुधवासरः (29-11-17) 💐

✍प्रस्तावविषयः– भीष्मः🏹

भीष्मः महाभारतस्थः प्रसिद्धः कथापुुरुषः।कुरुवंशस्य राज्ञः शन्तनोः तथा गङ्गादेव्याः च पुत्रोऽस्ति भीष्मः। गाङ्गेयः

देवव्रतः इत्यपि प्रसिद्धः। भीष्मः पाण्डवानां कौरवाणां च पितामह आसीत्। स्वेच्छया एव मरणं भवतीति वरेण अनुग्रहीतोऽप्यासीत्। नित्यब्रह्मचारी धीरः युध्दवीरः निस्वार्थः सत्यसन्धः स्ववचनेषु अचलः एते सर्वे भीष्मस्य विशेषेणानि।
*भीष्मस्य जननम्*
वसिष्ठशापात् प्रभासः नाम एकः वसुः अग्रिमजने भीष्मस्य रूपेण जन्मं प्राप्नोत् इति कथा। एकदा शन्तनु: गङ्गातटे एकां सुन्दरीं दृष्ट्वा तां विवाहाय प्रेरितवान्। यदि मम कार्येषु कदापि विरोधः न करोषि तर्हि विवाहार्थम् अनुमतिं दास्यामि इत्युक्तवती सा। राजा तद् अङ्गीकृत्य विवाहं कृतवान्। वस्तुतः सा गङ्गादेवी आसीत्। विवाहानन्तरं सा पुत्रान् गङ्गायाम् उपेक्षितवती पूर्ववचनानुसारं राजा शन्तनुः तस्याः नीचप्रवृत्तिं दृष्ट्वाऽपि किमपि अप्रियवचनं नोक्तवान्। एवमेव यदा सा अष्टमपुत्रस्य उपेक्षाय उद्युक्ता जता तदा राजा तां विरोधं कर्तुं सज्जः अभवत् । अस्मिन्नवसरे पुत्रः यदा युवको भविष्यति तदानीं प्रत्यर्पयिष्यामि इत्युक्त्वा पूर्ववचनभङ्गात् सा गङ्गा महाराजं त्यक्त्वा गतवती।कालान्तरे एषः पुत्र एव भीष्म इति प्रसिद्धो जातः। यदा भीष्मः युवक अभवत् तदा गङ्गां राज्ञे दत्तवती।गच्छता काले शन्तनोः आग्रहपूरणार्थं भीष्म उग्रशपथं कृत्वा नित्यब्रह्मचर्यं स्वीकृतवान्।

*कुरुक्षेत्रे भीष्मः*
कुरुक्षेत्रे कौरवाणां पक्षे स्थित्वा भीष्मः घोरं युद्धमकरोत्। युद्धस्य नवमदिने भीष्म अत्यन्तं प्रहरणशक्त्या पाण्डवपक्षे बहुनाशं कृतवान्। भगवतः कृष्णस्य परमभक्तो भीष्मः रणे कृष्णेन मम हानिर्भवतु इति प्रकाङ्क्षति स्म। भीष्म अपारज्ञानी सर्वेषां कृते उपदेशाः तेन प्रदत्ताः। श्रीमद्भागवते भीष्मस्तुतिः गभीरा वर्तते। शरशय्यायां शयन्नपि तत्तोपदेशम् अददात्। युधिष्ठिराय विष्णुसहस्रनामस्तोत्रस्य उपदेशेन निखिललोकाय संसारदुःखनिवारणमार्गं अदर्शयत्। दौर्भाग्यवशात् अधर्मपक्षे स्थित्वा युद्धं कृतवान् इत्यनेन भीष्मः स्वयमेव पीडाम् अनुभवति स्म। पाण्डवाय भीष्मस्योपरि विजयं कथं प्राप्तव्यम् इत्यपि तेनैव सूचितः इत्यनेन तस्य महत्त्वं द्योतते ननु । एतेन अर्जुनगर्वभङ्गः जातः। अन्ते भीष्मः स्वयमेव स्वस्य वचनपालनं कृत्वा युद्धनीतिम् अनुसृत्य भूमौ पतितवान्। तत उत्तरायणकालपर्यन्तं शरशय्यायाम् आत्मानं समर्प्य महद्वचनानि उपदिशन् उपदिशन् पञ्चत्वं प्राप्नोत्।।
________________________________________________________________________________________________________________________________

गुरुवासरः (30-11-17) एकादशी🌻✍प्रस्तावविषयः– गीतासारः🌷

*सर्वोपनिषदो गावो* *दोग्धा गोपालनन्दनः।पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्॥*
पवित्रगीताजयन्तिदिनेऽस्मिन् सर्वेभ्यः गीताशास्त्रसमुपासकेभ्यः हार्दिकशुभाशयाः। भगवद्गीता भारतीयानां तत्त्वशास्त्राणां सारसर्वस्वग्रन्थः। भगवान् स्वयमेव अकथयत् यद्
गीता मे हृदयं पार्थ

गीता मे सारमुत्तमम्।

गीता मे ज्ञानमत्युग्रं

गीता मे ज्ञानमव्ययम्।।

गीता मे चोत्तमं स्थानं गीता मे परमं पदम्।

गीता मे परमं गुह्यं

गीता मे परमो गुरुः।।
आदिशङ्कराचार्यः एवं प्रोवाच ।
भगवद्गीता किञ्चिदधीता गंगा-जल-लव-कणिका-पीता।

सकृदपि येन मुरारिसमर्चा तस्य यमः किं कुरुते चर्चाम् ॥
गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम् ।
नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम्।।

गीता पाठकानां सर्वपापानि नाशयति।

महापापादिपापानि गीताध्यानं करोति चेत् । क्वचित्स्पर्शं न कुर्वन्ति नलिनीदलमम्बुवत् ॥

मलनिर्मोचनं पुंसां जलस्नानं दिने दिने । सकृद्गीताम्भसि स्नानं संसारमलनाशनम् ॥
भगवान् स्वयमेव गीताम् आश्रित्य लोकपालनं करोति।
गीताश्रयेऽहं तिष्ठामि गीता मे चोत्तमं गृहम् । गीताज्ञानमुपाश्रित्य त्रींलोकान्पालयाम्यहम् ॥
ब्रह्माण्डपुराणे एवमस्ति
भारतं सर्वशास्त्रेषु भारते गीतिका वरा ।

विष्णोः सहस्रनामाऽपि ज्ञेयं पाठ्यं च तद्वयम् ॥
गीतासारे एवमपि
अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि । प्रकृतिं पुरुषे स्थाप्य पुरुषं ब्रह्मणि न्यसेत् ॥
कायेन मनसा वाचा सर्वभुतेषु सर्वदा । हिंसाविरामको धर्मो ह्यहिंसा परमं सुखम् ॥
यद्यपि

अगस्त्यगीता, अजगरगीता ,अनुगीता , अवधूतगीता, अष्टावक्रगीता, ईश्वरगीता,उत्तरगीता,उद्धवगीता, ऋषभगीता,कपिलगीता, काश्यपगीता,गणेशगीता,गर्भगीता,गायत्रीगीता ,गुरुगीता,गुहगीता, जायन्तेयगीता,जीवन्मुक्तिगीता,तुलसीगीता,देवीगीता, धर्मव्याधगीता, नहुषगीता ,नारदगीता, पराशरगीता,पाण्डवगीता, पिङ्गलागीता,पुत्रगीता ,

बह्मगीता, ब्राह्मणगीता इत्यादयाः अनेकाः गीताः सन्ति तथापि महाभारतान्तर्गत भगवद्गीता अत्यन्तप्रसिद्धा गीता अस्ति। लोके भगवद्गीताया उपयि यावत् भाष्याणि रचितानि तावत् अन्यकस्यापि गन्थस्योपरि नास्तीति पण्डितानां मतम्। अनेकासु भाषास्वपि अनुवादाः कृताः। तथापि संस्कृतभाषया एव भगवद्गीता सम्यकतया ज्ञातुं शक्यते। व्यक्तेः ज्ञानस्तरानुगुणं गीता अवबुध्यते।वयमपि नित्यं गीतां पठित्वा कृतकृत्याः भवेम।

________________________________________________________________________________________________________________________________

🏵गुरुवासरः (30-11-17) एकादशी🌻

✍प्रस्तावविषयः– गीतासारः🌷

*सर्वोपनिषदो गावो* *दोग्धा गोपालनन्दनः।पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत्॥*
पवित्रगीताजयन्तिदिनेऽस्मिन् सर्वेभ्यः गीताशास्त्रसमुपासकेभ्यः हार्दिकशुभाशयाः। भगवद्गीता भारतीयानां तत्त्वशास्त्राणां सारसर्वस्वग्रन्थः। भगवान् स्वयमेव अकथयत् यद्
गीता मे हृदयं पार्थ

गीता मे सारमुत्तमम्।

गीता मे ज्ञानमत्युग्रं

गीता मे ज्ञानमव्ययम्।।

गीता मे चोत्तमं स्थानं गीता मे परमं पदम्।

गीता मे परमं गुह्यं

गीता मे परमो गुरुः।।
आदिशङ्कराचार्यः एवं प्रोवाच ।
भगवद्गीता किञ्चिदधीता गंगा-जल-लव-कणिका-पीता।

सकृदपि येन मुरारिसमर्चा तस्य यमः किं कुरुते चर्चाम् ॥
गेयं गीतानामसहस्रं ध्येयं श्रीपतिरूपमजस्रम् ।
नेयं सज्जनसङ्गे चित्तं देयं दीनजनाय च वित्तम्।।

गीता पाठकानां सर्वपापानि नाशयति।

महापापादिपापानि गीताध्यानं करोति चेत् । क्वचित्स्पर्शं न कुर्वन्ति नलिनीदलमम्बुवत् ॥

मलनिर्मोचनं पुंसां जलस्नानं दिने दिने । सकृद्गीताम्भसि स्नानं संसारमलनाशनम् ॥
भगवान् स्वयमेव गीताम् आश्रित्य लोकपालनं करोति।
गीताश्रयेऽहं तिष्ठामि गीता मे चोत्तमं गृहम् । गीताज्ञानमुपाश्रित्य त्रींलोकान्पालयाम्यहम् ॥
ब्रह्माण्डपुराणे एवमस्ति
भारतं सर्वशास्त्रेषु भारते गीतिका वरा ।

विष्णोः सहस्रनामाऽपि ज्ञेयं पाठ्यं च तद्वयम् ॥
गीतासारे एवमपि
अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि । प्रकृतिं पुरुषे स्थाप्य पुरुषं ब्रह्मणि न्यसेत् ॥
कायेन मनसा वाचा सर्वभुतेषु सर्वदा । हिंसाविरामको धर्मो ह्यहिंसा परमं सुखम् ॥
यद्यपि

अगस्त्यगीता, अजगरगीता ,अनुगीता , अवधूतगीता, अष्टावक्रगीता, ईश्वरगीता,उत्तरगीता,उद्धवगीता, ऋषभगीता,कपिलगीता, काश्यपगीता,गणेशगीता,गर्भगीता,गायत्रीगीता ,गुरुगीता,गुहगीता, जायन्तेयगीता,जीवन्मुक्तिगीता,तुलसीगीता,देवीगीता, धर्मव्याधगीता, नहुषगीता ,नारदगीता, पराशरगीता,पाण्डवगीता, पिङ्गलागीता,पुत्रगीता ,

बह्मगीता, ब्राह्मणगीता इत्यादयाः अनेकाः गीताः सन्ति तथापि महाभारतान्तर्गत भगवद्गीता अत्यन्तप्रसिद्धा गीता अस्ति। लोके भगवद्गीताया उपयि यावत् भाष्याणि रचितानि तावत् अन्यकस्यापि गन्थस्योपरि नास्तीति पण्डितानां मतम्। अनेकासु भाषास्वपि अनुवादाः कृताः। तथापि संस्कृतभाषया एव भगवद्गीता सम्यकतया ज्ञातुं शक्यते। व्यक्तेः ज्ञानस्तरानुगुणं गीता अवबुध्यते।वयमपि नित्यं गीतां पठित्वा कृतकृत्याः भवेम।।

________________________________________________________________________________________________________________________________

😊शुक्रवासरः (01-12-17) त्रयोदशी ☺

✍प्रस्तावविषयः– अक्रोधः🙃
क्रोधः सर्वेषां सहजभावः तथापि सर्वेनाशाय भवति। क्रोधस्य वशीकरणमेव अक्रोधः। क्रोधः तपोवर्याणां ऋषीणामपि तपोह्रासाय भवतीति जानीमः। तेऽपि सर्वदा अक्रोधेन स्थातुमशक्ता आसन् तर्हि सधारणजनानाम् अस्माकं का स्थितिर्स्यात्। शरीरस्थमेनं रिपुं जेतुं कथं शक्यते?तत्र निस्सङ्कोचं वक्तुं शक्यते यदयम् अपारमनोनिग्रहेण सिद्ध्यत्येव। अक्रोधेन जयेत् क्रुद्धम् इति महाभारते इदं वाक्यं सत्यमेव इति नित्यजीवनानुभवेनापि द्रष्टुं शक्नुमः। यदि क्रोधाकुलस्य कस्यापि पुरतः वयमपि क्रोधं प्रदर्शयामश्चेत् किम्भविष्यति!?एवम् अन्यलाभोऽस्ति यद् अक्रोधेन मनसः भारः न्यूनः भवति अनेन मानसिकसङ्घर्षोऽपि लघुत्वं याति। स्मितमयमुखेन अन्यानपि तोषयितुं शक्ष्यामः।
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥
यस्मात् पुरुषात् लोकः उद्वेगं न गच्छति, यः च पुरुषः लोकात् न उद्वेगं प्राप्नोति, यश्च सन्तोषासूया – त्रासक्षोभैः रहितः सः पुरुषः मम प्रियः ।
इति गीतायां भगवतः वचनम्।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुध इति विष्णुसहस्रनामस्तोत्रे भगवान् स्वयमेव अक्षोभ्यः ननु ।
भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य सप्तत्रिंसशत्तमे श्लोके एवमस्ति।
काम एष क्रोध एष रजोगुणसमुद्भवः।महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥
स्वात्तिकानां कृते क्रोधः परमत्याज्यः नोचेत् तेषु रजोगुणस्य प्रभावो दृश्यते।

काम क्रोध-लोभ-मोह-मद-मत्सराः इति षडरिपवः प्रसिद्धा एव एकैकं रिपुं त्यक्त्वा एव चित्तशुद्धिर्भवति। अक्रोधभावेन मैत्रीं प्रीतिं लोकप्रियं च वशीकुर्मः।।
________________________________________________________________________________________________________________________________

🌷शनिवासरः (02-12-17) चतुर्दशी☀

✍प्रस्तावविषयः– शनिवासरः🌼
शुक्र – भानुवासरयोः मध्ये भवति शनिवासरः। भारतीयानां विश्वासानुगुणं अयं वासरः शनिदेवस्य वासरः। देनेऽस्मिन् शनेः प्रीत्यर्थं पूजाः क्रियन्ते। शनिवारे देवालयदर्शनं वैशिष्ट्यतरम् इत्येव भक्तानां भावना।
*नीलाञ्जनसमाभासं* *रविपुत्रं यमाग्रजम् ।*

*छायामार्ताण्ड सम्भूतं*

*तं नमामि शनैश्चरम् ॥*
सूर्यदेवस्य द्वितीयपत्न्याः छायायाः पुत्रः शनिदेव:। स्वस्य मातुः परिपालने शनिः अतीतः श्रद्धालु आसीत्। ज्योतिषशास्त्रानुसारं शनिदशा अतीव दुर्दशा भवति। तथापि शनिदेवस्य पूजया शनिदोषस्य काठिन्यं लघुत्वं कर्तुं शक्यते।

शनिवासरे शनिदोषनिवारणार्थं जना एवं जपन्ति।

*सूर्यपुत्रो दीर्घदेहो विशालाक्ष: शिवप्रिय:।*

*दीर्घाचारः प्रसन्नात्मा पीडां हरतु मे शनि: ॥*
शनीश्वरस्य शिवस्य आञ्जनेयस्य गणपतेः शास्तुः एतेषां देवानां पूजया शनिदोषशमनं भवति। शनिवासरे व्रतानुष्ठानं कृत्वापि दुरितशमनं कर्तुं शक्यते। प्रायः शनिवारः उद्योगस्थानां प्रियवारः यतः तद्दिने विरामः भवति!। किन्तु बहुषु देशेषु शनिवासरोऽपि प्रवृत्तिदिनम् अस्ति।सर्वेषु अय्यप्पमन्दिरेषु शनिवासरे भक्तजनानां सानिध्यम् अधिकं भवति।।

________________________________________________________________________________________________________________________________

😊शुक्रवासरः (01-12-17) त्रयोदशी ☺

✍प्रस्तावविषयः– अक्रोधः🙃
क्रोधः सर्वेषां सहजभावः तथापि सर्वेनाशाय भवति। क्रोधस्य वशीकरणमेव अक्रोधः। क्रोधः तपोवर्याणां ऋषीणामपि तपोह्रासाय भवतीति जानीमः। तेऽपि सर्वदा अक्रोधेन स्थातुमशक्ता आसन् तर्हि सधारणजनानाम् अस्माकं का स्थितिर्स्यात्। शरीरस्थमेनं रिपुं जेतुं कथं शक्यते?तत्र निस्सङ्कोचं वक्तुं शक्यते यदयम् अपारमनोनिग्रहेण सिद्ध्यत्येव। अक्रोधेन जयेत् क्रुद्धम् इति महाभारते इदं वाक्यं सत्यमेव इति नित्यजीवनानुभवेनापि द्रष्टुं शक्नुमः। यदि क्रोधाकुलस्य कस्यापि पुरतः वयमपि क्रोधं प्रदर्शयामश्चेत् किम्भविष्यति!?एवम् अन्यलाभोऽस्ति यद् अक्रोधेन मनसः भारः न्यूनः भवति अनेन मानसिकसङ्घर्षोऽपि लघुत्वं याति। स्मितमयमुखेन अन्यानपि तोषयितुं शक्ष्यामः।
यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः ।हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥
यस्मात् पुरुषात् लोकः उद्वेगं न गच्छति, यः च पुरुषः लोकात् न उद्वेगं प्राप्नोति, यश्च सन्तोषासूया – त्रासक्षोभैः रहितः सः पुरुषः मम प्रियः ।
इति गीतायां भगवतः वचनम्।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुध इति विष्णुसहस्रनामस्तोत्रे भगवान् स्वयमेव अक्षोभ्यः ननु ।
भगवद्गीतायाः तृतीयोध्यायस्य कर्मयोगस्य सप्तत्रिंसशत्तमे श्लोके एवमस्ति।
काम एष क्रोध एष रजोगुणसमुद्भवः।महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥
स्वात्तिकानां कृते क्रोधः परमत्याज्यः नोचेत् तेषु रजोगुणस्य प्रभावो दृश्यते।

काम क्रोध-लोभ-मोह-मद-मत्सराः इति षडरिपवः प्रसिद्धा एव एकैकं रिपुं त्यक्त्वा एव चित्तशुद्धिर्भवति। अक्रोधभावेन मैत्रीं प्रीतिं लोकप्रियं च वशीकुर्मः।।

________________________________________________________________________________________________________________________________

🌷शनिवासरः (02-12-17) चतुर्दशी☀

✍प्रस्तावविषयः– शनिवासरः🌼
शुक्र – भानुवासरयोः मध्ये भवति शनिवासरः। भारतीयानां विश्वासानुगुणं अयं वासरः शनिदेवस्य वासरः। देनेऽस्मिन् शनेः प्रीत्यर्थं पूजाः क्रियन्ते। शनिवारे देवालयदर्शनं वैशिष्ट्यतरम् इत्येव भक्तानां भावना।
*नीलाञ्जनसमाभासं* *रविपुत्रं यमाग्रजम् ।*

*छायामार्ताण्ड सम्भूतं*

*तं नमामि शनैश्चरम् ॥*
सूर्यदेवस्य द्वितीयपत्न्याः छायायाः पुत्रः शनिदेव:। स्वस्य मातुः परिपालने शनिः अतीतः श्रद्धालु आसीत्। ज्योतिषशास्त्रानुसारं शनिदशा अतीव दुर्दशा भवति। तथापि शनिदेवस्य पूजया शनिदोषस्य काठिन्यं लघुत्वं कर्तुं शक्यते।

शनिवासरे शनिदोषनिवारणार्थं जना एवं जपन्ति।

*सूर्यपुत्रो दीर्घदेहो विशालाक्ष: शिवप्रिय:।*

*दीर्घाचारः प्रसन्नात्मा पीडां हरतु मे शनि: ॥*
शनीश्वरस्य शिवस्य आञ्जनेयस्य गणपतेः शास्तुः एतेषां देवानां पूजया शनिदोषशमनं भवति। शनिवासरे व्रतानुष्ठानं कृत्वापि दुरितशमनं कर्तुं शक्यते। प्रायः शनिवारः उद्योगस्थानां प्रियवारः यतः तद्दिने विरामः भवति!। किन्तु बहुषु देशेषु शनिवासरोऽपि प्रवृत्तिदिनम् अस्ति।सर्वेषु अय्यप्पमन्दिरेषु शनिवासरे भक्तजनानां सानिध्यम् अधिकं भवति।।

________________________________________________________________________________________________________________________________

🙏रविवासरः (03-12-17) पौर्णमी👌✍प्रस्तावविषयः– गुरुदत्तात्रेयः⛳

*जगदुत्पति कर्त्रै च स्थिति संहार हेतवे।*

*भव पाश विमुक्ताय दत्तात्रेय नमो॓‍ऽस्तुते॥*
मार्गशीर्षमासस्य पौर्णिमायां दत्तात्रेयजयन्ती आचर्यते। अत्रि-अनसूययोः पुत्रः दत्तात्रेय इति प्रसिद्धः।

अत्रेः पुत्र अत आत्रेयः इति नामापि अस्ति।

भगवान् दत्तात्रेयः महाविष्णो अंशावतारेति केचन विश्वसन्ति। त्रिमूर्त्तीनाम् अवतारभाव इत्येव प्रायः सर्वेषां मतम्। दत्तात्रेयस्य तथा कार्त्तिकेयस्य मध्ये प्रचलितसंवादोऽवधूतगीता (वेदान्तगीता) इति प्रसिद्धा अस्ति।अस्मिन् ग्रन्थे अष्टाध्यायाः

सन्ति। ईश्वरानुग्रहेण अद्वैतवेदान्तस्य आधारेण च संसारसागरात् मुक्तो भवतीति सूचयति अयं ग्रन्थः।

गुरुचरित्रम् इत्यस्मिन् पुस्तके दत्तात्रेयस्य विषये अधिकं ज्ञातुं शक्नुमः। त्रिमूर्तीनाम् उपासना दत्तात्रेयोपासनाया एव सिद्ध्यति इत्येव कारणेन लोकप्रियोऽस्ति भक्तानाम् आराधनामूर्त्तिश्च।
दत्तात्रेयपूजा इतरपूजा इव समाना एव

प्रतिमां वा चित्रम् वा स्वीकृत्य रक्तवस्त्रे स्थापयित्वा चन्दनं लेपयित्वा पुष्पैः विधीयते । अनन्तरं धूपं दीपं च दत्त्वा, नैवेद्यं समर्प्य आरतिं भवति । एवं षोडषोपाचारपूजां कुर्वन्ति भक्ताः।
*आदौ ब्रह्मा मध्ये विष्णु: अन्ते देव: सदाशिव:।*

*मूर्तिमयस्वरूपाय*

*दत्तात्रेय नमोऽस्तुते॥*
कर्णाटकराज्ये गाणगापुरम्
इत्यस्मिन् स्थाने दत्तात्रेयस्य मन्दिरं विद्यते।

भगवतः आत्मसाक्षात्कारं अत्रैवासीद् इति कथा अस्ति।

गरुड-ब्रह्म -रामायण-महाभारत-सत्त्वतसंहिता इत्यादिषु ग्रन्थेषु दत्तात्रेयविषये सूचितमस्ति दत्तात्रेयोपनिषदपि वर्तते।

किन्तु केषुचित् प्रदेशेषु मन्दिरं वा भगवतः आराधनं वा न दृश्यते। अस्मिन् पुण्यदिने भगवदनुग्रहं सर्वे प्राप्नुयुः।।
________________________________________________________________________________________________________________________________

🎀सोमवासरः (04-12-17) प्रतिपदा🙏

✍प्रस्तावविषयः– कौसल्या🌞

पुरा भारते उत्तरकोसलं दक्षिणकोसलमिति द्वौ देशौ आस्ताम्। दक्षिणकोसलस्य राजकुमारी आसीत् कौसल्या।तस्याः विवाहः कालान्तरे उत्तरकोसलस्य राज्ञा

दशरथेन सह जातः। सुशीला सा कौसल्या दीर्घकालं यावत् दशरथस्य पट्टमहिषी स्थाने अयोध्यायां निवासमकरोत्। अपुत्रः दशरथः नितरां दुःखी आसीत्। यद्यपि पुत्रेच्छया दशरथेन पुनः विवाहौ कृतौ तथापि सन्तानलब्धिर्नासीत्। कालान्तरे पुत्रकामेष्टिं कृत्वा रामभरतलक्ष्मणशत्रुघ्नाः जाताः। कौसल्यातनयः रामः भगवान् विष्णोः अवतारः। लोकप्रियः रामः राज्ञः दशरथस्यापि प्रियतमपुत्रः। रामपट्टाभिषेकसमये कौसल्या अतीवसन्तुष्टा जाता। किन्तु कैकेय्याः वरयाचनेन रामः राज्यभ्रष्टो जातः तदानीं कौसल्या कोपदुःखेन पीडिता जाता। रामस्य राज्यनष्टस्योपरि तस्यवनवासगमनात् सा नितरां खिन्ना जाता।सा रामम् अनुगन्तुं ऐच्छत्।पुत्रवियोगेन दशरथस्योपरि कुपिता जाता किन्तु शीघ्रमेव सा दशरथस्य अवस्थाम् अवगम्य तम् आश्वसितवती। पुत्रवियोगदुःखेन दशरथस्य मरणम् अभवत्। पश्चात् भरतागमनं तथा कैकेय्याः नीचाचरणे भरतः तस्या उपरि अत्यन्तकोपाविष्टो जातः। अन्ते कैकेयी अपि कृते पापे अनुशोचितवती। मातरः सर्वाः सम्भूय भरतेन सह श्रीरामं लक्ष्मणं सीतां च द्रष्टुं चित्रकूटं गतवन्तः। स्ववचनेषु अचञ्चलः रामः चतुर्दशवर्षाणाम् अनन्तरम् अयोध्याम् आगमिष्यामि इति वचनं दत्त्वा भरतम् अनुगृह्य सर्वान् प्रतिप्रेषितवान्। तुल्यदुःखिताः

मातरः पुत्राणां हिताय पूजादिषु मग्नाः भूत्वा अयोध्यायां कालयापनं कृतवत्यः।चतुर्दशवर्षानन्तरं श्रीरामपट्टाभिषेकेण सन्तापमुक्तिं प्राप्तवत्यः।।
________________________________________________________________________________________________________________________________

⚒मङ्गलवासरः (05-12-17) द्वितीया🎀

✍प्रस्तावविषयः– लोहकारः⛏

सर्वं खल्विदं लोहमयम्। प्राचीनकालादेव मानवजीवने विविधलोहानां प्रभावो दृश्यते।अधुना लोहानाम् अभावे लोकस्य अवस्था कीदृशी स्यात् इति चिन्तनमपि कष्टकरम्। अद्य दृश्यमानसकलसौलभ्यानि लोहसंबद्घानि किल यन्त्राणि वाहनानि गृहोपकरणानि चिकित्सावस्तूनि आभरणानि किं नास्ति!। विविधलोहानां संस्करणेषु निपुणाः लोहकाराः। लोहानां स्वभावः मानवानां स्वभावसदृशः एकः लोह अपर इव कदापि न भवति। यथा मानवाः तथा लोहा: मृदुस्वभावोऽपि न दर्शयन्ति। परिवर्तनं ते न इच्छन्ति। तत्रैव लोहकाराणां वैज्ञानिकवैभवस्य प्रभावो द्रष्टुं शक्नुमः। परिवर्तनविरोधीनां लोहानां परिवर्तनं कृत्वा नूतनं नूतनं रूपं प्रदास्यन्ति ते। लोहा अपि नूतनभावेषु समचित्तत्वम् प्राप्य पुनः एतदेव मम स्वरूपम् इत्युक्त्वा सामोदं तिष्ठन्ति। ऐक्यं सर्वत्र सुरूपं बलं गुणं च ददाति लोहसङ्करेष्वपि तथैव विविधलोहानां शास्त्रीयानुसृतयोजनेन लोहकाराः नवीनं लोहं रचयन्ति। एतेन गुणरूपबलाधिक्येन वस्तूनाम् प्रयोजनमपि वर्धन्ते ।प्रयोजनरहितानां पुरातनलोहवस्तूनाम् आधिक्येन यदि अस्माकं कष्टं भवति तत्रापि रक्षकाः एते लोहकारा एव। उपयोगरहितस्य कांस्यप्रात्रस्य ललाटलिखितम् परिवर्तनं कृत्वा मन्दिरस्य मूर्तिरपि कर्तुं शक्नुवन्ति लोहकाराः। लोहाः ऐश्वर्यस्य प्रतीकाः। तर्हि नित्यं जपामः

हिरण्यं च मे ऽयश्च मे सीसं च मे त्रपुश्च मे श्यामं च मे लोहं च मे।

________________________________________________________________________________________________________________________________

🏹बुधवासरः (06-12-17) तृतीया🏵

✍प्रस्तावविषयः– अयोध्यायां राममन्दिरम्⛳

सर्वे राष्‍ट्रपुरोगतिम् इच्छन्ति तस्मिन् विषये निरन्तरं वदन्ति च। कथं भवति देशस्य सर्वतोमुखविकासः। विकास इत्युक्ते न तु केवलं मार्गाणां वा समुच्चयानां वा भौतिकविकासः । प्रथमं राष्‍ट्रे विद्यमानानां पौराणां मानसिकविकासो भवेयुः। यस्मिन् राष्‍ट्रे राष्‍ट्राभिमानिनः जनाः वसन्ति तत्रैव सम्पूर्णविकासोऽपि भवति। देशवासीनां मनस्सु देशस्योपरि तथा देशस्य परम्पराया उपरि गर्वभाव: स्यात्। अस्माकं देशस्य चरितं ते सम्यक् जानीयुः। पूर्वजानां विषये तेषाम् आदरभावो भवेयुः तदनन्तरम् एव भवति देशविकासः। भारतस्यापेक्षया केवलम् एकशतकस्य वा शतकद्वयस्य वा चरित्रयुक्तविकसितराष्ट्रा अधुना लोके सन्ति। यदि वयं तत्रत्यान् जनान् पश्यामश्चेत् ते सर्वे तेषां देशस्य चरिते अभिमानिनः सन्तीति ज्ञातुं शक्नुमः। अस्माकं देशोऽयं पञ्चसहस्रवर्षाणां वा तदोप्यधिकवर्षाणां वा चरित्रेण सम्पन्नः देश इति सप्रमाणं वक्तुं शक्यते। रामायणमहाभारतादि ग्रन्था अस्मिन् देशस्य चरितम् उच्चैस्तरम् घोषयन्ति तथापि देशवासीषु तेषां प्रभावः न दृश्यन्ते । भिन्नभिन्न मतानुयायिनः ते अस्मिन् देशे उषित्वाऽपि तेषां चिन्तनम् अत्यन्तं विकलमस्तीति दुःखास्पदः विषयः ननु। सर्वमतसमभावनया तेषामपि पूर्वजानां स्वगतमकरोद् अयं देशः न्यूनातिन्यूनं तस्य कृतज्ञतां प्रकटयेयुरिति कोऽपि चिन्तयति चेत् को दोषः तत्र। मन्दशेमुषीनां राजनैतिकजनानां स्वार्थलाभचिन्तने एतेषामपि स्मृतिर्नष्टा वा। भारते रामः पूज्यः नास्ति चेत् अन्यः कः पूज्यः?। एतत्तु केवलमेकं मन्दिरस्य विषयोऽपि नास्ति। मर्यादापुरुषोत्तमस्य रामस्य जन्मस्थानम् अतिक्रम्य तत्रैव वैदेशिकानां मतचिह्नानि स्थापयित्वा अस्य देशस्य स्वाभिमानं नष्टं कृतम् पूर्वम्। तथा अधिनिवेशकाले एवं प्रकारेण सर्वत्र विविधरीत्या देशीय पैतृकस्थानानाम्

नाशं कृत्वा जनानां आत्माभिमानस्योपरि दण्डप्रहारं कृतवन्त आङ्ग्लजनाः। तेषां कुमतीनां चिन्तनम् अस्माकमुपरि तेषां अधीनतायाः प्रदर्शनार्थम् एवासीत् तर्हि स्वतन्त्रताया अनन्तरमपि तथैव भवामश्चेत् का गतिः। यद्यपि पूर्वजैः अहिंसायाः महत्त्वं बोधितं तथापि क्लीबभावेन मा जीवतु इत्यपि अस्मान् पाठितं खलु। अस्माकं देशस्य महिमायां जनाः नतमस्तकाः भवेयुः। संस्कृतस्य प्रसारद्वारैव एतत्‌ सर्वं सम्भवतीति वयं संस्कृताभिमानिनः जानीमः। अस्मिन् विषये जनजागरणम् अस्माकं परं कर्तव्यम्। न तु केवलम् अयोध्यायाम् अपितु देशे सर्वत्र भवन्तु राममन्दिराणि रामभक्ताश्च।।

________________________________________________________________________________________________________________________________

🙏गुरुवासरः (07-12-17) चतुर्थी🌺

✍प्रस्तावविषयः– तण्डुलः 💥

अन्नम् इति श्रवणमात्रेण पक्वतण्डुलस्य स्मरणैव स्मृतौ आगच्छति। केदारात् गुच्छरूपेण

घाससहितानि

धान्यानि स्वीकृत्य सूर्यातपे स्थापयित्वा

तेभ्यः सस्येभ्यः धान्यानि निष्कास्य तण्डुलाः निर्मीयन्ते कृषकैः। तण्डुलनिर्माणे अधुना विविधयन्त्राणाम् उपयोगाः च क्रियन्ते । पूर्वम् तथा नासीद् उलूखले धान्यानि संस्थाप्य मुसलेन वारं वारं कुट्टयित्वा एव तण्डुलाः उद्धृताः भवन्ति स्म। अनन्तरं तेभ्यः धूलिं निवार्य शुद्धीकृत्य शुद्धतण्डुलान् स्वीकुर्वन्ति जनाः । लोके ७०% जनाः तण्डुलं खादन्ति। भारते विशिष्य दक्षिणभारते आहारार्थं तण्डुलमेव मुख्यधान्यम्। दक्षिणभारतीयानां कृते तण्डुलान्नस्य स्थाने यद्किमपि दद्मश्चेदपि भोजने तेषां तृप्तिर्नभवति इतितु सत्यमेव ।

पूजार्थम् व्रीहि अक्षतान् लाजः पृथुकः तण्डुलचूर्णं च अवश्यवस्तूनि खलु ।

पूजायां नैवेद्यान्नपायसापूपादि रूपेण तथा हवनेषु हविरूपेण च तण्डुलस्य उपयोगः क्रियते। पायसान्नप्रिया गुडान्नप्रीतमानसा दध्यन्नासक्तहृदया इत्यादीनि

देव्या: नामानि ललितानामसहस्रके सन्ति। प्रायः देवीदेवाः पायसैः प्रीताः भवन्ति विष्णुः कृष्णः च क्षीर पायसप्रियौ स्तः तद्वत् देवी गुडपायससमर्पणेन प्रीता भविष्यति । एवं शबरिगिरिनाथोऽय्यप्प अरवण इत्यस्य विशिष्टगुडपायसेन सम्प्रीतो भवतीति विश्वासः। एवं भवन्ति देवानां कृते! अपिच मनुष्याः तण्डुलैः विविधाः खाद्यपदार्थाः निर्मीयन्ते। अल्पाहाररूपेण दोशा, इड्लि पुटटु अप्पम् मोदकम् अक्किरोट्टि 😋 एतत्‌ सर्वमपि तण्डुलनिर्मितखाद्यानि। गृहे तण्डुलस्य सञ्जयम् ऐश्वर्यसूचकम् इत्येव अस्माकं भावना। शरीरस्य पुष्टि अन्नादेव सम्भवति।

अन्नाद्भवन्ति भूतानि इति गीतायाम्।
अन्नपूर्णे सदापूर्णे शङ्करप्राणवल्लभे ।

ज्ञानवैराग्यसिद्धयर्थं भिक्षां देहि च पार्वति ॥
अन्नपूर्णेश्वर्या अनुग्रहेण अन्नसौभाग्यं सिध्यति इति अस्माकं चिन्तनम्।
वेदेषु बहुत्र अन्नस्य माहात्म्यं प्रतिपादितम् इत्यपि जानीमः।
अन्नाद्वै प्रजाः प्रजायन्ते।

अन्नं हि भूतानां ज्येष्ठम्‌। तस्मात्‌ सर्वौषधमुच्यते।सर्वं वै तेऽन्नमाप्नुवन्ति।

अन्नाद्‌ भूतानि जायन्ते। जातान्यन्नेन वर्धन्ते। इति तैत्तिरीयोपनिषदि
व्री॒हय॑श्च मे॒ यवा॓श्च मे॒ माषा॓श्च मे॒ तिला॓श्च मे मु॒द्गाश्च॑ मे ख॒ल्वा॓श्च मे गो॒धूमा॓श्च मे । इति नमके

एवं प्रकारेण वेदमन्त्रेषु बहुधा वर्णितम् वर्तते।
इदं शरीरं चान्नमयं। अन्नदानं परं दानं इति आप्तवाक्यम्। अन्नस्वीकरणसमये कृषकान् अपि स्मरेम।

एवं सर्वं मनसि निधाय ब्रह्मार्पणधिया अन्नं स्वीकुर्मः तथा अन्नदानार्थं प्रयत्नं च करिष्यामो वयम्।।

ॐ सह नाववतु ।

सह नौ भुनक्तु ।

सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु मा विद्विषावहै ।
ॐ शान्तिः शान्तिः शान्तिः ॥
________________________________________________________________________________________________________________________________

✅शुक्रवासरः (08-12-17) षष्ठी🙏
✍प्रस्तावविषयः– विदुरः🌺

नामानुगुणं माहाज्ञानी आसीत् विदुरः।महाभारते धृतराष्ट्रस्य अनुज आसीत् कौरवाणां मन्त्री चासीत् परमभागवतः विदुरः।
अम्बिकादास्यां व्यासस्य पुत्रः विदुरः व्यासप्रसादात् सः महापण्डितः तत्त्वज्ञानी च जातः इत्येव कथा। महाभारते राज्यभरणे विदुरस्य उपदेशानां सहाय्येन एव धृतराष्ट्रः भरणमकरोत्। महाभारतसंग्रामात् पूर्वं राजा धृतराष्टः पण्डवानां सम्मुखे सधिभाषणाय सञ्जयं प्रेषितवान्। तं प्रतीक्षमाणः धृतराष्ट अतीवास्वस्थो जातः।
तस्मिन्नवसरे धृतराष्टः विदुरं कलुषित मनशान्त्यर्थम्
प्रार्थितवान् तदानीं विदुरेण प्रदत्ताः उपदेशाः कालन्तरे विदुरनीतिः इति विख्याता जाता।विदुरः धर्मदेवस्य अंशः।

विदुरनीतिः सर्वे मानवानां कृते मार्गदर्शनं करोति।

क्षमा गुणो ह्यशक्तानां शक्तानां भूषणं तथा।

क्षमा वशीकृतिर्लोके क्षमया किं न साध्यते।।

धर्माधर्मविषये तथा पण्डितपामरविषयेऽपि निरूपिताः वर्तन्ते। कुरुक्षेत्रयुद्धानन्तरं वनवासं कृत्वा स्वस्य जीवचैतन्यं युधिष्ठिरे सन्नियम्य विदुरः शरीरत्यागमकरोत्।।
________________________________________________________________________________________________________________________________

🌻शनिवासरः (09-12-17) 🌸
✍प्रस्तावविषयः– सान्त्वनम्😊

स्वान्त्वनं नाम कष्टावस्थायाम् इतरेभ्य आश्वासप्रदानम्।
इतरमृगाणाम् अपेक्षया मावनैः विशिष्टभावा: प्रकटीक्रियन्ते स्वान्त्वनं तेषु भावेषु विशिष्टतमो भावः । अन्यान् स्वान्त्वयितुं सर्वैः न शक्यन्ते। यस्य मनसि आर्द्रता दया करुणा स्नेहः इत्यादि सद्गुणाः वर्तन्ते स एव अन्येभ्यः स्वान्त्वनं दातुं शक्नोति।

यः स्वान्त्वनं प्राप्नोति तस्य मानसिकावस्थायाः उन्नतिर्भवति। आश्वासवचनै आत्मविश्वासः वर्धते। एतदर्थमेव ननु रोगीनां पुरतः स्वान्त्वनं प्रकटयन्ति बान्धवाः। यदि मानसिकशक्तिं प्राप्नोति तर्हि रोगी शीघ्रमेव निरामयो भविष्यति।
नामजपयज्ञेनापि स्वान्त्वनं शान्तिं च दातुं शक्नुमः। अध्यात्मिकदृष्ट्या उचितावसरे जीवनस्य अस्थिरताः चञ्चलत्त्वं द्वन्द्वभावान् च उक्त्वाऽपि अन्येषां कृते आश्वासं प्रदातुं शक्नुमः। यदि कमपि आश्वासयामश्चेत् हृदयपूर्वकवचनान्येव दद्युः न कदापि मिथ्याचारं कुर्युः।

लोके बहवो जनाः निरालम्बा: सन्ति ते बहुधा कष्टं सहन्ते तादृशेभ्यः अस्माकं सेवाभावेन स्वान्त्वनस्पर्शं कुर्मः। अयं भावः न तु केवलं मानवानां प्रति अपितु निखिलजीवजालस्योपरि भवेत्।।

________________________________________________________________________________________________________________________________

☺रविवासरः (10-12-17) सप्तमी👌
✍प्रस्तावविषयः– शुद्धोच्चारणम्🗣

उच्चारणं सर्वासु भाषासु मुख्यमेव तथापि अन्यभाषाणाम् अपेक्षया संस्कृते उच्चारणम् इतोऽपि गौरवतरम् अस्ति।
संस्कृते उच्चारणस्थानानि सम्यक् निर्णीतानि वर्तन्ते । शिक्षाशास्त्रे वर्णानां प्रयोगः कथं करणीय इति सम्यक् सूचितमस्ति। शास्त्रीयरीत्या उच्चारणविषये समीचीनव्यवस्था कल्पिता इत्यनेन अन्यभाषाया अपेक्षया प्रादेशिकप्रभावानुगुणम् संस्कृते उच्चारणे भिन्नता न सम्भवति।

मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह।

स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात्॥

वेदेषु शुद्धोच्चारणं सर्वप्रथमं वर्तते। मन्त्राणां असमीचीनोच्चारणं सर्वदा अनर्थाय भवतीति जानीमः।

पाणिनीयशिक्षा शिक्षाग्रन्थेषु प्रमुख एको ग्रन्थः।

उच्चारणस्थानानि कुत्र कुत्र भवतीति सूत्रेषु वर्णितानि।

कण्ठः – अकुहविसर्जनीयानां कण्ठः – (अ‚ क्‚ ख्‚ ग्‚ घ्‚ ड्。‚ ह्‚ : = विसर्गः )

तालुः – इचुयशानां तालुः – (इ‚ च्‚ छ्‚ ज्‚ झ्‚ ञ्‚ य्‚ श् )
मूर्धा – ऋटुरषाणां मूर्धा – (ऋ‚ ट्‚ ठ्‚ ड्‚ ढ्‚ ण्‚ र्‚ ष्)
दन्तः – लृतुलसानां दन्तः – (लृ‚ त्‚ थ्‚ द्‚ ध्‚ न्‚ ल्‚ स्)
ओष्ठः – उपूपध्मानीयानां ओष्ठौ – (उ‚ प्‚ फ्‚ ब्‚ भ्‚ म्‚ उपध्मानीय प्‚ फ्)
नासिका च – ञमड。णनानां नासिका च (ञ्‚ म्‚ ड्。‚ण्‚ न्)
कण्ठतालुः – एदैतोः कण्ठतालुः – (ए‚ एे)
कण्ठोष्ठम् – ओदौतोः कण्ठोष्ठम् – (ओ‚ औ)
दन्तोष्ठम् – वकारस्य दन्तोष्ठम् (व)
जिह्वामूलम् – जिह्वामूलीयस्य जिह्वामूलम् (जिह्वामूलीय क्‚ ख्)
नासिका – नासिकानुस्वारस्य (ं = अनुस्वारः)

यः कोऽपि एतत्‌ सर्वं ज्ञात्वा सम्भाषणं करोति चेत् तस्य उच्चारणे दोषः प्रायः न भवति। किन्तु विद्यालयेष्वपि उच्चारणस्थानानां पाठनं शास्त्रीय रीत्या नास्ति इति कारणेन बहूनां सम्भाषणे उच्चारणवैकल्यं दृश्यन्ते।
एक: शब्द: सम्यग् ज्ञात: शास्त्रान्वित: सुप्रयुक्त: स्वर्गे लोके च कामधुक्
भवति इत्येव अस्माकं पूर्वजानां कल्पना। यद्यपि उच्चारणे मातृभाषयाः प्रभावः भवति तथापि निरन्तरपरिष्कारेण दोषरहितभाषणं कर्तुं सर्वे शक्नुवन्ति।।

________________________________________________________________________________________________________________________________

💥सोमवासरः (11-12-17) अष्टमी🌼
✍प्रस्तावविषयः– आपत्😱

आपदि किं करणीयम्?

स्मरणीयं चरणयुगलमम्बायाः।

तत्स्मरणं किं कुरुते।

ब्रह्मादीनपि च किङ्करी कुरुते।

आपदि भगवान् एव सर्वेषां शरणम् ।
पूर्वकृतपुण्यानि नियतम् आपत् काले अस्मान् रक्षन्ति।

वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा सुप्‍तं प्रमत्तं विषमस्थितं वा रक्षन्ति पुण्यानि पुराकृतानि।

इति नीतिशतके। शिशवः बहुवारं पतन्ति तथापि प्रायः तेषां अत्यन्तहानिर्न भवति भगवान् एव तेषां रक्षणं करोतीति विश्वासः यतः तेषां निर्मलत्वात् भगवदनुग्रहः सदा तेषु भवति।

न हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति इति गीतायाम्। एवं प्रकारेण
सर्वत्र सूच्यन्ते तथापि दुर्घटनाः सर्वत्र दृश्यन्ते ताभिः निर्दोषिणः म्रियन्ते खलु तत्र तेषां पूर्वजन्मार्जित कर्मफलानुगुणदुर्गतिम् आगच्छति इति कथयन्ति बुधाः । विषयेऽस्मिन् सर्वं स्पष्टतया नावगन्तुं शक्नुमः। किञ्चित् श्रध्दया जीवामश्चेत् अनेकानि दुरन्तानि निवारयितुं शक्यन्ते इतितु सत्यमेव। अर्थात् अश्रद्धया बहुधा हानिर्भवति। करणीयं कार्यमपि तदेव सर्वदा अस्माकं सुरक्षां मनसि निधाय एव कार्याणि करणीयानि। वाहनचालने, भोजने व्यवहारे सर्वत्र श्रध्दा आवश्यकी। नियमानां पालनेन किञ्चिदपायं तरणं कर्तुं शक्यते एव।
धनविषयेऽपि नितरां श्रद्धां दद्याम नोचेत् शरीराघातादपि अधिकसमस्याः जायन्ते कदाचित् ।

आपदर्थे धनं रक्षेत् दारान् रक्षेत् धनैरपि ।
आत्मानं सततं रक्षेत् दारैरपि धनैरपि।।

एवं बान्धवानां तथा मित्राणां च परीक्षा: अपत्काले एव सम्भवन्ति। एतेषां वास्तविकतां ज्ञातुम् एतदेकोऽवसरः।

जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे ।
मित्रञ्चापदि काले च भार्य्याञ्च विभवक्षये ॥

एवं सततं बुद्धिं युक्तिं च प्रयुज्य उत्तमकार्याणि कृत्वा ईश्वरानुग्रहेण आपत् कालोऽपि अनुकूलको भविष्यति इति विश्वस्य जीवाम।।

________________________________________________________________________________________________________________________________

🌸मङ्गलवासरः (12-12-17) दशमी😊

✍प्रस्तावविषयः– अर्चकः🙏
*अर्चकस्य प्रभावेण शिला भवति शङ्करः*
यः स्वस्य मन्त्रतन्त्रतपोनिष्ठादि शक्त्या शिलायामपि ईशरचैतन्यस्य सन्निवेशनं वा परिपोषणं कर्तुं शक्नोति स एव अर्चकः।
मन्दिरेषु अर्चकाः तत्रत्यानां देवीदेवानां शास्त्रोक्तरीत्या पूजां कृत्वा देवचैतन्यस्य वर्धनं कुर्वन्ति। यस्य सकाशे अस्ति स एव दातुं शक्यते ननु अत अर्चकैः तपः करणीयः तेन तेषां मन्त्रशक्तिर्भवति सा एव शक्तिः तन्त्रशास्त्रानुसारं विग्रहे सन्निवेश्य पूजानुष्ठानं कर्तुं शक्यन्ते।
*शिवो भूत्वा शिवं यजेत्*
पूजायाः पूर्वं अर्चकः स्वयमेव मन्त्रमूर्त्तिर्भवेद् एतदर्थं शरीरशुद्धिः मनश्शुद्धिः मन्त्रशुद्धिः क्रियाशुद्धिश्च अर्चकैः सम्पादनीयाः। एतेषु किञ्चिदपि लोपदोषाः न स्युः नोचेत् तेभ्य: लोपेभ्य अनर्थाः भविष्यन्तीति विश्वासः।
पुरातनकाले अस्माकं देशे नैके तन्त्रशास्त्रग्रन्थाः प्रचारे आसन् तेषु

तन्त्रागमः, स्वतन्त्रतन्त्रम्, कल्पसूत्रम्, भैरवयामलम्

रुद्रयामलम्,

शारदातिलकम्, मन्त्रार्णवम्, मन्त्रमहोदधि एते तेषु प्रमुखतन्त्रशास्त्रग्रथा इति परिगण्यन्ते।

केरले अधुनाऽपि विशेषरूपेण तन्त्रशास्त्रस्य प्रचारः प्रभावश्च दृश्यन्ते तन्त्रसमुच्चयः शेषसमुच्चयेति विशिष्टग्रन्थौ तत्र आधाररूपेत वर्तेते।

ग्रन्थेयोः भूपरीक्षा मन्दिरस्थाननिर्णयं मन्दिरनिर्माणं देवप्रतिष्ठा विविधपूजाः हवनानि प्रायश्चित्तविषयाश्च सविस्तरं प्रतिपादितम् अस्ति।

आगमशास्त्रविषये एवमस्ति ।
*आगतं पञ्चवक्त्रात्तु गतञ्च गिरिजामुखे मतञ्च वासुदेवस्य तस्मादागममुच्यते।सृष्टिश्च प्रलयश्चैव देवतानां तथार्चनं साधनञ्चैव सर्वेषां पुरश्चरणमेव च*

*षट् कर्म्मसाधनश्चैव ध्यानयोगश्चतुर्विधः सप्तभिर्लक्षणैर्युक्तञ्चागमं तं विदुर्बुधाः।।*
इति आगमलक्षणम्।
वस्तुतः सर्वे अर्चकाः तन्त्रज्ञाः भवेयुः न तु केवलं मन्त्रजापकाः।

तन्त्रशास्त्रानुसारं तन्त्रज्ञ इत्युक्ते।
सर्वेऽर्थाः येन तन्यन्ते त्रायन्ते च भयाज्जनाः।

इति तन्त्रस्य तन्त्रत्वं तन्त्रज्ञाः परिचक्षते।।
अर्चक अन्यं दृष्ट्वा तमेव अनुकरणं कृत्वा जनानां पुरतः पूजां न प्रदर्शयेत् मनसि शिवसङ्कलनं कृत्वा मन्त्रोपासनायाः शुद्धतया गुरुमुखेन यत् प्राप्तं तदनुगुणं क्रियानुष्ठानां कुर्यात् तेनैव जनानां कल्याणं भवतीति ज्ञातव्यम्।
*शिवे रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन*
अतः पूजायामपि गुरुवचनेषु नित्यश्रद्धा आवश्यकी।

लोकेऽस्मिन् कोऽपि परिपूर्णः नास्ति अतः पूजाकार्येष्वपि यदाकदापि दोषो भवितुमर्हति तस्मिन्नवसरे अर्चकै उचितप्रायश्चित्तक्रियाः करणीयाः।
न गायत्र्याः परं मन्त्रः न गायत्र्याः परं जप्यम्। अर्चकः सर्वदा गायत्री जपे निष्ठां कुर्यात् । गुरुमुखाद् उचिते समये मन्त्रोदीक्षां सम्पादयेत्। गुरुः शिष्यस्य पूर्वजन्मवासनानुगुणं सिद्धः साद्ध्यः सुसिद्धः अरि इत्यादयाः ज्ञात्वा तदनुगुणं मन्त्राणाम् उपदेशं करिष्यति। मन्त्रशास्त्रानुसारं सप्तकोटिमन्त्राः सन्ति तर्हि मूर्त्तय अनेकाः भवन्ति अनेन कारणेन अर्चकानां कृते ज्ञानसम्पादनस्य विरामो न भवेत्।।
________________________________________________________________________________________________________________________________

बुधवासरः (13-12-17) एकादशी

प्रस्तावविषयः–

गृहस्थधर्मः

सनातनधर्मानुसारं मानवजीवने चत्वार आश्रमाः सन्ति ब्रह्मचर्यं गार्हस्थ्यं वानप्रस्थं सन्यासम् इति।

पाणिग्रहणसंस्कारोत्तरं गृहस्थः गृहस्थधर्मान् अनुसरति । गृहे तिष्ठति जीवतीति गृहस्थः ।

महाभारते गृहस्थस्य कर्तव्यानि एवं वर्णितानि-

धर्मागतं प्राप्य धनं यजेत् दद्यात् सदैवातिथीन् भोजयेच्च ।

अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषद् पुराणी ॥

चतुर्षु आश्रमेषु गृहस्थाश्रम: श्रेष्ठ इति पण्डितानां मतम् यतः समाजस्य विकासं तथा

उद्धारणम् अस्मिन्नेव आश्रमे भवति।

गृहस्थाः सदा कठिनपरिश्रमेण कुटुम्बं पोषयन्ति। इदानीं बहवः वदन्ति धनचिन्तनं मास्तु धनेन किम् इत्यादि किन्तु अस्माकं शास्त्राणि वदन्ति गृहस्थाः धार्मिकमार्गेण धनार्जनं कुर्युः।

*भूत्यै न प्रमदितव्यम्*

धनात् धर्मः ततः सुखम् इत्येव किल। गृहस्थानां जीवनं पञ्चमहायज्ञेषु अतिष्ठितं वर्तते। अतः गृहस्थः नित्यं पञ्चमहायज्ञानुष्ठानं करणीयम्।

ब्रह्मयज्ञः

देवयज्ञः

पितृयज्ञः

मनुष्ययज्ञः

भूतयज्ञः

एते पञ्चयज्ञाः।

सत्यधर्मस्वाध्यायेषु गृहस्थाः नियतनिष्ठां कुर्युः। आश्रमेस्मिन् बहुविधसुखानि भोक्तुम् अनुमतिरस्ति तथापि धार्ममार्गे एव चलितुम् अर्हति। एवम् गृहस्थाश्रमान्ते गृहभरणात् किञ्चित् विरामं स्वीकृत्य वानप्रस्थाश्रमप्रवेशार्थं सज्जो भवेत्।।
________________________________________________________________________________________________________________________________

शुक्रवासरः (15-12-17) त्रयोदशी

प्रस्तावविषयः– ताटका

रामयणे बालकाण्डे ताटका इति निशाचरण्या: कथा प्रतिपादिता अस्ति। एकदा सुकेतु इति यक्षः सन्तानेच्छया कमलजं ध्यात्वा तपश्चकार कालान्तरे ब्रह्मानुग्रहेण तस्य कृते एका पुत्री जाता सा एव ताटका इति कथा। सा अतीवबलवती आसीत्।वरप्रसादेन सहस्रगजशक्तिं मायाविद्यां च सम्पाद्य सा साधुजनानां द्रोहे मग्ना जाता। ताटकापतिः झर्झरपुत्रः सुनन्दः एकदा अगस्त्याश्रमम् आक्रम्य महर्षेः कोपाग्नौ भस्मीभूतो जातः।इमां वार्तां श्रुत्वा कोपाविष्टा ताटका पुत्राभ्यां मारीचसुबाहुभ्यां सह अगस्त्याश्रमस्योपरि आक्रमणं कृतवन्तः। तपोनिष्ठोऽगस्त्यः शापेन तेभ्यः राक्षसत्वम् अददात्। ततः तटाका अनेककालं पताले तथा लङ्कायां च उषित्वा पुन अयोध्यासमीपस्थे करूषवने मुनिपीडां कृत्वा आस्थिता बभूव। अथैकदा विश्वामित्रः स्वस्य यागरक्षणार्थं रामलक्ष्मणौ करूषं प्रति आनीतवान्। यात्रायां विश्वामित्रवचनैः दुष्टनिग्रहार्थं रामः प्रेरितो जातः। अटव्यां कठोरशब्दं श्रुत्वा रामः कुतूहलेन मुनिं पप्रच्छ तदा मुनिः ताटकायाः विषये वर्णनं चकार।|

कस्यचित्त्वथ कालस्य यक्षिणी कामरूपिणी।

बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत्।

ताटका नाम भद्रं ते

भार्या सुनन्दस्य धीमतः।

एवं मुनिवचनात् रामः परमाद्भुतेन तटकाया: पूर्वचरितश्रवणोत्सुको जातः। रामः मुनिवचनानि श्रुत्वा ताटकाया: पीडातः सज्जनानां मुक्तिं करिष्ये इति सत्यमकरोत्।

गोब्राह्मणहितार्थाय देशस्य च हिताय च।
करिष्यामि न संदेहस्ताटकावधमुत्तमम्।

एवं ताटकया सह घोरं युद्धं प्रवृत्तम्। मायबलेन ताटकाया विविधशस्त्राणि प्रयुक्तानि तथापि अमितविक्रमेण रामेण सर्वाणि शस्त्राणि नाशितानि। ताटकाया: करौ चिच्छेद्य युद्धान्ते रामः तस्याः वधं चकार।ताटकामोक्षेण सर्वे देवाः प्रीतमनस्काः भूत्वा पुष्पवृष्टिं चक्रुः।।
________________________________________________________________________________________________________________________________

मङ्गलवासरः (16-01-18) चतुर्दशी

प्रस्तावविषयः– धनुर्मासारम्भः

मार्गशीर्ष-पौषमासयोः अन्तर्गत एकमासकालपरिधि अर्थात् त्रिंशत् दिनानि धनुर्मास इत्युच्यते। दक्षिणभारते केरलादि प्रदेशेषु धनुर्मासः द्वादशमासेषु एको मास इति परिगण्यते। अस्मिन् मासे अति शैत्यं भवति। भगवान् श्रीकृष्णस्य प्रियमासः धनुर्मास इति कथासु वर्णितम् अस्ति। मकरसङ्क्रमणदिने धनुर्मासस्य परिसमाप्तिर्भवति तस्मिन्नेव समये दक्षिणायनस्यापि परिसमाप्तिः। सौरगणनानुगुणं यदा सूर्यः धनुराशौ प्रविशति तदारभ्य धनुर्मासस्यारम्भः संजायते । पुराणशास्त्रनुसारम् अस्मिन्मासे दैवीककार्येष्वेव व्यावृतो भवितुमर्हति। भारते भिन्नभिन्न प्रदेशेषु विविधरीत्या पूजाः भवन्ति शैवानां तथा वैष्णवानां मध्येऽपि अस्य मासस्य प्राधान्यं दृश्यते। केरले धनुर्मासे आर्द्रानक्षत्रे धनुमासतिरुवातिरा इति कश्चन विशिष्टोत्सवः महिलाभिः अचर्यते। दीर्घमाङ्गल्यार्थं एवम् अनुरूपवरप्राप्यर्थं च उत्सवोऽयं आचर्यते। भगवतः परमशिवश्य जन्मदिनं तथा विवाहदिनं अस्मिन्नवसरे एवास्ति इत्येव वैशिष्ट्यम्।विशिष्टनैवेद्यसमेतपूजया तथा व्रताचरणद्वारा च स्त्रियः भगवताराधनं कुर्वन्ति। नैकानि आचरणानि कृत्वा निद्रां त्यक्त्वा आरात्रिः तिरुवातिरक्कळि इति नृत्यं कुर्वन्ति च।पूर्वं कामदेवस्य शापमुक्त्यर्थं रतीदेवि महादेवं सम्पूज्य वृताचरणं कृत्वा स्वपत्युः शापमोक्षं कारितवती तेन सा पुनः सौभाग्यं प्राप्तवती च तिरुवातिरोत्सवस्य पृष्ठत एषा कथा वर्तते तथा समुद्रमथनसमये शिवः कालकूटम् इति अत्युग्रविषपानम् अकरोत् भगवतः रक्षणार्थं माता पार्वती तस्य कण्ठे हस्तं स्थाप्य प्रार्थनासमेतं रात्रिं यापितवती तस्याः घटनायाः स्मरणार्थम् उत्सवाचरणम् इत्यपि कथा श्रूयते।

सर्वेषां कृते धनुर्मासारम्भस्य शुभाशयाः।।
________________________________________________________________________________________________________________________________

रविवासरः (17-12-17) चतुर्दशी

प्रस्तावविषयः– शरणागतिः

शृणाति दुःखमनेनेति शरणम्। अत्यन्तदुःखावस्थायाम् अस्माकं सर्वम् आत्मानं च यत्र कुत्रापि समर्प्य मनसः भारं न्यूनीकर्तुं प्रयत्नं कुर्वन्ति मनुजा: शरणागति इत्युक्ते एतदेव। कुरुक्षेत्रसमराङगणे स्वबान्धवान् दृष्ट्वा मोहेन स्वकर्तव्याचरणे सम्मोहित अर्जुनः कृष्णं सर्वात्मना शरणं गच्छति स्म।

कार्पण्यदोषोपहतस्वभावः

पृच्छामि त्वां धर्मसम्मूढचेताः ।

यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे

शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥

एवमुक्ते सति भगवान् अर्जुनस्य हिताहितम् अबोधयत्। गीतायां भगवान् हि अवदत्।

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज।

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः।।

शरणागतानां लक्षणम् एतदेव स्यात् यद् भगवति परिपूर्णसमर्पणम्।

अन्यथा शरणं नास्ति। त्वमेव शरणं मम इति भावः स्वीकर्तव्यः।

शरणागतानां परिपालनं परमोत्कृष्टो धर्म इत्येव अस्माकं शास्त्रमतम्। शत्रु अपि यदि शरणं प्रार्थयति तर्हि तस्योपरि आक्रमणं न भवेत् इत्येव युद्धनीतिः। तद्वत् यः कोऽपि प्राणरक्षणार्थम् अस्माकं पुरतः प्रार्थयति स्वप्राणान् त्यक्त्वाऽपि तस्य रक्षणं परमोधर्मः।शरणागतरक्षणोदाहरणत्वेन महाभारते शिबिमहाराजस्य कथा प्रसिद्धा ननु।

शरण्या इति देव्याः नाम। देवीमाहात्म्ये रक्षणाय च लोकानां देवानां हिताय च देवी सदा शरणागतानां सुरानां परिपालनं चकार इत्येवाख्यातम् ।जानीमो वयम् अनन्यभक्त्या प्रह्लादोऽपि भगवता हरिणा रक्षितो पूर्वम्। विषमावस्थायां शरणागतानां सुरासुरानां रक्षणार्थं परमेश्वरः लोकसङ्ग्रहार्थं विषं पपौ।

तर्हि संसारसागरे मग्नानां मानवानां शरणं ईश्वरे एवास्तीति पुनः वक्तव्यं नास्ति खलु।।________________________________________________________________________________________________________________________________

सोमवासरः (18-12-17) अमावस्या

प्रस्तावविषयः– शुकः

शुकशब्दस्य अनेकार्थाः सन्ति।

*शुकः पक्षिविशेषणे*

पक्षिषु शुक अतीवसुन्दरः पक्षि अस्ति। रक्तवर्णचञ्चू: हरितवर्णपक्षौ मधुरस्वरः एते शुकविशेषा:। जीवने सामूहिकशीलं दर्शयन्ति शुकाः। पक्षिनिरीक्षकानां अभिप्रायानुगुणं भूतले ८० जातिषु ३७२ प्रकाराः शुकाः सन्ति। शुकाः धान्यानि फलानि च खादन्ति। ते गणशः केदारे विहरन्ति इत्यनेन कृषकाः सर्वदा कष्टेन धान्यरक्षणं कुर्वन्ति। सम्यक् परिशीलनं दत्त्वा केचन पक्षिपरिशीलका: शुकसम्भाषणं प्रदर्शयन्ति।।

आत्मनो मुखदोषेण बध्यन्ते शुकसारिकाः।

बकास्तत्र न बध्यन्ते मौनं सर्वार्थ साधनम्।। इति सुभाषिते।

*व्यासपुत्रः श्रीशुकः*

परीक्षित्महाराजाय श्रीशुकब्रह्मर्षिः श्रीमद्भागवतं श्रावयामास।

पराशरकुलोत्पन्नः शुको नाम महायशाः व्यासादरण्यां सम्भूतो विधूमोऽग्निरिव ज्वलन्स तस्यां पितृकन्यायां पीवर्य्यां जनयिष्यति कृष्णं गौरं प्रभुं शम्भुं तथा भूरिश्रुतं जयम्

कन्यां कीर्त्तिमतीं षष्ठीं योगिनीं योगमातरम् ब्रह्मदत्तस्य जननीं गृहीणीमनुहस्य च।

इति विष्णुपुराणे

परमभागवतः श्रीशुकः तत्त्वविद् आसीत्।

श्रीमद्भागवतस्य अपरनाम शुकसारस्वम् इत्येवास्ति।।

*अन्यत्र शुकशब्दार्थः*

रावणस्य मन्त्रिणः नाम शुक इति।

शुक इति कश्चन वृक्षोऽप्यस्ति।

वस्त्रम् शिरोकवचम् औषधम् इत्यादिषु अर्थेष्वपि शुकशब्दः प्रयुज्यन्ते।।________________________________________________________________________________________________________________________________

मङ्गलवासरः (19-12-17) प्रतिपदा

प्रस्तावविषयः– मङ्गलवासरः

सोमबुधवासरयो मध्ये आगच्छति मङ्गलवासरः।
मङ्गलग्रहस्य वासरोऽयम् तदर्थं कुजवार इत्यपि व्यवह्रियते। दुर्गा कालि हनुमान् सुब्रह्मण्यः इत्येतेषां देवीदेवानां प्रीत्यर्थं मङ्गलवासरे व्रतम् आचरन्ति हैन्दवाः। ज्योतिषशास्त्रानुसारं जातकस्य कुजदोषस्य निवारणार्थं मङ्गलवासरव्रतम् उत्तमं भवति। मङ्गलवासरे व्रतानुष्ठानं कृत्वा रक्तपुष्पैः कुमारं हनुमन्तम् कालीं दुर्गं च अर्चयामश्चेत् अभीष्टसिद्धिर्भवति।पूजासु देव्यै सुमधुरगुडपायसं आञ्जनेयाय पृथुकम् कुमाराय पञ्चामृतम् इत्यादीनि नैवेद्यद्रव्याणि च समर्पणीयानि।

रक्तचन्दनं कुङ्कुमं हरिद्राचूर्णम् एतान्यपि पूजाद्रव्यानि इति जानीमः।

ऋणमोचनं विवाहविघ्ननिवारणं ज्ञानवृद्धि एतानि व्रतानुष्ठानफलानि इति कथ्यन्ते।

इतरदेशेषु तथा इतरमतस्थानां कृतेऽपि मङ्गलवासरस्य किञ्चित् प्राधान्यम् अस्ति। पाश्चात्यानां विश्वासानुसारं मङ्गलवासर अङ्गपरिमितस्य एकरणदेवस्य दिनं भवति तस्य नाम टिव् इति।

धरणीगर्भसम्भूतं विद्युत्कान्तिसमप्रभम् |

कुमारं शक्तिहस्तं तं मङ्गलं प्रणाम्यहम् ||
________________________________________________________________________________________________________________________________

बुधवासरः (20-12-17) द्वितीया

प्रस्तावविषयः– दन्ताः

जन्तूनां शरीरस्य सुदृढाङ्गम् अस्ति दन्तः। शरीरनष्टेऽपि दन्ताः न नश्यन्ति। दंशनम् आहारपदार्थचर्वणं शब्दानां सम्यग् उच्चारणम् एतत् सर्वं दन्तानां साहाय्येन एव सम्भवन्ति। जन्तूनां जीवनशैल्याधारेण दन्तघटनायां विभिन्नतां द्रष्टुं शक्नुमः। मार्जारजातिमृगाः तेषां तीक्ष्णदन्तान् उपयुज्य अन्यमृगान् हन्ति।

दन्तानां निरन्तरोपयोगेन जरा भवितुम् अर्हन्ति इत्यनेन सहजतया एव मूषकसदृशानां प्राणीनां दन्ताः निरन्तरं वर्धमानाः भवन्ति।

*दन्तानां विषये आश्चर्याशाः*

~ मूषकाणां दन्ताः प्रतिदिनं १ मिल्लीमीटर् वर्धते।

~ यदि मूषकः आजीवनं तस्यदन्तोपयोगं न करिष्यत् तर्हि जीवनान्ते ७५० cm दीर्घदन्ता अभविष्यन्।

~ गजाः अतिस्थूलमृगाः तथापि तेषां मुखे उपयोगयोग्याः केवलचत्वारः दन्ता एव सन्ति।

~ अवहारकानां (shark) कण्ठस्य अन्तर्भागे अनेकदन्ताः भवन्ति।

~ दन्तान् दृष्ट्वा व्यक्तेः स्वभावलक्षणं वक्तुं शक्यते।

~ वामहस्तजनाः आहारचर्वणे वामदन्तानाम् अधिकोपयोगं कुर्वन्ति।

दक्षिणहस्तजनाः चर्वणे दक्षिणदन्तानाम् अधिकोपयोगं कुर्वन्ति।

~ चित्रोष्ट्रानां मुखे केवलं एकपङ्क्तौ एव दन्ताः भवन्ति।

~ मानवेषु यथा अङ्गुलीमुद्रा: भिन्ना: दृश्यन्ते तथा दन्तमुद्रा अपि भिन्नाः भवन्ति।

~ शम्बूकस्य मुखं सूचीसदृशमेवास्ति तथापि मुखे कति दन्ताः भवन्ति इति जानन्ति वा!!? २५००० दन्ताः!!

~ भूमौ नीलतिमिङ्गिलाः उदग्रतमाः जन्तवः तथापि ते लघुमत्स्यान् एव खादन्ति यतः चर्वणार्थं तेषां कृते दन्ताः न सन्ति!।

~किंबरपक्षिणः (crocodile bird) इति कश्चन पक्षिणः मकराणां मुखं प्रविश्य तेषां दन्तेभ्यः कीटान् खादन्ति एवं दन्तानां शुचित्वम् कुर्वन्ति।।

अहो! आश्चर्यं ननु दन्तानां वृत्तान्तम्।।
________________________________________________________________________________________________________________________________

*स्वर्वाणीप्रकाशः*

(वाट्साप्प् सदः)

गुरुवासरः (21-12-17) तृतीया

प्रस्तावविषयः– अश्रु

अश्नुते नेत्रमिति अश्रु। नेत्रयोः आर्द्रत्वस्य कारणम् अश्रूण्येव। दुःखसन्तोषयोः पारम्यावस्थायां सहजतया एव नेत्रे अश्रूणि दृश्यन्ते।यद्यपि अश्रूणि सस्तनप्राणीनां नेत्रेषु दृश्यन्ते तथापि मानवा एव रुदन्ति इत्येव वयं विश्वसिमः।

जनाः वैकारिकावस्थानां द्योतकार्थम् अश्रूणि मुञ्चन्ति कदाचित् कपटभावप्रकटनार्थञ्च। समानार्थकपदानि अस्रु,नेत्राम्बु,रोदन,अस्र,बाष्प इ्त्येतानि ।इतरजीविनां नेत्राभ्याम् अपि नेत्राम्बुधारा भवति तथापि तेषां वैकारिकावस्थायाः द्योतकत्वमेवास्ति इति न जानीमः। विविधासु भाषासु नक्ररोदनम् इति प्रयोगः दृश्यते ननु! नक्राणां अश्रुग्रन्थीनां वैशिष्ट्येन अश्रूणि निरन्तरं स्रावयितुं ते न शक्नुवन्ति अतोऽनवसरे एव तेषां अश्रुविमोचनं भवति बहुधा भोजनसमये एव अश्रूणि पतन्ति तदा उपहारमृगेषु करुणारसप्रवाह इत्येव भाति वस्तुतया नास्ति तथा किमपि! एतदर्थं स्यात् स्वार्थलाभरोदनं नक्ररोदनम् इति व्यवह्रियन्ते। सन्तोषस्य परावस्थायाम् अपि नेत्राभ्याम् अश्रूणि पतन्ति आनन्दबाष्पाः सदा इतरेषामपि आनन्दाय भवन्ति|

________________________________________________________________________________________________________________________________
*स्वर्वाणीप्रकाशः*

(वाट्साप्प् सदः)

🌸शुक्रवासरः (22-12-17) चतुर्थी🌷
✍प्रस्तावविषयः– कर्णः (महाभारते)

दानशूरः कर्णः।महापुरुषः कर्णः महाभारते विख्यातकथापात्रमस्ति।पूर्वं दुर्वासामुनिना
कुन्तीदेव्यै इष्टदेवस्मरणया देवांशपुत्रोत्पादनाय वरमेकं प्रदत्तम्।विवाहात् पूर्वमेव तरुण्या कुन्त्या सूर्यस्मरणेन वरशक्तिपरीक्षा कृता तदानीं तेजोमयः कर्णः जातः। अपवादभयात् तया पुत्रः नद्यां त्यक्तः। नदीप्रवाहेण शिशुः विदूरं गत्वा धृतराष्ट्रसारथेः अधिरथस्य निकटं जगाम। तेन शिशुः पत्न्यै राधायै समर्पितः। राधा स्वपुत्रमिव सन्तोषेण तं शिशुं पोषितवती। एवं कौन्तेयः कर्णः लोके राधेय इति प्रसिद्धो जातः। कर्णः बाल्ये एव महान् पराक्रमी दानशूरश्च बभूव। लोकदृष्ट्या
सूर्यपुत्र: कर्णः सूतपुत्रेवासीत्। पाण्डवानां मनसि कर्णस्तिरस्कृत एवासीत् । कर्णः कालान्तरे दुर्योधनस्य प्रियमित्रमभवत्। विषमावस्थायां दुर्योधनेन कर्ण आश्वसितो जातः। अङ्गराज्यस्य अधिकारं दत्त्वा दुर्योधनः कर्णाय स्वमैत्रीं प्रकटितवान् एतेन कर्णोऽपि आजीवनकृतज्ञो जातः।राधेयः दुर्योधनसहवर्त्तित्वेन अधर्मपक्षे स्थातुं निर्बन्धितो जातः। तथापि कर्णस्य महिमा त्रिलोकष्वपि प्रसृता जाता दानशूरः महावीरः करुणालुः अपारसेवकः सत्यसन्धः नि:स्वार्थः धीरः एते कर्णस्य विशेषाः बभूवुः। जन्मतः कवचकुण्डलविभूषितः कर्ण अपराजितोऽप्यासीद्। एतज्ज्ञात्वा निजपुत्रार्जुनहितार्थं देवेन्द्रः कर्णस्य कवचकुण्डलं दानरूपेण वशीकर्तुं निश्चयं कृतवान्
दिव्यज्ञानेन सूर्यभगवान् इन्द्रस्य स्वार्थचिन्तां ज्ञातवान्। सूर्यः ब्राह्मणवेषं धृत्वा कर्णाय स्वप्नदर्शनं दत्त्वा तस्य जन्मरहस्यं कवचकुण्डलशक्तिम् एवं इन्द्रस्य कुपद्धतिं च बोधितवान्। स्ववचनलङ्घनं तथा दानशीलत्वं च त्यक्तुं न शक्नोमि इत्येवासीत् तदानीं कर्णस्योत्तरम्। तर्हि अर्जुनवधार्थम् इन्द्रस्य एकपुरुषघातिनी इति शूलस्य सम्पादनं चातुर्येण कर्तुम् उपदिष्ट्वा सूर्य अन्तर्धानं चकार।
पश्चात् इन्द्रकर्णयोः सम्भाषणं जातम्। शूलायुधेनापि अर्जुनवधं न शक्यते यतोऽर्जुनः कृष्णेन सुरक्षित इति इन्द्रवचनं श्रुत्वाऽपि स्थितधीः कर्णः इन्द्रात् शूलायुधं स्वीकृत्य अपारवेदनां सहमानः शरीरात् कवचकुण्डलं कर्तयित्वा प्रदत्तवान्।कर्णस्य धैर्यं दृष्ट्वा देवाः ऋषयश्च तं वैकर्तन इति सम्बोधयन् प्रकीर्तितवन्तः। यद्यपि इन्द्रेण वक्रबुद्ध्या कार्यसिद्धिः प्राप्ता तथापि धीराचरणेन कर्णस्य कीर्तिः सर्वत्र प्रसृता जाता।
कुन्त्याः कर्मफलमेव कर्णस्य दुरवस्थायाः कारणं तथापि अर्जुनमेव युद्धे हनिष्यामि इत्युक्त्वा कुन्तीदेव्यामपि कर्णः स्वस्य दयां प्रदर्शितवान्।अथैकदा हस्तिनापुरम् आगत्य पाण्डवहितं कृत्वा राज्यभरणार्थं कृष्णः कर्णं प्रेरितवान् तथापि कृष्णवचनं निराकृत्य आपत्काले मित्रस्य साहाय्यमेव परमधर्म इत्युक्त्वा भगवतः पुरतोऽपि सत्यसन्धतां दर्शितवान्।।

उपासितास्ते राधेय ब्राह्मणा वेदपारगाः।
तत्त्वार्थं परिपृष्टाश्च नियतेनानसूयया ॥

त्वमेव कर्ण जानासि वेदवादान्सनातनान् ।
त्वमेव धर्मशास्त्रेषु
सूक्ष्मेषु परिनिष्ठितः ॥

‌इत्येवं प्रोवाच भगवान् कृष्णः।

कुरुक्षेत्रे महारथस्य कर्णस्य शौर्यम् अत्यद्भुतमासीत्।

कर्णस्य पराक्रमेण अर्जुनः निरन्तरं श्रान्तो भवति स्म। कर्णस्य अस्त्रेभ्य अनेकवारं कृष्णानुग्रहादेव पार्थः रक्षितः।यदा कर्णः निरायुधो भूत्वा रथचक्रसोद्धरणं चकार तदैव अर्जुन आञ्जलिकास्त्रप्रयोगं कृत्वा कर्णस्य शिरश्छेदं कृतवान्।
कुरुक्षेत्रयुद्धस्य १७ तमे दिने कर्णः वीरगतिं प्राप्तवान्।
युद्धविरामसमये आक्रमणं नीतिपूर्वकं नासीत् इत्येव बहुमतम्। मरणेऽपि कर्णस्येव विजयप्राप्तिः ननु । सदा पूर्वशापानां प्रभावेन कर्णः पीडितो भवति स्म। परशुरामशापाद् अत्यावश्यसमये अस्त्रविद्यानैपुण्यं विस्मरति स्म। भूम्याः तथा ब्राह्मणस्य शापादेव रथः रणाङ्गणे स्थगितः जातः।

कर्णवधोत्तरं पाण्डवाः निजस्थितिं ज्ञात्वा अतीवदुःखिता बभूवुः।।

कर्णस्य जीवनम् अस्मान् बोधयति यद्
यतो धर्मस्ततो जय :।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप्प् सदः)

🦋शनिवासरः (23-12-17) 💥
✍प्रस्तावविषयः– रङ्गवल्ली💠

रङ्गवल्ली नाम वर्णधूलीनाम् उपयोगेन भूमौ चित्ररचना इत्येव।
आदौ श्वेतवर्णचूर्णेन (तण्डुलचूर्णेन)
रेखाः क्रियन्ते। पश्चात् अन्तराले विविधवर्णाः पूर्यन्ते।

हैन्दवाचरणे रङ्गवल्ल्याः रचना सर्वत्र आवश्यकी अस्ति। तान्त्रिकपूजासु अर्चकैः विविधाः रङ्गवल्यः निर्मीयन्ते पूजार्थं विरचितरङ्गवल्ली पद्मम् इति कथ्यते।प्रायः तान्त्रिकपूजाः त्रिधा विभक्ताः विग्रहपूजा: (यथा मन्दिरेषु ) होमाः पद्मपूजा इति। एताः पद्धतयः तुल्यप्राधान्यं वहन्ति। पूजास्थानं वा मण्डपं वा शुद्धीकृत्य तत्र निर्मलधूलिभिः पद्मं रचयन्ति। प्रामुख्येन श्वेत: रक्त: हरित: पीतः कृष्णः एतेषां पञ्चवर्णानाम् उपयोगेन धूलीचित्राणि रचयन्ति।यत्र मनोधर्मानुमतिरस्ति तत्र कलावैभवानुसारं वर्णानां मिश्रणं कृत्वा नूतनवर्णस्यापि प्रयोगः क्रियते। सत्त्वरजतमोगुणाः यथाक्रमं श्वेतवर्णः रक्तवर्णः कृष्णवर्णश्चेति भवन्ति। पञ्चवर्णाः पञ्चभूतसूचका इत्यपि विश्वासः।

पीतवर्णः -पृथ्वी
रक्तवर्णः – अग्निः
हरितवर्णः – वायुः
श्वेतवर्णः – जलम्
कृष्णवर्णः – आकाशः

एवं पञ्चतत्त्वानां मेलनेन यज्ञमूर्तेः पाञ्चभौतिकशरीरस्य भावना सिध्यते ।

केरलीयतन्त्रशास्त्रे पद्मानां बाहुल्यं द्रष्टुं शक्नुमः। स्वस्तिकम् अष्टदलम् षड्दलम् भद्रकम् चक्राब्जम् नवग्रहपद्मम् स्वस्तिकभद्रकम् कटुंतुटि(शिवडमरुसदृशम्) वास्तुपद्मम् शय्यापद्मम् (देवप्रतिष्ठायाम् भगवतः शय्या इति भावना )नवकपद्मम् सुदर्शनपद्मम् विधाकलशपूजापद्मानि मृत्युंजयपद्मम् एतादृशानि बहूनि सन्ति। पूजापद्मानां सीमालङ्काराः भिन्नाः भवितुम् अर्हन्ति यथा स्वस्तिकमाला वल्लरीमाला अर्धस्वस्तिकम् वीराळी शक्तिदण्डकम्
एवम् तदपि बहुविधाः।

एतासु पूजासु परमप्राधान्यं पद्मानामेव भवन्ति यतः अर्चकस्य कुण्डलिनीतः भगवतावाहनं कृत्वा पद्मे एव सानिध्यं कल्पयति पूजकः। पद्मनिर्माणस्य विविधप्रमाणानि तन्त्रशास्त्रग्रन्थेषु वर्तन्ते अस्य न्यूनता पूजायाः क्रियालोपत्त्वेन परिगण्यते अत: रचनायाम् अतीवश्रद्धा आवश्यकी।
हैन्दवानां गृहप्राङ्गणे प्रभाते महिलाभिः रङ्गवल्ली निर्मियते। तण्डुलादि धान्यचूर्णेन रङ्गवल्लीं कृत्वा भक्त्यादरपूर्वकं दिनारम्भः भवति। लक्ष्म्या अनुग्रहं तादृशेषु गृहेषु भवति इत्येव अस्माकं विश्वासः।रङ्गवल्ल्या पिपीलिकादीनां लघुप्राणिनाम् उदरपूरणं च भवति एतेन अज्ञात्वाऽपि पञ्चमहायज्ञेषु भूतयज्ञानुष्ठानं भवति।अतः विषमयकृत्रिमचूर्णानाम् उपयोगः शास्त्रविरुद्धः इति जनान् बोधयाम।
एवम् अस्माकम् आचरणानां पृष्ठतः लोककल्याणमेव पूर्वजानां उद्देश्य:।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप्प् सदः)

🌷रविवासरः (24-12-17) षष्ठी🌹
✍प्रस्तावविषयः– मन्दिरनियमाः💐

(मन्दिरे कथं भवितव्यं भक्तजनैः इति)

मन्दिराणि भक्तिमार्गेण जनेभ्य आध्यात्मिकोन्नतिं यच्छन्ति। देवालयैः विविधदेवताः पूज्यन्ते।यद्यपि आचारकालदेशानुसारं मन्दिरनियमेषु भिन्नतां द्रष्टुं शक्नुमः तथापि सनातननियमान् अपि द्रष्टुं शक्नुमः। देवशरीरस्य स्थूलरूपमस्ति मन्दिरम्।

*इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते। *

इति गीतायाम्।

गर्भगृहं शिरप्रोक्तः
अन्तरालं मुखं तथा
‌सुखासनं गलश्चैव
बाहुश्चैवार्धमण्डपम्
महामण्डपं कुक्षि: स्यात्
प्राकारं जानुजघयोः
गोपुरं देवपादः स्यात्
यद्येते लक्षणं शुभम्

(क्षेत्रचैतन्यरहस्यम् )

एवं सम्पूर्णमन्दिरं देवमयम् अस्ति इति भावनया एव मन्दिरं गच्छेम।

सत्त्वरजतमोगुणानुसारं मन्दिराणि तथा आचाराः भिन्नाः दृश्यन्ते तथापि
केचन मन्दिरनियमान् पश्यामः

~ मनसा वाचा कर्मणा च शौचं भवेत्।

~ स्नानं विना मन्दिरगमनं न कुर्यात् ।

~ मन्दिरे निरर्थकभाषणं न भवेत् केवलं भगवतः मन्त्रजपमेव कुर्यात्।

~ मन्दिरस्य शुचित्वपालनम् भक्तानां कर्त्तव्यम् अस्ति।

~ रिक्तहस्तेन मन्दिरं न गच्छामः। पुष्पं वा फलं वा तैलं वा धनं वा यत्किमपि योग्यवस्तूनि नयामः।

~ वस्तूनां समर्पणं भक्त्या भवेत्।

~ देवदर्शनं सम्यक् कुर्युः अन्येषाम् अपि सुलभदर्शनार्थं सौकर्य्यं कल्पयेत् ।

~ यथाविधिः प्रदक्षिणं नमस्कारान् च कुर्मः।

~ उचितस्थाने किञ्चित् कालम् उपविश्य जपेत् अपि ध्यायेत्।

~ यथाशक्तिः दक्षिणां दत्त्वा प्रसादं स्वीकुर्यात्।

~ बलिपीठेषु स्पर्शनं कदापि मास्तु।

~ निषिद्धवस्तूनि न नयामः।

~ अज्ञात्वा अन्यं वा दृष्ट्वा वा मन्दिरे किमपि आचरणं न कुर्यात्।

~ क्षेत्रकार्यक्रमेषु यावत् शक्यं तावत् भागं स्वीकुर्यात्।

~ मन्दिरदर्शनविधिम् अनुगुणं दर्शनं कुर्मः नोचेत् मुख्यदेवं नमस्कृत्य उपदेवान् नमामः।

~ नित्यं मन्दिरदर्शनं कुर्मः।

एवं प्रकारेण चित्तशुद्धिं प्रप्य आचरणेन धार्मिकजीवनं कुर्मः।।________________________________________________________________________________________________________________________________

🌷सोमवासरः (25-12-17) सप्तमी🌼
✍प्रस्तावविषयः– अटल बिहारी वाजपई😊

भारतरत्न- पद्मविभूषण् श्री अटल् बिहारी
वाजपई वर्यः भारतस्य दशमप्रधानमन्त्री आसीत्। अटल्जि भारतीय जन सङ्घ् स्थापकेषु अन्यतमः तथा भारतीय जनता पार्टी (बा. ज.पा) इत्यस्य राष्ट्रीयदलस्य प्रबलनेता चासीत्। १९२४ तमे वर्षे डिसेम्बर्-मासस्य २५ दिनाङ्के मध्यप्रदेशस्य ग्वालियर् प्रदेशे भूजातः।विक्टोरिया महाविद्यालयात् संस्कृत-हिन्दी -आङ्ग्लादि विषयेषु प्रथमश्रेणीं प्राप्य काण्पूर् विश्वविद्यालयतः राष्‍ट्रतन्त्रे उन्नतशिक्षां अधिगतवान्।

पत्रकारः लेखकः कवि इत्यादि क्षेत्रेषु स्तुत्यर्हसेवनं कृतवान्।

नेहरूवर्यस्यानन्तरं अटल्जि एव अधिकवारं भारतस्य प्रधानमन्त्रिपदम् अलङ्कृतवान्। द्विवारं राष्‍ट्रीयदलसमस्यायाः कारणतः मन्त्रिमण्डलं समुज्झितं जातम्। अन्तिमपर्याये २००४ तम वर्षपर्यन्तं पूर्णकालं भारतस्य शासनमकरोत्।
वाजपईमहाशयस्य काले भारतस्य ख्यातिः वर्धिता जाता। भारतम् आणवशक्तिं प्राप्नोत्। कार्गिल् युद्धे भारतस्य विजयस्य कारणं राष्‍ट्रीयशासनविजयोप्यासीत्।अटल्जि शत्रुराजस्य नीचकृत्यानां खण्डनं दृढभाषया एव करोति स्म। operation shakti इति नाम्ना आणवविस्फोटकपरीक्षणम् अब्दुल् कलां वर्यादि शास्रज्ञानां सहयोगेन सधैर्यं कृत्वा भारतस्य क्षमतां प्रदर्शितवान्। तदनन्तरं भारतस्योपरि विविधैः देशै उपरोध: कृतः तथापि वाजपईवर्यः स्वनेतृत्वनैपुण्येन इच्छाशक्त्या च ताः समस्याः निवारिताः।

वाजपईवर्यस्य राष्‍ट्रीयक्षेत्रयोगदानम्।

* आणवपरीक्षणम्
* लाहोर् सन्धिः
* कार्गिल् युद्धविजयम्
* गतागतक्षेत्रविकसनम्
* समर्थवैदेशिकनीतिः
* वित्तक्षेत्रे विदेशनिक्षे च प्रगतिः

नरेन्द्रमोदीमहाशयस्य राष्‍ट्रीयप्रवेशने तथा मार्गनिर्देशने च वाजपई निर्णायकस्थानं स्वीकरोत्।

महोदय आदर्शेन समर्पणेन प्रीणनरहितसमभावनया च देशविदेशेषु जनानां प्रीतिं प्राप्नोत्। विरुद्धदलनेतारोऽपि महाशयस्य विषये एवम् अभिप्रायं प्रकटितवन्तः यत् वाजपई उत्तमः नेता किन्तु दौर्भाग्यवशात् सः हीनराष्‍ट्रीयसंघटनायाः पक्षे एवास्ति इति महाभाग अस्योत्तरम् एवं प्रकारेण प्रोक्तवान् मम सद्गुणाः मम सङ्घटनाया अनुग्रहेण आर्जितवान् एवं मम दुर्गुणः ममैवास्तीति।

आदर्शाधिष्ठितजीवनं कृत्वा राष्‍ट्रसेवनार्थं जीवनं समर्पितवान्।अधुना वाजपईमहोदयः वार्धक्यरोगकारणतः विश्रमजीवनं करोति।
भारतसर्वकारेण अटलबिहारी वाजपई वर्यस्य जन्मदिनं सद्भरणदित्वेन आचरन्ति।।________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप्प् सदः)
🔇मङ्गलवासरः (26-12-17) अष्टमी🤫
✍प्रस्तावविषयः– मौनम्🔕

मौनं सर्वार्थसाधनम्।।
मुनेर्भाव इति मौनम्। अभाषणम् तूष्णीम् तूष्णीकाम् इति पर्यायपदानि।
व्यक्ते उन्नमने अपचये च वचनस्य प्रभावो दृश्यते। अनुचितस्थाने भाषणं तथा अनिवार्यसमये मौनं द्वयमपि दोषाय एव।

आत्मनो मुखदोषेण बध्यते शुकसारिकाः।
बकास्तत्र न बध्यते मौनं सर्वाथसाधनम्।।

स्वायत्तमेकान्तगुणं विधात्रा विनिर्मितं छादनमज्ञतायाः।
विशेषतः सर्वविदां समाजे विभूषणं मौनमपण्डितानाम्।।

वाक्पटुत्वं सरस्वत्या अनुग्रहमेव। इन्द्रियाणां माहात्म्यं तेषाम् अभावे एव सम्यक् ज्ञातुं शक्यते। कर्मेन्द्रियम् इत्यर्थे जिह्वायाः कृते विश्रमं परिकल्पयति मौनव्रतम्। सम्भाषणम् इत्यस्य भौतिककर्मणः त्यागेन मनुष्याः स्वस्य अन्तरङ्गस्य विषये किञ्चित् चिन्तयितुं शक्नुवन्ति। इन्द्रियनिग्रहादिद्वारा एकाग्रता भवति इत्येव अस्माकं पूर्वजानां मतम्। मौनव्रतेन दारिद्र्यदुःखं न भवतीति विश्वासः। मौनं शान्तिं ददाति।

कलहसमये मौनेन व्यक्तिबन्धः समीचीनः भवति किन्तु कदाचित् मौनं व्यक्तिबन्धं नाशयति च। सर्वदा मितभाषिणः

भवेयुः तेन सर्वत्र सन्तुलनं भवति। मौनं कदाचित् सन्तोषं ददाति कदाचित् भयञ्च। मौनेन सर्वं साध्यम्।।________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप्प् सदः)

🌺बुधवासरः (27-12-17) नवमी🌸

✍प्रस्तावविषयः– द्रौपदी🙏

द्रुपदराजपुत्री द्रौपदी।
पाञ्चालदेशस्य कुमारी तथा पाण्डवानां पत्नी इत्यनेन एषा पाञ्चाली इति महाभारते विख्याता। कृष्णा सैरिन्ध्री नित्ययौवना वेदिजा इत्यादीनि अपरनामानि
द्रौपद्याः।।
पाञ्चालराज्ञः द्रुपदस्य तीव्रप्रतिकारभावादेव द्रौपद्या उद्भवः। कथा एवमस्ति पूर्वं यज्ञसेन इत्याख्यातः द्रुपदः पाञ्चालराज्ञः सोमकस्य पुत्र आसीत्। आयुधशिक्षणार्थं द्रुपदः भरद्वाजाश्रमं जगाम। तत्रैव द्रोणस्य परिचयं जातम् अथ कालान्तरे तयोः मैत्री दृढा जाता तदानीं द्रुपद द्रोणाय एवं उवाच। मित्र! आवयोः मध्ये भिन्नभाव: त्वया कदापि न चिन्तनीयः यदाहं राजा भविष्यामि निस्सङ्कोचं मम सकाशम् आगच्छ मम धने तवापि अधिकारो वर्तते अत अवश्यम् अहं तव दारिद्र्यं निवारयिष्ये इति।।

गुरुकुलजीवनान्तरं द्रोणस्य विवाहः सम्पन्नः। अश्वत्थामा इति तेजस्वी कुमारोऽपि जातः।
द्रोणः महादरिद्रः पुत्राय दुग्धमपि दातुम् अशक्य बभूव । एकदा द्रौणेः मित्राणि दुग्धम् इत्युक्त्वा तं तण्डुलपिष्टमिश्रितजलं दत्त्वा वञ्चितवन्तः। एतत् ज्ञात्वा द्रोण अतीव दुःखितो जातः।
कालान्तरे दारिद्र्येण नितरां पीडितः द्रोणः गुरुकुलमित्रस्य द्रुपदस्य वचनं स्मृता तं द्रष्टुं परिवारसमेतं राजभवनं गतवान्।।

तावता यज्ञान् यागान् च कृत्वा द्रुपद अतिसम्पन्नः ऐश्वर्ययुक्त: सन् राज्यं परिपालयति स्म। आपदि मित्रपरीक्षा इति खलु यदा द्रोण उपद्रुपदं सम्प्राप्तवान् तदा अहंकारी द्रुपदः द्रोणस्य परिचयमेव न प्रकटितवान् अपिच तं भृशं निन्दितवान् च। त्वं भिक्षुक अहं तु महाराज आवयोः मध्ये कोऽपि संबद्घः कदापि नास्ति तथापि परिवारसमेतमत्र आगतः ननु मम अन्नदाने भागं स्वीकर्तुम् अर्हसि इत्येवासीत् द्रुपदवचनम्। अपमानेन नितरां कोपाविष्ट: द्रोणः प्रतीकारशपथं कृत्वा ततः निर्गतवान्। पश्चात् द्रोणः हस्तिनापुरं जगाम तदा भीष्मेण कौरवपाण्डवानां गुरुस्थाने योजितः।।

अथैकदा गुरुदक्षिणार्पणसमयोप्यागतः पाञ्चालदेशं गत्वा तत्रत्यराजानं द्रुपदं युद्धे पराजीकृत्य बन्ध्वा मम पुरत आनयन्तु इत्येव शिष्यान् उवाच द्रोणः। द्रोणशिष्याः कौरवपण्डवाः तदेवाचरितवन्तः। एतेन द्रोणः द्रुपदस्योपरि प्रतीकारं कृतवान्। अपमानितः द्रुपदः तत्कालं क्षमाम् अयाचयन् पाञ्चालदेशस्य अर्धभागं द्रोणाय समर्पितवान्। वैरम् आजीवनं खलु अतः द्रुपदः द्रोणस्य हानिम् एव चिन्तयन् आभिचारक्रियासु मग्नो भूत्वा उपयाजा इत्यस्य मुनेः सहाय्येन अष्टादशमासपर्यन्तं यागं कृतवान्। यागाग्नौ कृष्णा इति महिला तथा सर्वायुधविभूषितः धृष्टद्युम्न: च आविर्भूतौ तदानीम् एषः द्रोणान्तकः भविष्यतीति अशरीरवाणी च आगता।अष्टलक्ष्म्यीषु विजयलक्ष्म्या अंशभूता सा कृष्णा एव द्रौपदी इति पश्चात् प्रसिद्धा जाता।।

महाभारतयुद्धस्य कारणेषु मुख्यानि कौरवाणाम् उपरि द्रौपद्या अपमानवचनानि एवासीत्। इन्द्रप्रस्थे अपमानितः दुर्योधनः सभामध्ये द्रौपद्याः वस्त्राक्षेपं कारयित्वा प्रतिकारं चकार तद्वारा दुश्शासनवधाय भीमेन शपथं कृतम्। द्रौपद्याः पञ्चपुत्रा आसन्।।

– प्रतिविन्ध्यः (युधिष्ठिरपुत्रः)

– श्रुतसेनः (भीमपुत्रः)

– श्रुतसोमः (अर्जुनपुत्रः)

– शतानीकः (नकुलपुत्रः)

– श्रुतकर्म (सहदेवपुत्रः)

द्रौपदी स्वस्य इष्टानिष्टान् सधैर्यं वदति स्म। महाभारतस्था शक्तैका नारीमणी च। द्रौपदी प्रतिकूलेसन्दर्भेष्वपि स्वकर्तव्यनिरता तथा धीरा चासीत्।।________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप्प् सदः)
🌼गुरुवासरः (28-12-17) दशमी🌺
✍प्रस्तावविषयः– युधिष्ठिरः🌻

पञ्चपाण्डवेषु ज्येष्ठः युधिष्ठिरः यमधर्मराजस्य पुत्रः। युधिष्ठिरः धर्माचरणे लवलेशोऽपि न विचलति स्म इत्यनेन धर्मपुत्र इति नाम्ना प्रसिद्धो जातः। कुन्तीपुत्रः युधिष्ठिरः दानशूरश्च।महान् कृष्णभक्तः धर्मपुत्रः महाभारतकथासु प्रभावशाली पुरुषः। धैर्यं सत्यसन्धता दानशीलम् स्थिरता दया इत्यादयः युधिष्ठिरे वर्तन्ते।।

युधिष्ठिरः कमपि शत्रुवत् न पश्यति स्म अतः स अजातशत्रु इति लोके प्रसिद्धो जातः। युधिष्ठिरः स्वशरीरेण दिवं गतेषु महापुरुषेष्वन्यतमः।

बाल्ये युधिष्ठिरः कुन्त्या तथा भ्रातृभिः सह हस्तिनापुरे वासं चकार। गच्छता कालेन कौरवपाण्डवयोः मध्ये विरोधोत्पन्नः। शान्तिप्रियः युधिष्ठिरः यावश्शक्यम् अनुजान् उपदेशयति स्म तथापि हस्तिनापुरे दुर्योधनादीनां पीडाम् असहमानाः पाण्डवाः वनवासम् चक्रुः। वने पाण्डवाः शक्तिं वर्धयन्तः दुर्योधनाय प्रतिकारावसरं प्रतीक्षमाणाः कालयापनं कृतवन्तः। एकदा पञ्चालदेशस्य कन्यायाः द्रौपद्याः स्वयंवरस्थानं गत्वा अर्जुनः तां पाणिग्रहणमकरोत्। ततः अर्धदेशस्याधिपतिर्भूत्वा युधिष्ठिरः राजसूयं कृत्वा मयनिर्मितइन्द्रप्रस्थनगर्याम् उषित्वा शासनं चकार। पुनः द्यूतक्रीडायां पराजिता: पाण्डवाः द्वादशवर्षाणि वनवासं तथा एकवर्षम् अज्ञातवासं च कृतवन्तः।।

पश्चात्पण्डवा: सन्धिभाषणार्थं कृष्णं दूतरूपेण कौरवाणां पुरतः प्रेषितवन्तः तथापि दुर्योधनस्य शाठ्यं किञ्चिदपि न्यूनं नजातम्।तदानीं धर्मरक्षणार्थं युद्धं विहाय अन्यमार्गः पाण्डवैः न दृष्टः। एवं कुरुक्षेत्रे घोरं युद्धं प्रवृत्तम्। कौरवपक्षस्य प्रायः सम्पूर्णनाशो जातः। धर्मराजः युधिष्ठिरः पुनः हस्तिनापुरपतिर्बभूव। स्वबान्धवान् हत्वा युधिष्ठिरोऽपि नितरां खिन्नो जातः। तत अष्टादशवर्षाणामनन्तरं गान्धारी कुन्ती धृतराष्ट्रः च वनवासार्थं गतवन्तः।
वर्षेत्रयाभ्यन्तरे वनाग्नौ ते मरणं प्राप्तवन्तः।पाण्डवैः पितृतर्पणानि कृतानि। ततः पञ्चदशवर्षाणामनन्तरं श्रीकृष्णस्य स्वधामगमनं तथा यादवकुलस्य च सम्पूर्णं विनाशं च दृष्ट्वा पाण्डवाः विरक्ताः जाताः। ते यधोचितं राज्यभारं समर्प्य महाप्रस्थानं कृतवन्तः। यात्रासमये युधिष्ठिरं विहाय सर्वे पतिताः जाताः। यात्रावसाने युधिष्ठिरः तथा तस्य अनुचर इव एकः शुनकः च स्वर्गद्वारपर्यन्तं प्राप्तवन्तौ तत्र शुनकाय प्रवेशं नास्ति इति ज्ञात्वा प्रवेशनिषेध अधार्मिक इत्युक्त्वा स्वयं स्वर्गलोकं निराकृतवान् युधिष्ठिरः तदानीं शुनकः स्वरूपं दर्शितवान्। शुनकरूपधारी धर्मदेवः स्वयमेव युधिष्ठिरम् आशीर्वादं चकार। कुरुक्षेत्रे अर्धसत्यमुक्तवान् इत्यनेन किञ्चित्कालं मोह नरकपीडाम् अनुभूय पश्चात् युधिष्ठिर आकाशगङ्गायां पवित्रो भूत्वा दिव्यत्त्वं गतवान्।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप्प् सदः)
📀बुधवासरः (03-01-18) 🌐
✍प्रस्तावविषयः– जननमरणचक्रम्☀

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च।।

संसारे अस्मिन् सर्वे जननमनणचक्रभ्रमेणस्य कारणत एव जन्म प्राप्तवन्तः। पुनर्जन्मसिद्धान्तानुसारं कर्मफलमेव जननमरणकारणम्। यद्यपि जननं मरणं द्वयमपि अस्माकं नेत्रयोः पुरतो नित्यं भवति तथापि एतयोः वास्तविकारणं किमिति स्पष्टतया अवगन्तुं तावत् सरलं नास्तीति जानीमः। भारतीयानाम् अस्माकं सनातनधर्मः वैदिकधर्मः। सनातनधर्मानुसारिणोऽस्माकं पूर्वजा एवम् अद्यापि एतादृशविषयेषु नितरां सत्यान्वेषणतत्पराः जिज्ञासवः बहवो वर्तन्ते। न तु केवलं भारते अपितु देशविदेशेषु च। वेदान्तचिन्तनेषु जननमरणचक्रस्य प्रतिपादनं तथा जननमरणरहितमोक्षावस्था इत्यादयः प्रतिपादिताः। कारणं विना कार्यं नास्ति इत्येव प्रमाणम् अतः जन्मस्यापि कारणं भवत्येव। प्रारब्धकर्माणि समाप्य शरीरं त्यक्त्वा आत्मा गच्छति पुनः पूर्वार्जितकर्मानुष्ठानार्थं जननं प्राप्स्यति इत्युक्ते नुतनस्थूलशरीरस्य सिद्धिर्भवति।

पुनरपि जननं पुनरपि मरणं पुनरपि जननीजठरे शयनम् | इह संसारे बहुदुस्तारे कृपयाऽपारे पाहि मुरारे ||

इति भजगोविन्दे।

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन।
तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप।।

इति गीतावाक्यम्।

अच्छेद्योऽयमदाह्योऽयम् अक्लेद्योऽशोष्य एव च।
नित्यः सर्वगतः स्थाणु अचलोऽयं सनातनः।।

आत्मा विनाशरहित इति अवगच्छामो वयम्।

किं बहुना भगवानपि स्वस्य कर्मप्रारब्धस्येव कारणादेव अवतरतीति पुराणेषु वर्णितम्। जननमरणदुःखात् विमोचनम् आत्यन्तिकदुःखनिवारणं मोक्ष इत्यभिधीयते।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप्प् सदः)
😊गुरुवासरः (04-01-18) ⭐
✍प्रस्तावविषयः– सन्तृप्तिः🌚

सन्तृप्ति इत्युक्ते सम्पूर्णसन्तुष्टभाव इत्येवार्थः।सन्तृप्ति इत्यनेन फलेच्छा इति भावः नास्ति कर्माणां सम्यक् समर्पणेन मनसि या भावना आगच्छति सा भावना एव सन्तृप्तिः।
लोके यावत् पर्यन्तं सन्तृप्तिं न प्राप्स्यन्ति तावत् पर्यन्तं जना: सन्तोषं न प्रकटयन्ति। दृप्तानाम् अत्याग्रहीनां तृप्तिः कदापि न भवति। ज्ञानेन एव कार्याकार्यं सम्यक् विचार्य सन्तुष्टाः भवितुम् अर्हाम।।

अतएव गीतायाम् एवं सूचितं यत्।

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः।

समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते।।

एतादृशाः कर्मबन्धनं न प्राप्नुवन्ति।

समर्पणधिया कार्याणि कुर्मश्चेत् सर्वदा सन्तृप्तिं प्राप्स्यामः। असन्तृप्तिरेव सदा अशान्त्याः कारणम् एतेन समाजे देशे च सङ्घर्षे जायते। आत्मसन्तृप्त्या शान्तिः तथा आत्मविश्वासोऽपि वर्धते। अतः वयं सदा तृप्ताः भवेम।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप्प् सदः)
🌸शुक्रवासरः (05-01-18) चतुर्थी🌻
✍प्रस्तावविषयः– ब्रह्मा🌺

ब्रह्मा इति शब्देन सृष्टिकर्ता ब्रह्मदेवः प्रजापतिः परब्रह्मा परमात्मा इत्यादयः परिकल्पिताः।

ब्रह्मदेवः

बृंहति प्रजा यः ब्रह्मा।कल्पादौ सृष्टिकर्ता ब्रह्मा मनुं सृष्ट्वा तद्वारा मनुष्याणां सृष्टिं चकार। पुराणानुसारं पुरा महाविष्णोः नाभौ कमलमेकम् उद्भूतं तस्मिन्नेव ब्रह्मणोत्पत्ति इत्यनेन सः कमलजः कमलासनः पद्मासनः पद्मगर्भः सरोजी नाभिजन्मा इत्येताभिः नामाभिः सूच्यते।।

चत्वारि मुखानि सन्तीति कारणात् चतुर्मुखः चतुरानन इति विख्यातो जातः।

प्रजानां पति इत्यनेन प्रजापति वेदानाम् अधिदेव इति कारणेन वेदगर्भः। एवं बहुविधानि नामानि सन्ति ब्रह्मणः।।

ब्रह्मा त्रिमूर्त्तीषु एकोऽप्यस्ति ब्रह्मणः गुणः रजोगुणः(रजो मूर्त्तिः)। ब्रह्माण्डं ब्रह्मसंबद्घमेव सृष्ट्यादौ जले बीजरूपेण सुवर्णमयाण्डस्योत्पत्तिः क्रमेण तस्य अण्डस्यविकासः तस्मात् ब्रह्मणः जननम् इत्यपि पुराणेषु दृश्यते।
युगगणनापि ब्रह्मणः जीवितकालस्यानुसारमेव भवति। ब्रह्मणः आयुः १०० ब्रह्मवर्षाणि सन्ति।

ब्रह्मदेवस्य पत्नी विद्यादेवता सरस्वती। एवं ज्ञानेन एव सृष्टिर्भवतीति द्योतयति।
यथा गर्भस्थशिशुः शरीरपोषणार्थं शक्तिम् ऊर्जं च गर्भनाड्या स्वीकरोति तथा ब्रह्मा प्रपञ्चस्वरूपस्य विष्णोः प्रभावेण एव सर्वं सृजतीति विश्वासः। एतेन प्रापञ्चिकप्रभावानां अधिदेवानां सामरस्यमपि सूचयति।

परब्रह्मा

परब्रह्मा इत्यत्र निर्गुणनिराकार ईश्वरतत्त्वमेव सूच्यते।पर इत्युक्ते सर्वातीतम् इत्यर्थः। परमात्मा इत्यपि उच्यते।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप्प् सदः)
👩🏻‍🔧शनिवासरः (06-01-18) पञ्चमी👩🏻‍💼
✍प्रस्तावविषयः– कार्यसहायिका 🧚🏻‍♀

मानवाः सदा कार्यनिर्वहणे परसाहाय्यम् इच्छन्ति। जीवनसुखाभिवृद्ध्यर्थं मनुष्याः निरन्तरं प्रयत्नरतास्सन्ति। एवं गृहकार्येष्वपि तेषाम् इच्छा समाना एव तदर्थं बहुनि यन्त्राणि आविष्कृतानि। यद्यपि अनेकानि गृहोपकरणानि सन्ति तथापि कार्याणां सुनिर्वहणार्थं मनुष्या एव अपेक्षिताः खलु तदर्थम् एव कर्मकराणां नियोजनम्।
नगरजीवने सर्वे कार्यव्यग्राः सन्ति ते नित्यजीवने गृहकार्यार्थं कार्यसहायिकाम् इच्छन्ति। कार्यलयेषु आपणेषु वैद्यालयेषु एवं सर्वत्रापि अद्यत्वे सहायकाः भवन्ति एतेन कार्याणां निर्वहणं समीचीनरीत्या भवन्ति। एवं सत्यपि सर्वदा सहाय्यं प्रतीक्ष्य जना अलसाः भवेयुः। यावत् शक्यं स्वकार्याणि स्वयमेव कुर्युः बाल्यादेव अस्यापि परिश्रमं भवेत्। यदि नित्यजीवने सर्वं पूर्वयोजनां कुर्मः तर्हि परसाहाय्येन विना सर्वेषु कार्येषु समयदानं शक्नुमः।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप्प् सदः)
📸रविवासरः (07-01-18) षष्ठी🎙
✍प्रस्तावविषयः– वाणिज्यविज्ञापनम्📺

वाणिज्यक्षेत्रं देशस्य पुरोगमनाय महत्त्वपूर्णं क्षेत्रम्। बहवः जनाः वाणिज्ये प्रत्यक्षपरोक्षरीत्या भागं स्वीकुर्वन्ति। सर्वकारेणापि वाणिज्यविकासार्थं प्रयत्नाः क्रियन्ते। सङ्गणकानाम् आधुनिकविद्याया उपयोगेन च वाणिज्यक्षेत्रे समूलपरिवर्तनं जातम्।
परिपणसंग्रहार्थं (मूलधनम्)
विविधाः संस्था आर्थिकक्षेत्रे तेषां संस्थायाः मूलद्रव्यस्य अधिकारं विक्रयणं कृत्वा धनार्जनं कुर्वन्ति एतेन क्रेतारोऽपि संस्थायाः लाभनष्टे अधिकारं प्राप्नुवन्ति सर्वकार एतत् सर्वं नियमान् निर्मीय रक्षणं करोति। वाणिज्यात् करं स्वीकृत्य देशपुरोगमनार्थं धनराशिं परिकल्ययति। नियमान् तथा अपायास्पदविषयान् ज्ञात्वैव वाणिज्ये निवेशः करणीयः नोचेत् धननष्टमेव भवति।
धननिक्षेपसमये आवश्यकं चेत् निपुणानाम् उपदेशः स्वीकर्तव्यः। सम्पूर्णं धनं विना चिन्तनेन एकत्रैव निक्षिप्तं न भवेत्। वाणिज्यविजयार्थम् आर्थिकक्षेत्रस्य सम्यक् ज्ञानम् आवश्यकम् एवं सूक्ष्मदर्शनेन निरन्तरावलोकनेन च व्यवहर्तव्यः।।________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप्प् सदः)
👦🏻सोमवासरः (08-01-18) सप्तमी👴🏻
✍प्रस्तावविषयः– पुरुषः👨🏻

सर्वाभिः नाङ्गीक्रियते! तथापि पुरति अग्रे गच्छतीति पुरुषः।

द्विधा कृत्वात्मनो देहं अर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजं असृजत्प्रभुः ।

पुरुषस्य पर्यायपदानि एवं सन्ति पूरुषः ना नरः पञ्चजनः पुमान् अर्थाश्रयः अधिकारी कर्म्मार्हः जनः अर्थवान् मनुष्यः मानवः मर्त्यः मानुषः मनु इत्यादीनि।
स्थूलप्रपञ्चस्य समष्टिदृष्ट्या विराट् पुरुषस्य वर्णनं वेदेषु दृश्यते वैष्णवपुराणे विष्णुरेव पुराणपुरुषः शैवे शिवः। तथापि परब्रह्मणः न स्त्री न पुमान् इत्येव वेदान्तमतम्।।

स्त्रीपुरुषयोः भेदः केवलं शरीरस्यैव तेषां परस्परयोगेनैव पूर्णत्त्वं सिद्ध्यति। शिवः शक्त्या एव शोभते। लक्ष्म्यीकान्तेन विष्णुना हि भक्तकामनाः पूर्यन्ते। सरस्वत्याः ज्ञानप्रसादं प्राप्यैव खलु ब्रह्मा सृजति अखिलमत्र। एतेन वक्तुं शक्यते यदस्माकं धर्मानुसारं स्त्रीपुरुषयोः भेदः वा उच्चनीचत्त्वं वा नास्तीति।

इदानीतन काले स्त्रीपुरुषयोः समत्त्वम् इत्युक्त्वा सर्वकारेणापि कार्ययोजनाः कल्पन्ते तदपि श्लाघनीयाः। तथापि स्त्रीपुरुषयोः मध्ये प्रकृत्या यो भेदाः वर्तन्ते तान् अतिक्रम्य सर्वत्र समत्त्ववादं मिथ्यावादमेव इति स्त्रिय एव वदन्ति। स्त्रीणां वैशिष्ट्यानि तथा पुरुषाणां वैशिष्ट्यानि द्वयमपि वर्तन्ते अपिच तानि परस्परपूरकाणि इत्यपि स्मर्तव्यानि।
पुरातनकाले सर्वत्र पुरुषाणाम् आधिपत्यमेव दृश्यते अद्यत्वे तथा नास्ति। अस्माकं शास्त्राणि पुराणानि च पुरुषाणां कृते प्राधान्यं कल्पयन्ति इत्येव विमर्शकानां आक्षेपः। अन्यमतग्रन्थेषु प्रायः तथा स्यात् वस्तुतया नास्ति अत्यधिकं तथा सनातनधर्मे नोचेत् देवीभागवतं कथं स्वीकार्यां भवति। प्रायः पुरुषेषु धैर्यं शौर्यं बलं च अधिकं भवति एतैः गुणैः पुरुषः आदिमसामूहिकजीवनाद् आरभ्य नायकत्वम् प्रप्तवन्तः स्त्रियः पुरुषाणां संरक्षणे गृहे शिशूनां पोषणं तथा गृहकार्ये मग्ना अभवन् कालक्रमेण परिष्कृतजीवनेऽपि कुटुम्बेष्वपि एषा एव व्यवस्था अनुवर्त्तिता। पुरुषस्य विजयस्य पृष्ठतः स्त्री एवास्ति इति लोकोक्तिः सत्यं स्यात् विषयोऽयम् अधिकं न जानामि!। स्त्रीसमत्त्वस्यकालेऽस्मिन् नियमानां दुरुपयोगोऽपि नित्यवार्ता। भविष्ये पुरुषाणाम् अवस्था कीदृशी भविष्यति इत्यपि चिन्तनीयविषयः।।

________________________________________________________________________________________________________________________________

*स्वर्वाणीप्रकाशः*
(वाट्साप्प् सदः)
🍃मङ्गलवासरः (16-01-18) अमावस्या🎋
✍प्रस्तावविषयः– सस्यवृद्धिः🌱

सस्यानि भूतले हरितकौशेयमिव शोभते। प्राणवायुं दत्त्वा वासयोग्यां धरणीं पालयन्ति सस्यानि। सस्यै इतरजीविनां जीवनार्थम् अन्नं दीयते। सूर्यात् ऊर्जं स्वीकृत्य प्रकाशसंस्लेषणद्वारा इतरेभ्यः रासोर्जस्य निर्माणं कुर्वन्ति। वायुशुद्धीकरणं निरन्तरं सस्येैः क्रियते। सस्यानां मूलानि भूजलरक्षणार्थं उपयोगप्रदायकानि। मूलानां वर्धनेन भौमान्तर्भागे वायुसञ्चारं साध्यं भवति अनेनैव कृषिकार्यं सफलं भवति।बहूनि सस्यानि तेषाम्
औषधगुणेन लोकप्रियाणि इति वयं जानीमः। सस्येष्वपि सन्ति बहवः विभागाः सुपुष्पि अपुष्पि तृणानि बीजजन्यानि ओषधय एतादृशानां सर्वेषां पठनं सस्यशास्त्रेषु अन्तर्भवन्ति। मृगा आहारयोग्यानि तथा वर्जनीयानि सस्यानि ज्ञातुं समर्थाः सन्ति। सस्यानां वर्धनम् आनन्ददायकमस्ति।

काले वर्षतु पर्जन्यः
पृथिवी सस्यशालिनी ।
देशोयं क्षोभ रहितः सज्जना सन्तु निर्भया ।।

……………………………………………………….

*स्वर्वाणीप्रकाशः*
(वाट्साप्प् सदः)
🌷बुधवासरः (17-01-18) ⛳
✍प्रस्तावविषयः– धनुः🏹

प्राचीनकालादेव मनुष्या आत्मरक्षार्थं तथा इतरेषामुपरि आधिपत्यार्थं विविधानि आयुधानि उपयुज्यन्ते। कालान्तरे आयुधानि वीराणां चिह्नानि जातानि। आधुनिके कालेऽपि देशरक्षादि क्षेत्रेषु आयुधानां प्राधान्यं नितरां वर्तन्ते। अस्माकं पुराणकथासु आयुधानाम् एवं युद्धानां वर्णनं बहुत्र दृश्यन्ते खलु। धनु आयुधेषु मुख्यतमम्। उपवेदेषु धनुर्वेदः शस्त्रविद्यां प्रतिपादयति।अधिकतया पौराणिकाः चापबाणैः युद्धं कृतवन्त एतदेव कारणं स्यात् आयोधनशास्त्रं धनुर्वेद इति प्रसिद्धो जातः। न केवलं देवीदेवा अपितु असुरा अपि अस्त्रविद्यायां निपुणा आसन्। अर्जुनः कर्णः एकलव्यः श्रीरामः रावणः भीष्मः एतादृशानि बहूनि पुराणकथापात्राणि अस्याः विद्या अग्रगण्या आसन्। चापम् धन्वम् शरासनम् कोदण्डम् कार्मुकम् एतानि पर्यायपदानि। धनुस् इति पदेन विविधाः अस्त्रशस्त्राणि द्योतन्ते।

– मुक्तम् (पाणिमुक्तम्)
– अमुक्तम्
– मुक्तामुक्तम्
– यन्त्रमुक्तम्

पुराणेतिहासलेखेषु अद्भुतप्रहारशक्तियुक्तानाम् अस्त्राणां प्रयोगो दृश्यते। आग्नेयास्त्रम् ब्रह्मास्त्रम् नागास्त्रम् वरुणास्त्रम् एवं बहुविधानि। धनुर्विद्यार्थं अतीवश्रद्धा लक्ष्यबोधश्चावश्यकम्। अधुनापि स्पर्धाक्षेत्रे धनुर्विद्याप्रयोगो दृश्यते।।

………………………………………………………

*स्वर्वाणीप्रकाशः*
(वाट्साप्प् सदः)
⛳गुरुवासरः (18-01-18) प्रतिपदा🙏
✍प्रस्तावविषयः– गुप्तनवरात्रम्💐

देवीभागवतानुसारं प्रतिवर्षं चतुर्वारं नवरात्रोत्सव आगच्छति। नवरात्रसमये देव्याः नवविधभावानां पूजां कुर्वन्ति जनाः। तेषु उत्सवेषु गुप्तनवरात्रोत्सव अन्यतमः। अस्मिन् सन्दर्भे देव्याः पूजनं कृत्वा जनाः शक्तिं ऐश्वर्यञ्च आर्जयितुं यतन्ते। अष्टम्यां तथा नवम्यां कन्यापूजनसहितं व्रताचरणं कुर्वन्ति भक्ताः।माघमासे एव गुप्तनवरात्रम् आचर्यते। माघमासे शुक्लपक्षस्य प्रथमदिनतः नवमदिनपर्यन्तं भवति अयम् उत्सवः।दक्षिणभारतस्यापेक्षया उत्तरभारते अस्योत्सवस्य विपुलाचरणं दृश्यते।अस्मिन् पर्वाणि भगवत्याः काली तारा बगला षोडशी इत्यादीनां गुप्तरूपाणां पूजनं भवन्ति।।
………………………………………………………

*स्वर्वाणीप्रकाशः*
(वाट्साप्प् सदः)
💐शुक्रवासरः (19-01-18) द्वितीया💥
✍प्रस्तावविषयः– माघमासः🌸

भारतीयकालगणनानुगुणं वर्षस्य द्वादशमासेषु माघमास एकादशः मासः। पुण्यतीर्थेषु स्नानार्थं माघमासः विशिष्टमास इत्येव विश्वासः। मासेऽस्मिन् अधिकं शैत्यम् अनुभूयते।प्रकृतेः मनोहरदृश्यं माघमासे द्रष्टुं शक्नुमः। प्रमुखमन्दिरेषु अस्मिन्नेव मासे उत्सवाचरणं भवति।
माघे एव वसन्तपञ्चमी उत्सवः भवति। भारतीयानां विश्वासानुसारं माघमासस्नानं महत्तमम् अस्ति। पुराणानुसारम् अस्मिन् काले मङ्गलवासरे उपसना अतिविशिष्टा अनया उपासनया चतुर्विधपुरुषार्थानां सिद्धिर्भवति। माघमासे व्रतस्नानेन निखिलानि पापानि नश्यन्ति इति पद्मपुराणेन सूच्यते। माघपूर्णिमायां ब्रह्मवैवर्तपुराणपुस्तकदानेन नराणां ब्रह्मलोकप्राप्तिर्भवति इति ब्रह्मवैवर्तपुराणकथनम्। माघमासस्य अमावास्यायाम् प्रयागतीर्थे स्नानं स्वर्गादि लोकप्राप्तेः कारणं भवतीति विश्वासः। तपोवर्याणां कृते तिलदानेन नरकभयमोचनं सिद्ध्यति। एव अस्माकं धर्मानुसारं माघमास: महत्त्वपूर्णमासेति निरूपयाम।।
________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
🔫सोमवासरः (19-02-18) चतुर्थी🏹
✍प्रस्तावविषयः– आयुधः⚔

आयुध्यते अनेनेति आयुधम्। आयुधानि त्रिविधानि सन्ति।तानि प्रहरणानि, पाणिमुक्तानि, यन्त्रमुक्तानि इति विभक्तानि। कार्याणि कर्तुं तथा आत्मरक्षणार्थं अपिच परेषाम् उपरि आक्रमणाय च आयुधानि उपयुज्यन्ते। आधुनिककालेऽपि आयुधानां महत्त्वस्थानं वर्तते। दुर्बलानां बलम् आयुधं तथा वीराणां लक्षणञ्च। यस्मिन् देशे सैन्यायुधबलम् अधिकं वर्तते सः देशः लोके मान्यः नियन्त्रकश्चेति भावोऽपि दृश्यते। आणवायुधानि समस्तलोकानां कृते भयजनकानि अनेन जीवने मनःप्रसादो नष्टो भवतीति सत्यम्। पौराणिककालादेव विपुलानि आयुधानि वर्तन्ते तानि विविधकथाभ्यः ज्ञातुं शक्यन्ते। देवीदेवानां हस्तेषु सदा आयुधानि भवन्त्येव अनेन देवाः शक्ताः तथा आश्रितरक्षणतत्परा इति भावना जायते। सज्जनानाम् आयुधानि लोकोपकाराणि भवन्ति दुर्जनाः तैः विरुद्धम् आचर्यते यथा वैद्यः छुरिकाम् उपयुज्य प्राणान् रक्षयति अपितु चोरः छुरिकया क्षतिं कुरुते। आयुधप्रयोगे निपुणता तथा किञ्चित् भाग्यम् अपि अनिवार्यं भवति नोचेत् आत्मरक्षणार्थं स्वीकृतं तद् आत्मानं हन्ति एतदर्थमेव पुराणे एवं सूच्यते यद्

तृणं वज्रायते नूनं वज्रं चैव तृणायते । बलवान्बलहीनः स्याद्दैवस्य गतिरीदृशी ॥

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
🍖गुरुवासरः (22-02-18) सप्तमी🐕
✍प्रस्तावविषयः– कुक्कुरः🐶

शुनकः, श्वानः, शुनः, शुनी, भषकः इत्यादीनि पर्यायपदानि कुक्कुरस्य। बहवो जनाः कुक्कुरान् गृहे सस्नेहं पोषयन्ति। ते गृहसंरक्षणसमर्था: तथा विश्वासयोग्यमृगाश्च। शुनकानां स्वामिभक्ति: वर्णनातीता ननु सदैव शुनकाः यजमानस्य पुरतः स्नेहं प्रकटयन्ति। अद्यत्वे अधिकमूल्यवतानां शुनकानां पोषणं गर्वास्पदविषय इत्येव केचन जनानां चिन्तनम्। बहवः तेषां पोषणार्थम् अत्यन्तधनव्ययं कुर्वन्ति।नगरेषु परिमितजीवनपरिस्थितौ अपि केचन केवलं दर्पेण शुनकं पोषयन्ति। गार्हिकमृगाणां पालनेन मानवानां मनसि सहजीवनस्य महत्त्वोद्बोधनं भवतीति विश्वासः तथापि आधुनिककाले विरुद्धमेव दृश्यते। मृगेष्वेव मनुष्यत्वं नरेषु मृगत्वं च दर्शयन्ति सद्यस्कालीनाः जनाः। गृहजनानां पालनं परिहृत्य श्वानपालनासक्ताः महिलाः नूतनसंस्कारस्य वक्त्र्यः भवन्ति। मृगानां पालने नियमानां पालनम् अपि भवेयुः।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
⭐शुक्रवासरः (23-02-18) अष्टमी🌎
✍प्रस्तावविषयः– समाधानम्☺

सृष्ट्यादौ ब्रह्मदेवः भगवतः विष्णोः निर्देशानुसारं मानवान् ससर्ज। ततः तेभ्यः अनुकूलप्रतिकूलकाः अवस्थाः विष्णुना दत्ताः अर्थात् भगवान् सुखं दुःखं परिश्रमशीलं धर्मचिन्तनं एतादृशानि सर्वाणि अपि दत्तवान् किन्तु शान्तिः स्वस्य पादमूले गोपितवान्। एतत् सर्वं दृष्ट्वा लक्ष्मीदेवी भगवन्तं पृष्टवती किमर्थं मानवाय शान्तिं न दत्तवान् इति तदा भगवान् एवं प्रोवाच यद्किमपि भवति चेदपि मानवाः शान्तिं मनसमाधानं च विना जीवनं यापितुं नेच्छन्ति किन्तु भगवतः निरन्तरस्मरणया अनन्यभक्त्या एव तैः मन: समाधानं प्राप्यते। जीवने सर्वमपि अस्ति चेदपि समाधानं नास्ति चेत् किं वा प्रयोजनम्। प्रश्नस्य उत्तरम् अपि समाधानम् इव परिगण्यते। जिज्ञासवः निरन्तरं तेषां मनसि स्थितानां प्रश्नानां समाधानार्थं प्रयत्नरताः भवन्ति अन्यथा तेषां शान्तिर्नभवति । अद्यत्वे जनाः जीवनपरिवर्त्तनात् व्यस्ताः सन्ति धनार्जने एव आसक्ताः भूत्वा बहुकालं यापयन्ति यदाकदापि तेषाम् अपि चिन्तास्फुरणं भवति यत् मया शान्तिः कदा प्राप्यते इति। यस्य मनः प्रसादम् अस्ति सः लोकेऽस्मिन् जीवनं सार्थकं कृत्वा जीवति इत्येव पण्डितानां मतम्।

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् | आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः।

इत्येव खलु गीतायाम्। समाधानार्थम् सदैव आत्मप्रयत्नो विधेयः। शिवसङ्कलनेन जीवनशान्तिं प्राप्स्यामः।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
👊शनिवासरः (24-02-18) नवमी 🧠
✍प्रस्तावविषयः– अन्तःशक्तिः💪

शक्यते जेतुमनया इति शक्तिः। शक्तिः साक्षात् जगदम्बिकायाः स्वरूपम्

या देवी सर्वभूतेषु शक्ति-रूपेण संस्थिता। नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः।।

इति देवीमाहात्म्ये प्राणिनां प्राणशक्तिः सायेव। बलेषु मुख्यं आत्मबलमेव। अन्तरङ्गस्य शक्त्या एव अन्तिमविजयं भवतीति जानीमः। शिवः शक्त्या एव पूर्णो भवति। आत्मानं शक्तं मत्वा ये कार्यसिद्धाः भवन्ति तेषां पुरतः दुष्करं किमपि नास्ति। मनोबलं कदापि नत्याज्यं इति सर्वे वदेयुः तथापि प्रायोगिकजीवने सर्वे तथा आचरितुम् असमर्थाः। मानवानां परमवैभवं तेषां युक्तियुक्तचिन्तनम् एव तर्हि मनोबलं युक्तिचिन्तनेन वर्धयितुं शक्नुमः।

नास्त्युत्साहात्परं बलम् इत्येव किल अतः प्रथमं मानसिकम् उत्साहं जनयेत्। ततः अन्तः शक्तिं समार्जयेत्।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
🌚बुधवासरः (21-02-18) षष्ठी🌪
✍प्रस्तावविषयः– वायुप्रदूषणम् (वायुकालुष्यम्)💨

आधुनिककाले प्रदूषणं महत् समस्या वर्तते। अनेन समस्तजीवजालस्य अतिजीवनं कष्टतरं भवति। विविधानि प्रदूषणानि जन्तुषु आरोग्यसमस्या: जनयन्ति। एतादृशेषु प्रदूषणेषु वायुप्रदूषणम् अत्यन्तं आपत्करमेव यतः प्राणिनां जीवनार्थं प्राणवायुरेव अत्यन्तापेक्षितं ननु। वायुमण्डले धूमस्य तथा विषमयरासपदार्थानां प्रसारणेन वायुप्रदूषणं भवति। प्रदूषणे प्रकृतिजन्यानि कारणानि सन्ति तथापि मानवानां विचारहीनाचरणादेव मुख्यतया प्रदूषणं सम्भवति। प्रदूषणं विविधरीत्या भवति समुद्रजलबाष्पीकरणात् विविधानां लवणपदार्थानां मिश्रणं वायुमण्डले निरन्तरं जायमानोऽस्ति। अग्निपर्वतविस्फोटनद्वारा आकाशे आधिक्येन मालिन्यप्रसारणं जायते। गृहेभ्यः तथा निर्माणशालाभ्य अविरामं मलिनवायुप्रवाहो दृश्यते। अद्यत्वे वाहनानां संख्या नियन्त्रणातीता जाता पेट्रोल् डीसल् इत्यादीनां शिलातैलानां ज्वालनेन अङ्गाराम्लवायोः परिमाणं क्रमातीतं जायते। कौकिलीयवायुप्रदूषणं सर्वत्र भवति एवं प्रकारेण अन्यानां निष्प्राणवायूनां अधिकाभिमुखतायाः कारणतः वायुमलिनीकरणं सम्भवति। भैमतापवर्धनं तथा ozone इति भौमरक्षणवायुमण्डलस्यनाशम् अपि सम्भवतः। अनेन नित्यम् अपरिहाराः विविधाः समस्याः जायमानाः सन्ति।अनेन जीवनयोग्या इयं भूमिः प्रतिकूलात्मकं सम्भवतीति वैज्ञानिकमतम्।प्रदूषण- निवारणार्थं समस्तदेशानां सहकरणम् अपेक्षितम्। मलिनीकरणनियन्त्रणनियमानां पालने जनानां जागरणं अपेक्ष्यते।

माता भूमिः पुत्रोऽहं पृथिव्याः

इति आप्तवाक्यस्य सम्यक् अवबोधनेन जनान् उद्बोधयितुं शक्नुयाम।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
💀रविवासरः (25-02-18) दशमी🐃
✍प्रस्तावविषयः– यमधर्मराजः👤

ॐ सूर्यपुत्राय विद्महे
महाकालाय धीमहि ।
तन्नो यम: प्रचोदयात् ।।

यमाय प्रेताधिपतये नमः

यमः प्रेतानां अधिपतिः। यमधर्मराजा हैन्दवानां विश्वासानुसारं प्राणिनां जीवनान्ते तेषां जीवात्मनः परलोप्रवेशनं कारयति। प्राक्तनः कर्माधारेण परलोके तेषां स्वर्गगमनं वा नरकगमनं वा भवतीति विश्वासः। धर्मस्य प्रतिपुरुषः यमः। धर्माणां पालने यमस्य श्रद्धा पुराणकथासु तत्र तत्र वर्णिता अस्ति। पाण्डवानां ज्येष्ठः युधिष्ठिरः यमस्य पुत्र इत्यनेन धर्मपुत्रः इति विख्यातः। यमयुधिष्ठिरयोः संवादोऽपि महाभारते प्रसिद्धः। लोके अत्यन्तं आश्चर्यं किम् इति यमस्य प्रश्नस्य कृते युधिष्ठिरस्य उत्तरम् एवमासीत्।

अहन्यहनि भूतानि गच्छन्तीह यमालयम्।शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् ॥

सहस्रयोजनविस्तृता अस्ति यमपुरिः। तत्रैव चित्रगुप्तस्याऽपि आलयम्। यमसभा विश्वकर्मणा निर्मिता। यमयति नियमयति जीवानां फलाफलमिति यमः। यमः दक्षिणदिक्पालेति प्रसिद्धः। महिषस्योपरियेव यमसञ्चारः।।
यम अन्तक इत्यपि विख्यातः। अन्तकस्य भयनिवारणार्थम् अन्तकान्तकं महादेवमेव शरणं गच्छाम।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
🌹सोमवासरः (26-02-18) एकादशी💐
✍प्रस्तावविषयः– मालाकारः🌸

यः मालायाः निर्माणं करोति सः मालाकारः इत्युच्यते।
माल्यग्रथनविकल्प: चतुषष्टिकलासु एका कला। विविधानां पुष्पाणां वर्णोचितयोजनं कृत्वा मनोहरमाल्यानि निर्मीयन्ते मालाकारैः। केरलीयशैल्यां मन्दिरेषु यथा पूजार्थम् अर्चकानां नियुक्तिर्भवति तथा माल्याणां रचनार्थं मालाकारस्यापि नियुक्तिर्भवति।
दर्भ अथवा कुशः तृणानाम् उपयोगेन कदाचित् कदलीवृक्षस्य तन्तुनाऽपि मालां रचयति अन्यकार्पास-सूत्राणाम् उपयोगः न क्रियते आशौचकारणात्। यस्मिन् विग्रहे मालार्पणं भवतीति पूर्वमेव विचिन्त्य मूर्ते आकारानुसारं मालाः रचयन्ति। यदि अनेकमालाः भवन्ति तर्हि तत्र भिन्नभिन्नवर्णानां माला एव रचयन्ति। किरीटस्योपरि भिन्नरीत्या मालां रचयन्ति। एवम् केचन मालाकाराः यदा विग्रहे माल्यार्पणं भवति तदानीम् अर्चकाय किञ्चित् निर्देशोऽपि ददति या माला कुत्र भवति तस्या अनन्तरं का माला भवतीति यतः मालाकाराः गर्भगृहे न प्रविशन्ति।अतिवरम्यरीत्या माल्यैः देवानाम् अलङ्कारः भवितिचेत् मालाकारस्यापि आत्मतृप्तिर्भवति इतितु सत्यम्। मालानां सर्वाणि पूजापुष्णाणि उपयुज्यन्ते तथापि देवीदेवानां प्रियपुष्पाणां माला इतोऽपि विशिष्टा इति मन्यते।आरम्भे तथा अन्ते च तुलसीपत्राणां योजनम् अवश्यं भवितव्यम् इति केचन वदन्ति। अलङ्कारप्रियाः खलु देवा अत माल्यानां समर्पणम् अभीष्टदायकं भवतीति विश्वासः।

मालाः नतु केवलं मन्दिरे एव अपिच मेलनेषु वरिष्ठानां स्वीकरणार्थं विवाहसमये वधू-वराणां कृते एवं भिन्नभिन्नकार्यक्रमेषु आवश्यकाः भवन्ति।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
🤴🏻मङ्गलवासरः (27-02-18) द्वादशी💑
✍प्रस्तावविषयः– विवाहदिनोत्सवः👸🏻

यथा वायुं समाश्रित्य वर्तन्ते सर्वजन्तवः ।
तथा गृहस्थमाश्रित्य वर्तन्ते सर्वाश्रमाः।।

इति मनुस्मृतौ।

गृहस्थाश्रमात् परो धर्मो नास्ति। विवाहसंस्कारस्य अनन्तरं भवति गृहस्थाश्रमः। अनेनैव हैन्दवानां कृते विवाहसंस्कारः षोडशसंस्कारेषु मुख्यः।परिष्कृतसमाजस्य आधारं कुटुम्बजीवनम् अस्ति कुटुम्बजीवनं विवाहेन एव साध्यम्। विशिष्टं वहनं विवाहः। पाणिग्रहणं परिणयः, उद्वाहः, उपयमः, पाणिपीडनं, करग्रहः, निवेशः इत्यादीनि पर्यायपदानि विवाहस्य।।

पुरातनकाले अष्टविधाः विवाहा आसन्।

१, वरमाहूय यथाशक्त्यलङ्कृता कन्या यत्र दीयते स ब्राह्मः।

२, यत्र यज्ञस्य क्रियाभागरूपेण यजमानाय कन्यादानं भवति सः विवाहः दैवः इति कथ्यते ।

३, यत्र वरात् गोद्वयं गृहीत्वा तेनैव सह कन्यादानं स आर्षः ।

४, यत्र अनया सह धर्म्मं चरतां इति नियमं कृत्वा कन्यादानं स कायः।

५, यत्र धनं गृहीत्वा कन्यादानं स आसुरः।
६,कन्यावरयोरन्योन्यानुरागात् भवति चेत् गान्धर्व्वः।

७, बलात्कारेण कन्याहरणं स राक्षसः।

८, सुप्तायां मत्तायां प्रमत्तायां वा कन्यायां निर्जने गमनं स पैशाचः।

वर्ण-आचरण-देश- संप्रदायानुसारं विवाहोत्सवे भिन्नतां द्रष्टुं शक्यते।

माङ्गल्यं तन्तुनानेन मम जीवन हेतुना ।
कण्ठे बध्नामि शुभगे
त्वं जीव शरदश्शतम् ।।

इति भावनया केचन मङ्गलसूत्रं बध्नन्ति।

ज्येष्ठानां पूजनं तेषाम् अभिवाद्यं सर्वेषां कृते अन्नदानं एतत्सर्वं प्रायः सर्वत्र भवन्ति। वैदिकरीत्या सप्तपदि- लाजहोमादि अनुष्ठानं कुर्वन्ति केचन। वधूवरः परस्परं हारार्पणं कृत्वा वध्वै वस्त्रं समर्प्य पाणिग्रहणम् कृत्वा अग्नेः प्रदक्षिणम् अपि सार्वत्रिकरूपेण दृश्यते।विवाहद्वारा द्वयोः कुटुम्बयोः बन्धुत्वं तथा नूतन जीवितारम्भो भवतीति विश्वासः।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
👨🏻‍💼बुधवासरः (28-02-18) त्रयोदशी👴🏻
✍प्रस्तावविषयः– पितृदेवो भव🧑🏻

मान्यः पूज्यश्च सर्व्वेभ्यः सर्व्वेषां जनको भवेत्।।

पाति रक्षत्यपत्यं यः सः पिता। मातापितरौ एव अस्माकं जन्मकारणम् अतः मातापित्रोः कृते सदैव स्नेहादरपूर्वकं भवितव्यम् अस्माभिः।
सनातनधर्मस्य पञ्चमहायज्ञेषु अन्यतमोऽस्ति पितृयज्ञः।अस्य पृष्ठतः विपुलार्थाः सन्ति यतोऽयं कुटुम्बबन्धनार्थम् अत्यन्तापेक्षितः। वेदोक्ता मातृदेवो भव पितृदेवो भव आचार्यदेवो भव इत्यादया आशयाः सर्व्वसम्मताः। वयोजनानां तथा मातापित्रोः पालनं पितृयज्ञस्य भागः।

जीवतो वाक्यकरणात्क्षयाहे भूरिभोजनात् ।
गयायां पिण्डदानाच्च त्रिभिः पुत्रस्य पुत्रता ॥

जीवनकाले तेषां सम्यक् परिपालनं तथा मरणानन्तरं श्राद्धादि क्रिया द्वयमपि पुत्रस्य धर्मः।

पिता साक्षात् ईश्वरः सयेव प्रथमगुरुः। भगवतः श्रीरामस्य चरितं पित्राज्ञा कथं पालनीयम् इत्यस्मान् बोधयति।

पूज्याः ज्येष्ठाः सर्वे पितृतुल्यं पश्येत् इति आर्षसंस्कारः।

जनिता चोपनेता च
यस्तु विद्यां प्रयच्छति
अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः ।।

– इति चाणक्यवाक्यम्

अनेकानि सुभाषितान्यपि पितुः महत्त्वं बोधयति।

पिता धर्मः पिता स्वर्गः पिता हि परमं तपः।
पितरि प्रीतिमापन्ने
प्रीयन्ते सर्वदेवताः॥

सर्वतीर्थमयी माता सर्वदेवमयः पिता
मातरं पितरं तस्मात् सर्वयत्नेन पूजयेत्।।

यन्मातापितरौ वृत्तं
तनये कुरुतः सदा
न सुप्रतिकारं तत्तु
मात्रा पित्रा च यत्कृतम्
– रामायणम्।

यतः मूलम् नरः पश्येत् प्रादुर्भावम् इह आत्मनः |
कथम् तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते ||

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
🤝शुक्रवासरः (02-03-18) पौर्णमी💝
✍प्रस्तावविषयः– रङ्गरञ्जनम्🕉

विविधवर्णानां सुशोभितसानिध्यं कस्य वा हृदयं न रञ्जयति। वर्णानाम् आस्वादनमेव खलु शिशुरपि तेषाम् आद्यदिनेषु कुर्वन्ति। शास्त्रदृष्ट्या कथं भवति वर्णानाम् अनुभवेति वयं जानिमः। प्रकाशस्य प्रतिफलनद्वारैव वस्तूनि दृष्टिगोचराणि भवन्ति। तत्र नेष्ट्रपटले पतितानां प्रकाशतरङ्गानाम् तरङ्गदैर्घ्यस्यानुसारं विविधवर्णा अनुभूयन्ते ।वस्तूनि प्रकाशेन सह कीदृशस्वभावं प्रदर्शयन्ति इत्यनुगुणं वर्णानाम् अपि भिन्नतां तीक्ष्णतां च द्रष्टुं शक्नुमः। प्रकाशप्रतिफलनं(reflection ), किरणवक्रता (diffraction) , प्रकाश विक्षेपः (dispersion) एतादृशानाम् अनेकानां प्रतिभासानां कारणैः वर्णविस्मयमेव भवति।
वर्णप्रपञ्च: सुविस्तृतः तथापि अस्माकं नेत्रयोः शक्तिर्न्यूना इत्यनेन वर्णाप्रपञ्चस्य पूर्णता मानवैः नैवानुभूयते। किमाधिक्येन यदस्ति तदेव परमविस्मयाविष्टः खलु। प्राथमिकवर्णानां योजनेन अनेकान् रङ्गान् निर्मातुं शक्यते।नीलवर्णः रक्तवर्णः हरितवर्ण एते वर्णाः प्राथमिकवर्णा इत्युच्यते एतेषां वर्णानां भिन्नभिन्नप्रकारसंयोजनेन इतरवर्णा अपि जायन्ते।प्रापञ्चिकप्रतिभासेषु विविधरङ्गाः दृश्यन्ते तदेव ननु अस्माकं कृते प्रकृतेः मोदप्रदानम्। उदयसूर्यस्य वर्णः, आकाशस्य नीलिमा, मेघानां वर्णः, समुद्रस्य वर्णः, पर्वतस्य हरिताभा, वृक्षाणां तथा पुष्पाणां चेतोहरवर्णा एतत्‌ सर्वं पश्यामश्चेत् सहजतया अस्माकं मनसि विविधभावनाः पूर्यन्ते।प्रकृतेः रङ्गरञ्जनं कवीनां कृते काव्यरचनायाः चित्रकाराय उत्कृष्टरचनायाः गायकेभ्यः मधुनगीतालापनाय नर्तकेभ्यः नृत्याविष्काराय
च प्रेरणां ददाति। अस्माकम् उत्सवेष्वपि वर्णानाम् आधिक्यं सर्वत्र दृश्यते एतेन वर्णप्रियाः लोकाः इति निर्णयं कर्तुं शक्नुमः। वर्णरहितं लोकं चिन्तयितुम् अपि न शक्यते। अतः सर्वेषां जीवने वर्णरञ्जनं भवतु इति प्रतीक्षामहे।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
👑शनिवासरः (03-03-18) द्वितीया🏨
✍प्रस्तावविषयः– राजभवनम्🏩

यत्र राजा निवसति तत् राजभवनम्। राजप्रासादः नतु केवलमेकं गृहं तत्तु महनीयं हर्म्यं भवतीति जानीमो वयम्। अस्माकं देशे अधुना राजभरणं नास्ति तथापि पौराणिकस्मरणार्थं देशे तत्र तत्र पुराणहर्म्याणि संरक्षितानि। प्रायः सर्वेषु राज्येषु एतादृशानि राजभवनानि सन्ति। विदेशेषु अधुनापि हर्म्याणि राजप्रशासनमपि अस्ति। कर्णाटकराज्ये मैसूरुनगरे प्रसिद्धं राजभवनम् अधुनापि सुरक्षितं सुन्दरं च वर्तते एतत्‌ मैसूरु पालस् इति विश्वप्रसिद्धम्। राजप्रशासनकालस्य प्रासादाः दुर्गाणि च अधुनाऽपि अस्माकं देशस्य शासनकेन्द्रत्वेन तिष्ठन्ति।

हर्म्यपृष्ठं समारूढः काकोऽपि गरुडायते -इति सुभाषिते।
पुरा राजभवनम् अद्यतनीयस्य संसद्भवनस्य स्थाने आसीत् यत्र शासनकेन्द्रद्वारा जनानां समस्याः निवार्यन्ते स्म।
राजभवनानि वास्तुविद्यायाः तथा शिल्प-चित्रकलायाः उत्तमस्थानानि सन्ति । आधुनिककालस्य यन्त्रविद्या अन्यशास्त्रसौलभ्यानि
तत्काले नासन् तथापि तस्मिन् कालस्य निर्माणवैभवं पश्यमाणानां जिज्ञासूनां मनसि अधुनापि नितराम् आश्चर्यं जनयति इत्यत्र नास्ति शङ्का । एवं चिन्तयामश्चेत् प्रत्येकं राजहर्म्यम् एकैकं चरित्रपुस्तकरूपेण परिगणितुं शक्यते।पुरातनकाले वातावरणपरिवर्तनानुसारम् उषितुं भिन्नं भिन्नं भवनानि निर्मितवन्तः राजानः। सुन्दरम् उद्यानं विशालं प्राङ्गणम् अतिथीनां स्वीकरणार्थं सभा महिलानां कृते भिन्नविभागः अन्तपुरम्। शयनप्रकोष्ठाः विशालपाकशाला रहस्य प्रकोष्ठाः भूगर्भमार्गाः एतादृशसंविधानानि प्रायः सर्वेषु राजभवनेषु भवन्ति। एतादृशानां चरित्र स्मारकानाम् अवलोकनेन पुरातनकालस्य संस्कृतिं वैभवं च ज्ञातुं शक्नुमः तादृशम् अवसरं सर्वे सम्यग् उपयोगं कुर्युः।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
🧛🏿‍♂रविवासरः (04-03-18) तृतीया🧞‍♂
✍प्रस्तावविषयः– राक्षसः🧚🏿‍♂

राक्षसो नाम वेदपुराणेतिहासेषु वर्णितेषु एको भूतविशेषः। राक्षसाः दानवानाम् अपेक्षया नीचतरो भवति। आसुरीक-पैशाचिक-नीचस्वभावा एव राक्षसानाम्। तै इतराः नितरां भीताः जायन्ते।निरुपद्रवसाधूनामपि आक्रमणं राक्षसगुणः।

कौणपः, क्रव्यात्, क्रव्यादः, अस्रपः, आशरः, रात्रिञ्चरः कर्व्वूरः निकषात्मजः यातु-धानः , पुण्यजनः नैरृतः यातु , रक्षः, सन्ध्यावलः , क्षपाटः, रजनीचरः, कीलापाः, नृचक्षाः, पलाशी, पलाशः, भूतः , नीलाम्बरः, कल्माषः, कटप्रूः, अगिरः, कीला- लपाः, नरधिष्मणः एतानि सर्वाणि पर्यायपदानि राक्षसस्य।
राक्षसानां विहारं
सूर्य्यलोकस्य अध एव भवति ततोपरिभागगमने तेषां सामर्थ्यं नास्तीति पुराणेषु सूचितं वर्तते। कालान्तरे राक्षस-असुर शब्दयोः प्रयोगः तत्र तत्र समानार्थेष्वपि जातः। सत्ययुगान्ते ब्रह्मणः निद्रासमये एव राक्षसानां जननं तदानीमेव ब्रह्माणं खादितुं ते प्रयत्नं चक्रुः ब्रह्मरोदनं श्रुत्वा विष्णुः तत्रागत्य तेषामुपरि आक्रमणं कृतवान् अनेन ते पलायनं कृत्वा भूतले अभयं कृतवन्त इत्यपि कथा श्रूयते।राक्षसाः विरूपिणः नेत्रे अग्निः मुखे दंष्ट्राकरालानि च भवन्ति तेषाम्। राक्षसी इति स्त्रीलिङ्गे। लङ्केशः रावणः रामायणकथासु राक्षसानाम् अधिपतिरासीत्। राक्षसानां भोजनं मृगमांसं मनुष्यपिशितं रक्तं क्रिमिकीटा इत्यादिकं भवति।अवश्यानुसारं यथेष्टं विविधमायाविद्याः तैः क्रियन्ते। इतिहासपुराणेषु मारीचः, बक, सुबाहुः, शूर्पणखा, खरः इत्यादीनाम् अनेकानां राक्षसानां कथाः दृश्यन्ते।अद्यत्वे मनुष्याणां मध्येऽपि केचन राक्षसगुणान् दर्शयन्ति तादृशाः सदावर्जिनियाः।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
🌂सोमवासरः (05-03-18) चतुर्थी🕉
✍प्रस्तावविषयः– यज्ञोपवीतम्💫

यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात्।
आयुष्यमग्रं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः।।

उपवीतम् इत्युक्ते सूत्रं यज्ञसंबद्घं सूत्रं यज्ञोपवीतम्। हैन्दवानां मध्ये ब्राह्मणाः क्षत्रियाः वैश्याश्च उपनयनसंस्कारोत्तरं यज्ञोपवीतं धरन्ति। प्रायः पुरुषाणां कृते एव यज्ञोपवीतं भवति। वामस्कन्धस्योपरि शरीरस्य दक्षिणभागम् अतिवृत्य तिष्ठति यज्ञोपवीतम्।पवित्रसूत्रधारणेन ब्रह्मचर्यस्यारम्भः भवति। कार्पासेन वा कुशेन वा ब्रह्मसूत्रस्य निर्माणं क्रियते तस्मिन् ब्रह्मविष्णुमहेश्वराणां प्रतीकत्तवेन तन्तुत्रयं भवति। पवित्रबन्धनेन एव द्वयोः अग्रयोः बन्धः क्रियते निर्माणसमये गायत्र्यादि वेदमन्त्राणां जपोऽपि भवति। छुरिकया वा कर्त्तर्या वा ब्रह्मसूत्रस्य कर्तनं सर्वदा निषिद्धमेव। विविधसम्प्रदायानुसारं यज्ञोपवीते तथा तस्य धारणे परिवर्तने च भिन्नतां द्रष्टुं शक्यते। ब्रह्मसूत्रेषु सूत्रत्रयस्य कारणोऽपि विभिन्नं उक्तम्। गायत्री – सरस्वती -सावित्री एतासां देवतानां सूचकार्थानि, सत्- चित्- आनन्दसूचकानि सत्त्वरजतमोगुणप्रतीकानि एवं बहुविधानि प्रोक्तानि। यज्ञोपवीतधारिणः शुध्दचित्ताः भवेयुः। परब्रह्मसूचकं सूत्रमिदं परमतत्त्वावबोधनात्मकं स्यात्। ऋषीणां कृते तर्पणसमये तथा स्त्रीपुरुषयोः सङ्गमसमये यज्ञोपवीतं मालासदृशं करणीयम् इति शासनम् अस्ति निवीतम् इत्येव अस्य नाम। एवं पितृयज्ञे प्राचीवीतरूपेण धारणं भवति। दैवीककार्येषु उपवीतरूपेण च तत्र परिवर्तनं किमपि न भवति।विशेषयज्ञानुष्ठाने ब्रह्मसूत्रेण सह उत्तरीयस्य धारणं च क्रियते। यज्ञोपवीतस्य नवतन्तवः नवतत्त्वानां प्रतीकमेव यथा –

प्रणवः (ॐकारः)
‌अग्निः
नागः
सोमः
पितृदेवः
प्रजापतिः
वसवः
यमः
देवाः
पुरातनकाले स्त्रियः यज्ञानुष्ठानार्थं पत्या सह यागशालायां यज्ञोपवीतधारणं कुर्वन्ति स्म किन्तु तथा अद्यत्वे न दृश्यते।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
👅मङ्गलवासरः (06-03-18) पञ्चमी👩🏻‍⚕
✍प्रस्तावविषयः– वैद्यालयगमनम्👨🏻‍⚕

निरामयजीवनमेव सर्वेषाम् इच्छा तथापि पाञ्चभौतिकशरीरमिदं निरन्तरं रोगग्रस्तं भवतीति लोकसत्यम्। आहारशैल्या जीवनशैल्या वातावरणप्रतिकूलतया च रोगाः जायन्ते।
पूर्वजन्मकृतम् पापं व्याधिरूपेण बाधते इत्यपि वदन्ति केचन भवतु नाम कारणानि बहूनि भवन्ति किन्तु रोगमुक्त्यर्थं चिकित्सा करणीया एव ननु ।चिकित्सा पूर्णमनसा एव करणीया तर्हि्येव सा फलदा भवति। चिकित्सापद्धतयः नैकाः सन्ति तथापि अस्माकं देशे किञ्चित् गृहवैद्यं कृत्वा नवतिप्रतिशतजनाः रोगशान्त्यर्थम् आदौ स्वयमेव प्रयत्नं कुर्वन्त्येव तदनन्तरमेव वैद्यालयगमनचिन्ता तैः क्रियते।सन्ति तत्र कारणानि धनव्यये अनिच्छा औषधषु वैद्येषु च अविश्वासः भयम् तथा अन्यानि कारणान्यपि स्युः तथापि अन्ततोगत्वा अन्यथा रोगशमनं नास्ति इति मत्वा प्रायः सर्वे वैद्यालयं गमिष्यन्ति।विलम्बावस्थायां वैद्यालयगमनं रोगमूर्छायाः कारणं भवति। रोगस्य अल्पे शान्ते एव बहवो जनाः रोगं वैद्यालयं वैद्यम् औषधं च विस्मरन्ति त्यजन्ति च अनेन रोगाणां पुनरागमनाय अवस्थाऽपि जायते। आरोग्यपरिरक्षणमेव चिकित्साया अपेक्षया वरतरम् इति शास्त्रमतम् तर्हि तदर्थम् पूर्वमेव वैद्यालयं गत्वा स्वस्य शारीरिकावस्थायाः स्थितिं ज्ञात्वा जीवने भक्षणपद्धत्यां च परिवर्तनम् आनेतुं शक्नुमः खलु। अद्यत्वे एषा पद्धतिरेव बहुमतेन अङ्गीकृता एतदर्थं सन्ति बहुपरीक्षाः तत्रापि धनस्यापि आवश्यकता विद्यते।आजीवनसम्पादनं वैद्यालयजीवनेन रिक्तं भवतीति दुःखसत्यम्। दरिद्राणां कृते उत्तमचिकित्सा अधुनापि अप्राप्या एव। रोगवेलायां उपयोगार्थं धननिक्षेपः जीवनस्य आधारभूतो जातः। वैद्यालयगमनं प्रायः कोऽपि न इच्छति अतः निरामयसिद्ध्यर्थं श्रद्धां दद्याम। सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
✈बुधवासरः (07-03-18) षष्ठी🚆
✍प्रस्तावविषयः– यात्रासम्भारः🚌

सञ्चारप्रियो हि मानवाः

यद्यद् दृष्टं तत्तत् सुन्दरं
यद्यद् द्रक्ष्यामि तत्तत् सुन्दरतमम् एषैव भावना सर्वेषां सञ्चारप्रियाणां मनसि सदा उद्भवति।
प्राचीनकालस्यापेक्षया ईदानींतनकाले प्रयाणं सुखकरं सरलं च। यान्त्रिकवाहनानां वर्धनेन यात्रसमयः न्यूनो जातः।पूर्वं यात्रा इत्युक्ते कष्टकरं कार्यम् अत यात्राप्रारम्भे लक्षणानि दृष्ट्वैव प्राचीनकाले जनाः यात्रां कुर्वन्ति स्म।

सम्मुखे रजकं पश्चात् क्षुरिणं यदि पश्यति ।
न गन्तव्यं तदा तस्मात् तैलवाप्यग्रगोऽशुभः ॥

मृगाहिकपिमार्ज्जारश्वानः शूकरपक्षिणः ।
नकुलो मूषिकश्चैव यात्रायां दक्षिणे शुभाः ॥

विप्रकन्या शवो रुद्रशङ्खभेरीवसुन्धराः। जम्बुकोष्ट्रखराद्याश्च यात्रायां वामके शुभाः ॥

~ एवं सन्ति बहुविचाराः। तस्मात् ईश्वरस्मरणया एव यात्रारम्भः करणीयः।।

लोकानुभवप्राप्त्यर्थं यात्रा एका उत्कृष्टसाधना एव। आबालवृद्धाः यात्राम् इच्छन्ति। पूर्वसज्जतया एव यात्रा सफला पूर्णा च भवति।तर्हि यात्रासम्भारः महत्वपूर्णोऽस्तीति पुनः न वक्तव्यं ननु। यात्रायाः पूर्वं किं किं चिन्तनीयं करणीयम् इति पश्याम।

✒ कुत्र किमर्थं कदा गमिष्यति इति पूर्वनिश्चितं भवेत्।

✒ गमनाय उत्तम मार्गः कः वाहनं किम् इत्यपि जानीयात्।

✒ वाहनस्य सज्जतां वाहनचालनं च द्वयमपि चिन्तयेत्।

✒ विनोदयात्रा अथवा तीर्थयात्रा भवतु तस्यामेव यात्रायां कुत्र कुत्र गन्तुं शक्नुमः तत्रस्थमुख्यस्थानानि कानि कानि इति अवश्यं ज्ञातव्यम् यतः दूरस्थं स्थानं वारं वारं गन्तुं कष्टमेव । अनेनैव यात्रायाः सफलतां प्राप्नोति।

✒ गमनात् पूर्वं निश्चितस्थलस्य सन्दर्शनाय उचितसमयः वा इति चिन्तयन्तु। वृष्टिकाले गमनीयस्थानं ग्रीष्मकाले आकर्षकं न स्यात् विपरीतरीत्यापि।

✒ कानि कानि वस्तूनि आवश्यकानि कति दिनानि आवश्यकानि इत्यपि चिन्तनीयम्।

✒ तत्रत्य भोजनस्य तथा वासस्थानस्य ज्ञानं आदौ एव प्राप्नोतु।

✒ कियत् धनम् अपेक्षितम् इति परिगणयतु धनं सुरक्षितं भवतु। अपिच अत्यधिकं धनं न नयेत् तत्र एटिएम् इत्यादीनां प्रयोगः करणीयः।

✒ अत्यावश्यकानि वस्तूनि एवम् औषधानि पूर्वमेव सिद्धानि भवेयुः।

✒ वस्त्राणि वातावरणानुगुणानि योग्यानि च भवेयुः।

✒ अन्तर्जलद्वारा वा पुस्तकानां साहाय्येन वा गमनस्थलस्य विवरणं प्राप्नोतु।

✒ यात्रानुभवलेखनार्थं पूर्वसज्जता स्यात्। अस्माकं लेखनम् अन्तर्जालादि सामूहिक माध्यमेषु स्थापयामश्चेत् बहूनाम् उपकाराय भविष्यति कदाचिद् अस्माकमेव पुनरास्वादकदायकानि भवन्ति एतादृशानि लेखनानि।

✒ चित्राणि स्वीकर्तुम् इच्छन्ति चेत् चित्रग्राह्याः प्रतिविधानं कुर्युः।कालान्तरे चित्राणि वारं वारं दृष्ट्वा यात्रस्मरणं कर्तुं शक्यते एवम् अन्यान् प्रेरयितुमपि शक्यते।

✒ सहयात्रिकानां मध्ये चर्चा आशयविनिमयं च निरन्तरं भवेत् अनेन यात्रायाम् अनपेक्षितकलहानां विचारवैपरीत्यानां निवारणं शक्यम्।

✒ यात्रायाम् अपरिचितानां विश्वासः किञ्चित् जागरूकता एव करणीयः नोचेत् वञ्चिताः भवितुम् अर्हन्ति।

✒ नियमपालने एवं सन्दर्शकानां कृते स्थापितेषु सूचनसन्देशेषु अवधानं दद्यात्।

✒ यात्रायां यथेष्टं शुद्धजलं पिबतु अनेन अरोगतां तथा उत्साहं च प्राप्येते।

प्रत्येका यात्रा जीवने नव्यं नवम् अनुभवं ददाति तस्मात् यात्रायाः स्मरणा नवोर्जदायिनी भवति।सञ्चारप्रियानां प्रियजनानां पुरतः यात्रानुभवं सविस्तरं उपस्थापयाम।।

सर्वेषां यात्रा शुभयात्रा भवतु।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
💐गुरुवासरः (08-03-18) सप्तमी👩🏻
✍प्रस्तावविषयः– भारतीय-पाश्चात्य-स्त्रियोः भेदः👩‍🎤

भारतस्त्रीणां भावशुद्धिः विश्रुता एव। प्राचीनकालादेव भारते स्त्रियः पूज्या एवासन्। यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफलाः क्रियाः इत्यादीनि स्मृतिश्रुतिवाक्यानि स्त्रीत्त्वस्य महिमां घोषयति। भारतसंस्कारे एव परब्रह्मस्वरूपिण्याः देव्याः पूजनं दृश्यते। देवीदेवाः तुल्यप्राधान्येन आभारतीयैः पूज्यन्ते।
नार्यः सकलगुणविचित्रा इत्येव भारतीयानां मतम्। भारतं लोकाय प्रदत्तेषु अनेकेषु सद्विचारेषु कुटुम्बसङ्कल्पमेव मुख्यतमः तत्रैव खलु स्त्रीणां प्राधान्यं माता च भार्या च ते एव कुटुम्बस्य चालनशक्तिः तेयेव सर्वान् पोषयतः। एवं भारतकुटुम्बे नारीणां माहात्म्यं बहुधा द्रष्टुं शक्यते।

तत् किं पुत्त्रं धने रूपे सम्पत्तौ यौवनेऽथवा यद्भक्तिर्नास्ति कान्ते च सर्व्वप्रियतमे परे।।

यद्यपि अस्माकं समाजे पुरुषाणाम् आधिपत्यं दृश्यते तथाऽपि स्त्रीणां पूजनोऽपि दृश्यते। नारीणाम् उपरि आक्रमणं नीचतरमित्येव भारतीयचिन्तनम्।सर्वाणि आभूषणानि धृत्वा यदि स्त्रियः रात्रौ एकान्तमार्गे निर्भयेन गन्तुं शक्नुवन्ति तर्हि तदेव उत्तमराजशासनस्य लक्षणत्त्वेन नीतिशास्त्रेषु वर्णितम्। प्राचीनकालसदृशं नास्ति अद्य स्त्रियः समाजे तुल्यत्त्वेन तिष्ठन्ति।अधुना पाश्चात्यस्त्रीणां सदृशं भारतस्त्रीणामपि सानिध्यं शासन-शिक्षा-सैनिक-वैद्य -वैज्ञानिक क्षेत्रेषु स्त्रीणां द्रष्टुं शक्यते। तथापि अद्यापि केचन भेदाः भारतीय-पाश्चात्य-स्त्रियोः
दृश्यन्ते। भारतस्त्रियः कुटुम्बचिन्तने धर्माचरणे च प्राय इतोऽपि श्रद्धावत्यः भवन्ति। पतिपुत्राणं पालनं निषेधं कर्तुं ताः न शक्नुवन्ति। भारतीयदर्शनानुसारं विवाहानन्तरं स्त्री धर्मपत्नी भवति वेदोक्ताः क्रियासु तासां भागग्रहणं सर्वदा अस्तिरेव। धर्मानुष्ठानार्थं पत्नी धर्मपत्नी। भारतीयस्त्रियः तासां पातिव्रत्यपालने निष्ठां प्रदर्शयन्ति नास्ति तादृशं किमपि पाश्चात्यदेशेषु। भारतस्त्रिय अस्माकं संस्कृतेः रक्षणं कुर्वन्ति वेषभूषायां भारतस्त्रीणां श्रद्धा अधिका भवति।

नास्ति स्त्रीणां पृथक् यज्ञो न व्रतं नाप्युपोषणम्
पतिं शुश्रूषते यत्तु
तेन स्वर्गे महीयते।।

पतिसेवा व्रतं स्त्रीणां पतिसेवा परं तपः। पतिसेवा परो धर्म्मः पतिसेवा सुरार्च्चनम्।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
💐शुक्रवासरः (09-03-18) सप्तमी🏩
✍प्रस्तावविषयः– नूतनगृहनिर्माणनम्🏠

अन्नं जलम् आवासः त्रयमपि सर्वेषाम् जन्तूनां कृते अत्यन्तापेक्षितमेव। प्रपञ्चे सर्वेप्राणिनः तेषां वासव्यवस्थां न रचयन्ति तथापि सर्वे सुरक्षितस्थानम् इच्छन्ति इति द्रष्टुं शक्नुमः। पक्षिमृगाः प्रायः गुहासु वृक्षेषु कोटरेषु वा निवसन्ति पूर्वं मनुष्याः तथैव आसन् यदा ते आधुनिकाः जाताः तेषां प्राकृतभावा: लुप्ताः तदारभ्य वासार्थं गृहाणां निर्माणम् आरम्भं कृतवन्तः। अद्य मनुष्याः प्रायः तेषां धनस्य भूरिभागं गृहनिर्माणे व्ययीकुर्वन्ति। स्वस्य धनस्थितिम् अनुगुणं समुचितालयं सर्वे इच्छन्ति। सन्ति बहवः अंशाः गृहनिर्माणकार्येष्वपि।

‌👉 गृहनिर्माणार्थं पर्याप्तभूमिः आवश्यकी। स्थले जलस्य सौकर्यं भवेत्।

👉 निर्माणस्य पूर्वं गृहनिर्माणनियमान् जानीयुः। नियमपालनेन भाविकाले सर्वकारस्य पक्षतः समस्या न भवन्ति।

👉 स्वस्य धनस्थितेरनुसारं गृहनिर्माणं कुर्यात् तेन ऋणस्य अधिकबाधा न भवेत्। निर्मिते गृहे सुखेन उषितुं शक्यन्ते ।

👉 भवननिर्माणार्थं विदग्धजनानाम् उपदेशं स्वीकुर्यात्। समीपभविष्यकालस्य आवश्यकतायाः चिन्तनमपि भवतु।

👉 गृहनिर्माणस्य विविधघट्टेषु कुटुम्बजनानां मध्ये चर्चा भवेत् अनेन कुटुम्बबन्धोऽपि दृढतरो भवति।

👉 उत्तमानि वस्तूनि उपयुज्य निर्माणं भवेत् तथापि अनावश्यरूपेण धनस्य अधिकं व्ययं न करणीयम्।

👉 विशालसदनमेव उचितम् इति चिन्ता त्यक्तव्या सदा अस्माकं कृते अनुयोग्यगृहमेव सुखं शान्तिं च प्रदास्यति।

👉 सर्वं सम्यक् विचिन्त्य निर्माणं कुर्यात् वारं वारं परिवर्तनेन समय‌धननष्टौ भविष्यतः।

एवं प्रकारेण शास्त्रीय रीत्या वास्तुकलानुगुणं निर्मिते योग्यगृहे जनाः सामोदं उषितुं शक्यन्ते।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
🧚🏻‍♀शनिवासरः (10-03-18) अष्टमी👩‍🎤
✍प्रस्तावविषयः– चलचित्रनायिका🧛🏻‍♀

या नयति सा नायिका चलनचित्रे मुख्यस्त्रीकथापात्ररूपेण या अभिनयति सा चलनचित्रनायिका इति वयं जानीमः। कथायाः गतिः नायिकानायकयो आधारेण एव भवति। प्रायः चलनचित्रेषु नायकानाम् एव मुख्यत्वं भवति तथापि सन्ति बहूनि चलनचित्राणि येषु स्त्रिय एव मुख्यकथापात्राणि अर्थात् स्त्रीणाम् आधारेणैव कथायाः गतिर्भवति । चलनचित्रं नाटकम् इत्यादीनि कलारूपाणि समूहस्य तथा कालघट्टस्य परिछेदरूपेण एव परिगण्यन्ते तर्हि कथापात्राण्यपि तदनुगुणं भवन्ति। अद्यत्वे स्त्रियः समाजस्य प्रमुखमेखलायां बहुत्र सन्ति अतः चलनचित्रेष्वपि अनुगुणप्रतिफलनम् दृश्यते।नायिका रूपवती अभिनयचतुरा च भवितव्यम् । चलनचित्रे गान-नृत्यवेलायां नायिकायाः प्राधान्यम् इतोऽपि वर्धते। पूर्वं एतादृशावसरेषु नायिकानां लास्यप्रकटनं अत्यधिकं भवति स्म किन्तु अद्यत्वे तथा नास्ति तथापि भवति। भारतीयचलनचित्रक्षेत्रे नैकाः प्रतिभाशालिन्यः नायिकाः सन्ति ताः रूपलावणैः तथा तासाम् अभिनयचातुर्यैश्च विश्वप्रसिद्धाः सन्ति।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
🌿रविवासरः (11-03-18) नवमी🌴
✍प्रस्तावविषयः– आम्रवृक्षः🌳 🍑

लोके वृक्षाः बहुविधाः सन्ति तेषु फलवृक्षाः जनप्रियाः यतः ते छायया सह मधुरफलान्यपि ददति। आम्रवृक्ष एतादृशेषु फलवृक्षेषु प्रियतरवृक्षः। आम्रफलं लोकप्रियं प्रसिद्धं च। आम्रस्य जन्मदेशोऽस्माकं भारतमेव अतयेव आम्रफलम् अस्माकं देशीयफलम् जातम्।आम्रफलं फलानां राजा इत्युच्यते। विश्वे भारतमेव आम्रफलोत्पादने अग्रे तिष्ठति लोकविपण्याम् ८० प्रतिशतम् आम्रफलानि भारतादेव।
श्रीलंका चीना मलेषिया तायिलाट् बर्मा इत्यादि देशेष्वपि आम्रवृक्षाः सन्ति तथापि भारतस्य पूर्वोत्तरेषु प्रदेशेषु एव आम्रस्य उद्भवस्थानम् इति विश्वासः। आम्रफलेषु विविधप्रकाराणि आम्रफलानि सन्ति तेषां रुचिभेदाः गुणाश्च विभिन्नाः। देशे विभिन्नराज्येषु वाणिज्यार्थम् आम्रकृषिं कुर्वन्ति कृषकजनाः। कोमलाम्रफलानि उपयुज्य अवलेहस्य तथा संधानिकायाः निर्माणम् अत्यन्तं रुचिकरं भवति। आम्रफलानि उपयुज्य प्रादेशिकरीत्या जनाः भिन्नभिन्नखाद्यपदार्थानां निर्माणं कुर्वन्ति।केरलशैल्या मांपष़पुलिश्शेरी इति कश्चन प्रसिद्धम् आम्रक्वथितं जनाः अन्नसहितं भक्षयन्ति।

रामायणमहाभारतग्रन्थयोः कथासु आम्रवृक्षाणां फलानां च सूचना दृश्यते। चरकसंहिता सुश्रुतसंहिता इत्यादिषु आयुर्वेदग्रन्थेषु आम्रस्य ओषधगुणस्य प्रतिपादितम् विद्यते। पुरातनकाले भारतमागतानां बहूनां वैदेशिकयात्रिकानां यात्रानुभवलेखनेषु आम्रसंबद्घपरामर्शं द्रष्टुं शक्यते।आम्रफलोत्पत्ति उष्णकाले एव भवन्ति।पूर्णरूपेण विकसितानि अपक्वानि आम्रणि सूक्ष्मतया भूस्पर्शाेन विना स्वीकृत्य पश्चात् जलेन सम्यक् प्रक्षाल्य वस्त्रेण समार्ज्य कृत्रिमपक्वफलप्राप्यर्थं शुष्कतृणसञ्जये वा शणस्यूते वा स्थापयित्वा मधुराम्रफलानां निर्माणं कुर्वन्ति जनाः। यथा वृक्षः तथा फलम् आम्रफलेषु सा एव स्थितिः रूपषु वर्णेषु गुणेषु च तानि विभिन्नानि। वृक्षभेदभावात् ४ शतिमानतः (4 cm)२५ (25 cm) शतिमानपर्यन्तं दीर्घाणि फलानि भवन्ति दीर्घिकं गोलकं वर्तुलकं ज्वालामुखम् एवं रूपाण्यपि भवन्ति भिन्नानि। एवं भारते एव सहस्राधिकाः वैविध्याम्रवृक्षाः सन्तीति वृक्षगवेषकानां मतम्।आम्रवृक्षाणां कृते आम्रप्रियानां नामकरणचातुर्यम् अतिविस्मयावहमेव।

आलि पसन्त् अब्बासि मुण्डप्प अय्यप्पशेट्टि एतानि जनानां नामसंबद्घानि आम्रफलानि।

चरित्रपुरुषाणां स्मरणार्थं शिवजी पसन्त शाहजहानः जहान्गीर इत्यादीनि नामानि। रूपानुसारं गुण्डु गुम्मडि गण्णेरू लाडु इत्यादीनि नामानि एतदतिरिच्य कृषकाः तेषां परीक्षणेन विकसितानाम् आम्रवृक्षाणां कृते इष्टनामानि प्रदत्तवन्तः। एवं रीत्या अवलोकयामश्चेत् आम्लस्य वैविध्यं महत्त्वपूर्णं विशालं चेति वक्तुं शक्नुमः तस्मिन् क्षेत्रे इतोऽपि श्रद्धया शास्त्रीयवर्गीकरणं भवितुम् अर्हति। आम्रस्य जनप्रियतायाः कारणेन अद्य आपणेषु विविधानां मारकरासप्रयोगानां समेतम् आम्राणां वाणिज्यं भवतीति भीतिजनकं सत्यम् एतादृशानि फलानि आरोग्यहानिकारकाणि इति ज्ञात्वा तानि वर्जयेम।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः
(वाट्साप् सदः)
🌺सोमवासरः (12-03-18) दशमी🕉
✍प्रस्तावविषयः– गुरुसेवा🙏

अहिंसा गुरुसेवा च निःश्रेयसकरं परम् ॥

ज्ञानेन मुक्तिः न तु चन्दनेन तर्हि ज्ञानार्थं किं करणीयम् तदर्थमेव करणीया गुरुसेवा। पूर्वं विद्यार्थिनः गुरुकुले उषित्वा गुरोः सेवां कृत्वैव वेदशास्त्राध्ययनं कुर्वन्ति स्म। सकलविद्यानाम् अधिपतिः साक्षात् जगदीश्वरः भगवान् विष्णुः स्वयमेव कृष्णावतारे सान्दीपने आश्रमे उषित्वा गुरोः सेवां कृत्वा लोकोपदेशनदृष्ट्या विद्यार्जनं चकार।गुुरुदक्षिणारूपेण मरणं प्राप्तवन्तं गुरुपुत्रं यमालयाद् आनीय गुरवे समर्पितवान् च।
गुरोरनुग्रहेणेव पुमान् पूर्णः प्रशान्तये इत्येव भगवतः वाक्यम्।
वर्षाणि अधीत्यापि प्रियमित्रस्य सुदामनः दर्शनमात्रेण गुरुकुलवासस्य तथा गुरुसेवायाः वर्णनमेव भगवता प्रोक्तम् इत्यपि स्मरामः।।

सूर्यपुत्रेण कर्णेन धनुर्विद्यार्जनार्थं भगवतः परशुरामस्य महती सेवा कृता कर्णस्य गुरुसेवा अतीवविश्रुता आसीत्।।

निषादकुलजात एकलव्योऽपि गुरुणा द्रोणेन तिरस्कृतः सन्नपि तमेव गुरुं मत्वा तस्यैव पूजां कृत्वा धनुर्विद्याभ्यासं कृतवानिति गुरुपूजनस्य अपरा एका प्रसिद्धा कथा।।

नास्ति पितृसमो देवो नास्ति मातृसमो गुरुः तयोः प्रत्युपकारोऽपि
न कथञ्चन विद्यते । तयोर्न्नित्यं प्रियं कुर्य्यात् कर्म्मणा मनसा गिरा ॥

तर्हि मातापित्रोः सेवा अपि गुरुसेवातुल्या एव।।

निग्रहानुग्रहे शक्तो गुरुरित्यभिधीयते।।

सर्व्वदेवमयो गुरुः।
अतः जीवनस्य अभिवृद्ध्यर्थं प्राप्तविद्यानां संसिद्ध्यर्थं गुरचरणकमलयो: पूजां करवाम।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
😾रविवासरः (01-04-18) चैत्रकृष्णप्रतिपदा🤒
✍प्रस्तावविषयः– निन्दा🤬

इतरेषु जुगुप्साभावः निन्दा इति कथ्यते।सज्जनैः निन्दाभावः त्यक्तव्यः। निन्दया पापमेव प्राप्नोति। प्रपञ्चे सर्वेषु प्राणिषु ईश्वरचैतन्यं विद्यते अतः ते कदापि निन्दार्हो न भवतीति भावयन्ति बुधाः। गुरुनिन्दा ईश्वरनिन्दा वेदनिन्दा सर्वदा आत्मनाशायेव भवति।निन्दा मानवानाम् एव हीनमानोभाव:। यत्र इतराः निन्दाप्रस्तावं कुर्वन्ति सज्जनाः तत्र स्थातुमेव न इच्छन्ति इतितु सत्यम् । निन्दया मनसि शत्रुताभावोऽपि जायते तथापि पण्डिताः निन्दायां स्तुतौ च समभावेन तिष्ठन्तीति शास्रमतम् यथा तुल्यनिन्दास्तुतिर्मौनी इति गीतायाम्।

अपवादः, दुष्कृतिः, निन्दनम्, अवर्णः, आक्षेपः, निर्व्वादः, परीवादः, अपवादः, उपक्रोशः, जुगुप्सा, कुत्सा, गर्हणम्, गर्हा, कुत्सनम्, परिवादः, जुगुप्सनम्, अपक्रोशः, भर्त्सनम्, अववादः गर्हणा, धिक्क्रिया एतानि पदानि निन्दायाः समानार्थकपदानि।

परनिन्दा विनाशाय स्वनिन्दा यशसे परम् ॥ इति पुराणे तथापि आत्मनिन्दा अपि न करणीया।

वेदनिन्दां देवनिन्दां प्रयत्नेन विवर्ज्जयेत् ॥ तादृशेषु सङ्घेषु कदापि संलग्नो न भवेत्। सर्वत्र आदरभाव एव अस्माकं संस्कृतेः वैशिष्ट्यम् इति ज्ञात्वा तदनुगुणं व्यवहरामो वयम्।।

________________________________________________________________________________________________________________________________

07/04/2018

संभाषणविषयः –
🌞🌞🌞🌞🌞🌞🌞🌞🌞
ग्रीष्मः
🌞🌞🌞🌞🌞🌞🌞🌞🌞

धातुः – ग्रस्
भ्वा० सेट् आ० ; ग्रसु- [अदने]
ग्रसते

सूर्यम् केन्दीकृत्य भूगोलस्य भ्रमणपरिक्रमणस्य परिणामतः षट् ऋतवः सम्भवन्ति। सर्वे ऋतवः जीवजालस्य जीवने तेषां वर्धने च महत्त्वपूर्णाः सन्ति। ग्रीष्मर्तुः षट् ऋतुषु एकः। ज्येष्ठाषाढौ ग्रीष्मः यस्मिन् समये वयं अधिकम् उष्णम् अनुभवामः। सूर्यातपस्य प्रभावो ग्रीष्मकाले अधिको भवति इत्यनेन शरीरे निर्जलीकरणस्यापि अवस्था भवितुम् अर्हति अत उष्णकाले यथेष्टं जलं पिबामः। अस्मिन् काले सूर्यकिरणतीक्ष्णता अधिका भवति अतः शरीरं सूर्याघातात् रक्षयितुं श्रध्दा अपि दातव्या।बहुषु प्रदेशेषु ग्रीषे पेयजलस्यापि दौर्लभ्यं दृश्यते अनेन जनाः बहुकष्टम् अनुभवन्ति। कृषकैः सस्यानां सेचनार्थं जलाभावोऽ नुभूयते एतत्‌ सर्वं जलरक्षणस्य महत्त्वं बोधयति। अपिच वृक्षाः स्वयम् आतपे स्थित्वा परजनानां कृते शीतलिमां ददति खलु अतः वृक्षाणां वर्धनेन ग्रीष्मकालसमस्याः न्यूनीकरणीयाः। स्वास्थ्यार्थम् कटुरसयुक्तानि अत्युष्णदायकानि खाद्यानि अस्माभिः त्यक्तव्यानि। कलिङ्गफलसदृशानि रसपुष्टानिफलानि खादयित्वा शरीरं शीतलं कुर्मः। कार्पासवस्त्राणाम् उपयोगमेव ग्रीष्मकाले उचितं भवति। वर्षावर्षम् आगोलतापनं क्रमातीतरीत्या वर्धमानं अस्ति इत्यनेन भविष्ये काले ग्रीष्मकालः नितरामसहनियो भवतीति भयानकं सत्यमेव। दाहजलस्य दानेन अन्यप्राणिनामपि जीवरक्षा अस्माकमेव कर्तव्यम् । छात्राणां कृते विरामकालो भवतीति कारणेन ते अपि ग्रीष्मविषये बोधनीयाः। एवं सर्वं विचिन्त्य मधुर- आम्रपनसादिफल समृद्धग्रीष्मकालस्यापि आस्वादनम् अवश्यं कर्तुं शक्नुमः।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
💐सोमवासरः (09-04-18) चैत्रशुक्लनवमी☺
✍प्रस्तावविषयः– रेलयानमित्रम् 🤝

जीवने मैत्रीसम्पादनम् अनेकविधानि भवन्ति तेषु यात्रावेलायां मित्रसम्पादनमेकम्। रेलयानमाश्रित्य निरन्तरं बहवो जनाः कार्यस्थानं गच्छन्ति तादृशेषु यात्रावसरेषु परिचितानि मुखानि बहूनि भवन्ति। कालक्रमेण सम्भाषणद्वारा तथा परस्परचायादि पानीयानां विनिमयेन सुहृद्बन्धो जायते। एवं सुहृदः सुदीर्घयात्रायाम् अपि भवन्ति। अस्मिन्नवसरे जनाः परस्परं प्रायः राष्‍ट्रविषये अन्यसामाजिकविषये च चर्चां कुर्वन्ति। एवं निरन्तरपरिचयेन आत्मीयतां प्राप्नुवन्ति। किन्तु केचन जना अपरिचितानां मैत्रीं नेच्छन्ति तादृशाः यात्रावसरे तूष्णीम् उपविशन्ति। जनानां रुचिर्भिन्ना इत्येव स्यात् तत्र कारणं। अपरिचितानाम् उपरि पूर्णविश्वासं कृत्वा वञ्चिता: न भवेम। यथा अन्यमेखलासु तथा अत्रापि व्यवहारे श्रद्धा दातव्या सर्वैः।

न कश्चित् कस्यचिन्मित्रं
न कश्चिकस्य चिद्रिपुः । व्यवहारेण जायन्ते मित्राणि रिपवस्तथा ॥

यत्किमपि भवतु सज्जनमैत्र्या सर्वेषाम् औन्नत्यमेव सम्भवन्ति तथा दुर्जनसंसर्गात् विपरीतफलमपि भवति।अत आरम्भे एव मैत्रीभावो न त्यक्तव्यः यतः कः कस्य आत्ममित्रं भवतीति कालान्तरेण एव ज्ञायते। इत मन्दहासपूर्वकं सहयात्रिकं पश्यामः भवितव्यं भवत्येव।। 😄

यानि कानि च मित्राणि कर्त्तव्यानि शतानि च । पश्य मूषिकमित्रेण कपोता मुक्तबन्धनाः।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
🔍बुधवासरः (11-04-18) चैत्रकृष्णैकादशी🧐
✍प्रस्तावविषयः– अन्वेषणम् 🤔

जीवनं नाम अन्वेषणं जनाः किम् अन्वेषयन्ति इति प्रश्ने सति अनेकानि उत्तराणि भवितुम् अर्हन्ति। सामन्यतया जनाः जीवने सुखम् अन्वेषणं कुर्वन्तीति वक्तुं शक्नुमः नोचेत् औन्नत्यम् अन्वेषयन्ति इत्यपि वदामः। सुखाय अन्वेषणं नतु केवलं मनुष्याणां कार्यम् अपितु सर्वे जन्तवः स्वस्य सुखान्वेषणतत्पराः भवन्ति।
अपराधिनाम् कृत्यानि शास्त्रीयरीत्या अन्वेषणं कृत्वा नियमपालकाः तेषां कृते दण्डनम् दापयन्ति। तादृशान्वेषणानि अद्यत्वे प्रसिद्धानि।

मनुष्याणां जिज्ञासाकारणेन
अन्वेषणकथाः साहित्ये जनप्रियकथाः भवन्ति।
अस्माकं रामायणेऽपि सीतामातुः अन्वेषणमेव खलु कथायाः केन्द्रांशम्।

सृष्टे आरम्भकालादेव मनुष्याणाम् अन्वेषणतत्परतां द्रष्टुं शक्नुमः मनुष्याः सहजतया जिज्ञासवः ते आत्मान्वेषणतत्पराश्च भवन्ति। तेषां ब्रह्मावलोकधिषणा एतदेव वास्तविकम् आत्मान्वेषणम् इति भागवतादि पुराणेषु प्रतिपादितम्
पण्डिता अपि एतदेव कथयन्ति ।
जन्ममरणरहस्यान्वेषणं प्रपञ्चिक रहस्यतत्त्वानाम् अन्वेषणञ्च शास्त्रान्वेषणछात्राणां मुख्यं कार्यम् अस्ति। अस्माकं पूर्विकाः ऋषीश्वरा अपि निरन्तरम् आत्मान्वेषणे निरता आसन् भारतीयविचारानुसारं स्थूलप्रापञ्चिकविषयाः तथा सूक्ष्मानि आत्मतत्त्वानि द्वयमपि परस्परपूरकत्वेन परिगण्यन्ते स्म। ऋषयः सर्वे आत्मावलोनं कृत्वैव ज्ञानार्जनं कृतवन्तः। आधुनिकशास्रमपि विकस्वरमेव निरन्तरगवेषणद्वारा ऋषीणां ज्ञानसागरे शास्त्रस्यापि विलयं भवतीति निश्चयेन वक्तुं शक्यते। अस्मिन्नेवरीत्या पश्यामश्चेत् लोके सर्वत्रापि अन्वेषणमेव अस्तीति निर्णेतुं शक्नुमः।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
💐शनिवासरः (14-04-18) चैत्रकृष्णत्रयोदशी🌷
✍प्रस्तावविषयः– सीतान्वेषणम्🙏

रामरावणयुद्धस्य हेतुः सीतापहरणमेव
रामायणकथायां सीतान्वेषणमेव मुख्यकथाबिन्दुः। भगवान् विष्णुः धर्मसंस्थापनार्थं श्रीरामावतारं चकार श्रीरमस्य जननम् अयोध्यायां दशरथस्य पुत्ररूपेण एवासीत्। बाल्ये एव रामः महापरक्रमी नीतिमान् चासीत्। यौवने तस्य विवाहः मिथिलाराज्ञः पुत्र्या सीतया सह जातः।अथैकदा राज्याभिषेकवेलायां विधेः नियोगत्तवेन मन्थरया प्रेरितस्याः कैकेय्याः वरद्वययाचनेन राम अयोध्यां त्यक्त्वा सीतालक्ष्मणाभ्यां सह वनवासार्थं प्रस्थितवान्।
एकदा कपटमुनिवेषं धृत्वा लङ्कधीशः रावणः काननम् आगत्य सीताया अपहरणं कृतवान् तदानीं रावणानुचरं मारीचं हन्तुं रामः गतवान् आसीत् एवं रामम् अन्विष्य लक्ष्मणोऽपि गतवान् अतः सीतायाः रोदनं तौ न श्रुतवन्तौ। सीतायाः विरहेन राम अत्यन्तं खिन्नो जातः। दुःखितेन रामेण सर्वत्र स्वीतान्वेषणस्य आरम्भः कृतः। रावणः स्वस्य पुष्पकविमाने सीतां बलेन कर्षयन् लङ्कां प्रति गन्तुम् आरब्धवान् मार्गमध्ये रावणं निरोधुं जटायुः प्रयत्नं कृत्वा नितरां व्रणितो भूत्वा भूमौ पतितवान्। सीताम् अन्वेषयन्तौ रामलक्ष्मणौ पम्पानद्याः तीरे आञ्जनेयं मिलितवन्तौ ततः सुग्रीवेण मैत्रीं कृत्वा सीतान्वेषणार्थं वानराणां साहाय्येन सर्वत्र अटितवन्तः। जटायोः सहोदरेण संपातिना दत्तसूचनानुसारं सीताम् अन्विष्य रावणस्य लङ्कां गन्तुं वानराः निश्चयं कृतवन्तः।अन्ते सर्वशक्त आञ्जनेय एव दक्षिण महासमुद्रम् उल्लंख्य लङ्कां गत्वा सीतायै रामस्य अङ्गुलीयकं दत्त्वा तां समाश्वसयन् चूडामणिं स्वीकृत्य पुनरागतवान्। सीतायाः चूडामणेः दर्शनेन रामोऽपि सीता रावणस्य बन्धने एवास्ति इति निर्णयं कृत्वा रावणेन सह युद्धार्थं सर्वे निश्चयं कृतवन्तः। एवं सीतान्वेषणस्यानन्तरं घोरं युद्धं प्रवृत्तम्।।

उल्लङ्घ्य सिन्धोः सलिलं सलीलं
यः शोकवह्निं जनकात्मजायाः।
आदाय तेनैव ददाह लङ्कां
नमामि तं प्राञ्जलिराञ्जनेयम्।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
💐शुक्रवासरः (13-04-18) चैत्रकृष्णद्वादशी🌹
✍प्रस्तावविषयः– कान्तिः💥

कान्तिः नाम शोभा इत्यर्थः। यत्र प्रकाशस्य सानिध्येन या प्रभा दृश्यते सा कान्तिः। द्युतिः शुभा दीप्तिः भा भासा भाः श्रीः एतानि पर्यायपदानि कान्तेः।कान्तिषु ज्ञानकान्तिरेव श्रेष्ठा।
कान्तियुक्तानि वस्तूनि अस्मान् रञ्जयन्ति। प्रभारहितं रूपं तावददिकाकर्षकं न भवतीति सत्यम्। मानवाः प्रायः भूषणप्रियाः। ते भूषणैः स्वकान्तिं वर्धयितुम् इच्छन्ति। स्त्रियः भूषणानां सम्पादने उपयोगे च अग्रगण्याः।कान्तिः ऐश्वरस्य लक्षणत्त्वेन एव सर्वैः परिगण्यते। अस्माकं पुरातनकथासु तेजस्विनां पुरुषाणां तथा शोभनानां महिलानां च वर्णनं तत्र तत्र दृश्यन्ते। मन्त्रसाधनया एव ऋषयः साधकाश्च तेजोयुक्ताः भवन्ति नतु भूषणैः।
देवानां कान्तिः वर्णनातीता ते सहस्रकोटिसूर्यप्रकाशतुल्यं शोभन्ते।

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता।
यदि भाः सदृशी
सा स्याद्भासस्तस्य महात्मनः।।

इति गीतायां विश्वरूपदर्शनयोगे भगवतः कान्तेः वर्णनम्।
भारतीयानां मतानुसारं यत्र यत्र दिव्यत्त्वं प्रभावञ्च दृश्येते तत्र तत्र भगवतः चैतन्यम् अधिकं भवति इत्येव अनुमानम्।

सूर्यचद्रयोः प्रभा भगवदनुग्रहस्य लक्षणम् यथा गीतायां प्रभास्मि शशि सूर्ययो: तदर्थमेव स्यात् सूर्ये चन्द्रेच जनानां पूजाभावस्यापि हेतुः। सूर्यस्य प्रभायाः कान्तेश्च वृध्दिं इच्छन्तः सनातनधर्मानुयायिनो वयं नित्यम् उदायास्तमये सूर्यं नत्वा तस्मै दीपं समर्पयामः खलु।

भगवान् एव प्रमाणीकरोति यत्

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा।

तत्तदेवावगच्छ त्वं
मम तेजोंऽशसंभवम्।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
💝सोमवासरः (16-04-18) अमावास्या👌
✍प्रस्तावविषयः– सद्गुणाः👏

येषां न विद्या न तपो
न दानंज्ञानं न शीलं
न गुणो न धर्मः ।
ते मृत्युलोके भुवि भारभूता मनुष्यरूपेण मृगाश्चरन्ति।।

यस्मिन् गुणाः न सन्ति सः पशुतुल्यं जीवति।जनैः गुणाः पूज्यन्ते न तु अन्यत् किमपि। जीवने अस्माभिः कृतानि गुणकर्माण्येव अस्माकं कृते ख्यातिं शान्तिञ्च प्रदास्यन्ति। सज्जनानां संसर्गेन सद्गुणाः प्राप्यन्ते। कुटुम्बे यादृशी परिस्थितिः भवति तादृशी मनोकल्पना भवति बालकानाम्।धर्माचरणेन एव बालानां सद्गुणानां पोषणं साध्यम्।।

एवं समाजे अपि व्यक्तेः गुणानुसारमेव पूजार्हौ भवति न तु केवलम् उन्नतस्थानस्य आधारेण। प्रायः जनाः तादृशानां जनानां पुरतः श्रद्धादरं केवलं दर्शनार्थमेव प्रदर्शयेयुः नतु आत्मार्थभावेन एतदेव खलु सूचयति सुभाषितम्

उच्चासनगतो नीचः
नीच एव न चोत्तमः |
प्रासादशिखरस्थोSपि काकः किं गरुडायते||

सत्यं दया कारुण्यं धर्मबोधः परोपकारः परस्परविश्वासः एतादृशान्
देशकालातीतान् सद्गुणान् सदा वयं पालयामः। सद्गुणानां पालनेन सकलविधानां विभूतीनां सामीप्यं प्राप्तुं शक्नुमः। उदाहरणत्वेन एका कथा स्मर्यते मया।

एकस्मिन् देशे एको राजा आसीत्। नीतिमान् धर्म्मिष्ठ सः सम्यक् देशस्य पालनं करोति स्म अनेनैव तस्य देशः समृद्धश्चासीत्। अथैकदा नदीस्नानं कृत्वा राजप्रासादप्रत्यागमनसमये प्रासादतः काचित् सुन्दरी युवती आगतवती राजा आश्चर्येण तां पृष्टवान् भवती का इति। तदानीं तया प्रोक्तम् अहं धनदेवता अस्मि चिरकालम् अहम् एकत्र न वसामि अत अधुना भवतः देशात् निर्गच्छामि इति। एतत्‌ श्रुत्वा राजा विषण्णो भूत्वा अस्तु भवत्या इच्छानुसारम् भवतु इत्युक्त्वा अग्रे गतवान् तदा अपरा काचित् सुन्दरी बहिरागत्य महाराजम् उक्तवान् अहं सद्गुणानां देवता अस्मि मम सोदरी धनदेवता अधुनैव इतः गतवती अत अहमपि गच्छामि इति। अधुना राजा नितरां दुःखम् अनुभवन् अस्तु इति उक्त्वा तत अग्रे गतवान्। पुनरेका सुन्दरी प्रासादात् बहिरागत्य गन्तुं उद्युक्ता अभवत् कुतूहलेन राजा भवती का इति पृष्टवान् एतत्‌ श्रुत्वा सा अहं नीतिदेवता अस्मि यत्र सद्गुणदेवतायाः वासः तत्रैव भवति ममापि वास इत्युक्ता ततः गतवती। यदा नीतिदेवता अनतिदूरं गता तदानीमेव अपरा एका प्रासादात् आगतवती तदानीं राजा अतीव दुःखेन भूयोऽपि पृष्टवान् भवती अपि देवता वा? एतत् श्रुत्वा सा अवदत् अाम् अहं सत्यस्य देवता अस्मि यत्र मम सहोदर्यः वसन्ति तत्रैव ममापि स्थानम् अतः अहमपि गच्छामि इति। सत्यदेवता अपि देशं त्यक्त्वा गच्छति इति ज्ञात्वा राजा रोदनं कृत्वा तां नमस्कृत्य प्रोक्तवान् इतरदेवताः मां त्यक्त्वा गतवत्यः तदानीं सत्यगुण अस्तीति विश्वासेन एव अहं किमपि नोक्तम् अतः कृपया देवी अत्रैव स्थित्वा अस्माकं देश्स्य रक्षणं करोतु इति। राज्ञः सत्यभक्त्या प्रसन्ना सा देवता तत्रैव स्थास्यामि इत्युक्ते सति नीतिदेवता प्रत्यागतवती यत्र सत्यं तत्रैव स्थातुं शक्नोमि अत अहमपि अत्रैव भवामि इत्युक्त्वा राजभवनम् गतवती अचिरादेव सद्गुणानां देवता आगत्य उक्तवती सत्यनीतिभ्यां विना मम अस्तित्वमेव नास्ति एतत् श्रुत्वा धनदेवताऽपि आगत्य उक्तवती यत्र सत्यं नीतिः सद्गुणाः न भवन्ति तत्र मम वासः लोकोपकारकं न भविष्यति अपितु मम निवासेन दुष्टानां वर्धनमेव जायते। अत अहमपि भवतः देशे एव वसामि इति कथितवती। एतत्‌ श्रुत्वा राजा अतीव प्रसन्नो भूत्वा सर्वान् सद्गुणपालनस्य महत्त्वं अबोधयन् देशं परिपालितवान्।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
☺बुधवासरः (18-04-18) वैशाखशुद्धतृतीया🕉
✍प्रस्तावविषयः– अक्षयतृतीया⛳

वैशाखशुक्लतृतीया अक्षयतृतीया इति प्रसिद्धा अस्ति। अस्मिन् पुण्यदिने कृतानां पुण्यकर्मणां फलं कदापि न क्षीयन्ते इत्येव हैन्दवानां विश्वासः।

वैशाखे मासि राजेन्द्र शुक्लपक्षे तृतीयिका । अक्षया सातिथिः प्रोक्ता कृत्तिकारोहिणीयुता ॥ तस्यां दानादिकं पुण्यमक्षयं समुदाहृतं।।

– इत्यार्षवाक्यानि।

अस्मिन् तिथेः विषये बहुषु पुराणेषु प्रकीर्त्तितं वर्तन्ते।

अस्मिन्नेव पुण्यदिने बलरामस्य जन्मदिनम् इत्यपि विश्वासः।

जैनमतविश्वासिनोऽपि अक्षरतृतीयाया आचरणं कुर्वन्ति। विष्णुं पूजयित्वा दानादिकं कृत्वैव अस्मिन् दिने व्रताचरणं करणीयम् इति विष्णुधर्मसूत्रे प्रतिपादितम्। मत्स्य-नारद-भविष्योत्तरपुराणेष्वपि अक्षरतृतीयायां दानं व्रतं स्नानं पूजा होमः जपः पितृतर्प्पणं स्वाध्यायः एतादृशानि कार्याणि करणीयानि इति निर्दिष्टानि।

भविष्यपुराणे
अक्षयतृतीयाव्रतवर्णनम् एवं दृश्यते।

तस्यां (अर्थात् अक्षरतृतीयायां)यद्दीयते किंञ्चित्तत्सर्वं चाक्षयं भवेत् ।

अक्षरतृतीयादिने शिवपूजनं भगीरथस्मरणं गंगास्नानं पूजनञ्च विशिष्टतरमित्येव अस्माकं सङ्कल्पः। परशुरामस्य तथा बलरामस्य च
जन्मोत्सवरूपेणाऽपि अक्षयतृतीया परिगण्यते।

किन्तु अद्यत्वे शास्त्रज्ञानेन विना मूढभावनया केवलं सुवर्णलोहादि भौतिकानां वस्तूनां सङ्ग्रहार्थम् अस्मिन् पुण्यदिने जनाः व्यग्रतां प्रदर्शन्ति। पारमार्थिकं तत्त्वं विस्मृत्य तादृशाचरणेन शास्त्रोक्तरीत्या फलसिद्धिर्नभवति इति निश्चयेन जानीयाम।।

सर्वेषां कृते अक्षरतृतीयायाः शुभाशयाः

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
🕉शुक्रवासरः (20-04-18) वैशाखशुद्धपञ्चमी⛳
✍प्रस्तावविषयः– श्रीशङ्कराचार्यः🙏

श्रुतिस्मृतिपुराणानाम् आलयं करुणालयम्। नमामि भगवत्पादं शङ्करं लोकशङ्करम्॥

श्रीशङ्कराचार्यः साक्षात् परमशिवस्वरूप इत्येव सनातनधर्मानुयायिनाम् अस्माकं विश्वासः। भगवान् शङ्कराचार्यः सनातनधर्मस्य संस्थापनाय अवतारं चकार। आचार्य अद्वैतवेदान्तस्य प्रचारद्वारा अवैदिक चिन्तनानाम् इतरानां नास्तिकदर्शनानां खण्डनं सप्रमाणं कुर्वन् आभारतं धर्मप्रचारं कृतवानासीत् ।वेदोक्ताद्वैतदर्शनस्य युक्तियुक्तं प्रचारं कृत्वा जनसामान्यानां मध्येऽपि दार्शनिकजीवनाय प्रेरणां कृतवान् आदि शङ्कराचार्यः। भारते आविर्भूतानां दार्शनिकमहारथानां युगपुरुषाणां मध्ये श्री शङ्करस्य स्थानं महत्तमं वर्तते। आचार्यस्य जननं दक्षिणभारते केरले कालटि इति ग्रामे जातमिति पण्डितानाम् अभिप्रायः। बाल्ये एव अपारं बुद्धिवैभवं दर्शयन् शङ्करः सर्वेषां चित्तमचेरयत्। अतीवगूढाध्यात्मिकतत्त्वानां अवगमने एवं प्रतिपादने च अल्पे एव वयसि बालशङ्कर: समर्थोप्यासीत्। उपनिषदां ब्रह्मसूत्राणां भगवद्गीतायाश्च भाष्याणि रचयित्वा भगवान् भाष्यकार इति लोके प्रसिद्धो जातः। देवीदेवानां अनेकानि स्तोत्राणि लिखित्वा जनानां हृदि धर्मजागरणं चकार अद्यापि तानि स्तोत्राणि लोकप्रियाणि सन्ति। भारतस्य चतुर्षु भागेषु मठानां स्थापनद्वारा सनातनधर्मस्य अविच्छिन्नरुपेण प्रचारस्य व्यवस्थां कृतवान्। पुरि (पूर्वाम्नायमठः) द्वारका(पश्चिमाम्नायमठः) ज्योतिर्मठं(उत्तराम्नायमठः) शारदापीठं (दक्षिणाम्नायमठः)

मनोबुद्ध्यहंकारचित्तानि नाहं न च श्रोत्रजिह्वे न च घ्राणनेत्रे ।
न च व्योमभूमी न तेजो न वायुः चिदानंदरूपः शिवोऽहं शिवोऽहम् ॥

परमश्रेष्ठं शिवतत्त्वं सच्चिदानन्दस्वरूपं परमात्मनं ज्ञातुं जगद्गुरोः
शङ्करस्य अनुग्रहः भवतु इति प्रार्थये।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
⛳सोमवासरः (23-04-18) वैशाखशुद्धाष्टमी🏹
✍प्रस्तावविषयः– अयोध्यानगरम्🕉

श्रीरामजन्मभूमी अयोध्या हैन्दवानां सप्तमोक्षनगरीषु अन्यतमा वर्तते।

अयोध्या मथुरा माया काशी काञ्ची अवन्तिका।
पुरी द्वारवती चैव सप्तैता मोक्षदायिकाः।। – इति ब्रह्माण्डपुराणे।

साकेतं कोसलम् उत्तरकोसलम् इत्यादीनि अपरनामानि सन्ति अयोध्यायाः।स्वतन्त्रभारते उत्तरप्रदेशस्य भागोऽस्ति अयोध्या। जैनानां पञ्चतीर्थङ्करा अयोध्यायामेव जन्मं प्रप्तवन्तः तस्मात् तेषामपि पुण्यक्षेत्रम् । एवं बौध्दा अपि अयोध्या पुण्यप्रदशेति परिगण्यते।

अयोध्यायाः वर्णनं वाल्मीकेः रामायणे सविस्तरमस्ति।

कोसलो नाम मुदितः स्फीतो जनपदो महान् ।
निविष्टः सरयूतीरे प्रभूतधनधान्यवान् ।।

अयोध्या नाम नगरी तत्रासील्लोकविश्रुता ।

मनुना मानवेन्द्रेण या पुरी निर्मिता स्वयम् ।।

सरयूनद्याः तीरे अयोध्या नाम समृद्धः प्रदेशः आसीत् यत्र जनाः सामोदं वसन्ति स्म एवम् अयोध्यादेशः विशालश्चासीत् मनुना निर्मित आसीत्‌ अयोध्या इत्यपि रामायणे वर्णितम्।

अद्य अयोध्या विवादभूमिरस्ति। मुगलवंशीयानां शासनकाले रामजन्मस्थलम् अतिक्रम्य तत्र मुहम्मदीयानाम् आराधनालयस्य निर्माणं कृतवन्तः। कालान्तरे हैन्दवाः तत्रैव राममन्दिरस्य निर्माणार्थम् प्रयत्नं कृतवन्तः तत्पश्चात् राजनैतिकदलनेतारः अस्य विषयस्य वादिनो भूत्वा तेषां स्वार्थतायाः पूरणार्थमपि निरन्तरं प्रयत्नं कुर्वन्तः सन्तीति वयं जानीमः। इदानीमपि अयं विषयः उच्चन्यायालयस्य पुरत अस्ति।रामायणं भारतस्‍य चरित्रस्य भागः रामस्तु जनमनस्सु सुप्रतिष्ठितः धर्मस्य प्रतिपुरुष एतत्सर्वम् अयोध्यायाः प्राधान्यास्पदविचाराः।।________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
🙆‍♀मङ्गलवासरः (24-04-18) वैशाखशुद्धनवमी❗
✍प्रस्तावविषयः– संस्कृतलेखने दोषाः🤦‍♀

दूष्यते इति दोषाः।
यद्यपि दोषाः जन्तुसहजाः तथापि मानवा एव दोषाणां विषये चिन्तयित्वा तेषां निवारणार्थं निरन्तरं प्रयत्नं कुर्वन्ति। भाषाविषयेऽपि बहवः दोषाः सम्भवन्ति। भाषायाः सम्यक् ज्ञानं नास्ति चेत् त्रुटयः सर्वत्र भवन्ति। यथा अन्यासु भाषासु तथा संस्कृतेऽपि भवन्ति दोषाः। संस्कृते व्याकरणम् अतीवविस्तृतम् अस्तीति कारणेन लेखनसमये दोषाः सुलभतया भवितुम् अर्हन्ति। लखनस्यापेक्षया भाषणे ततोऽपि अधिकान् दोषान् श्रोतुं शक्नुमः। निरन्तराभ्यासेनैव दोषनिवारणं शक्यम्। दोषाः विविधरीत्या भवन्ति लेखने व्याकरणदोषाः लेखनसमये अक्षराणां विन्यासदोषाः आशयदोषाश्च दृश्यन्ते। भाषणेऽपि व्याकरणदोषाः तथा उच्चारणदोषाश्च भवतः। लेखनदोषाः निरन्तर लेखनपरिशीलनेन तथा भाषणदोषाः अधिकाधिकभाषणद्वारा च निवारणीयाः। दोषाणां दर्शनं परिशोधनं तावत् सरलं कार्यं नास्ति सर्वैः कर्तुं नैव शक्यन्ते तत्र सूक्ष्मदृष्टि एवं क्षमा पाण्डित्यञ्चावश्यकम्।लेखनानन्तरं वारं वारं पठित्वा स्वयमेव परिष्कारम् आनेतुं शक्नुमः।एवं सर्वं विचिन्तयामश्चेदपि भवितव्यं भवत्येव। दोषभीत्या लेखनासक्तिं न त्यजामः तदेव अस्माभिः करणीयं कार्यम्।।________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
🤝मङ्गलवासरः (08-05-18) वैशाखकृष्णाष्टमी💯
✍प्रस्तावविषयः– उपायः (सामादिः)🏹

उपायेन हि यच्छक्यं
न तच्छक्यं पराक्रमैः ।

काकी कनकसूत्रेण कृष्णसर्पम् अघातयत् ।।

एवम् उपायस्य महिमां वर्णयति प्रसिद्धायां काककृष्णसर्पयोः बोधकथायाम्। अनेन ज्ञायते यत्र अस्माकं पराक्रमशक्तिर्न प्रवर्तते तत्रैव करणीयः खलु उपयः।
स्वेष्टं साधयितुं यत्किमपि करोति तदुपाय इत्युच्यते।तदर्थमेवोच्यते स्वार्थसम्पादक उपायः।
राजादीनां भरणनिर्वहने तथा शत्रूणां वशीकरणे ते सामादि उपायानां प्रयोगं कुर्वन्ति स्म। साम-दान -भेद-दण्ड एते उपायाः सामदयः। अद्यापि राजनैतिकक्षेत्रे विविधानां देशानां मध्ये समस्यानिवारणार्थं बहवोपाया आश्रयन्ते। एवं नित्यजीवनेऽपि अनेकानां प्रतिकूलात्मक साहचर्येषु तेभ्यः मोचनार्थं वयं नैकान् उपायान् कुर्वन्तः स्मः खलु। बाल्ये एवं जीवनसमस्यानाम् अभिमुखीकरणे बालाः प्राप्ताः भवेयुः तेनैव भविष्यकाले तादृशेषु सन्दर्भेषु उचितं तथा धार्मिकम् उपायं कृत्वा जीवितुं शक्ष्यन्ति।।

________________________________________________________________________________________________________________________________

*स्वर्वाणीप्रकाशः* (वाट्साप् गणः)
☀गुरुवासरः (10-05-18) वैशाखकृष्णदशमी🌞
✍प्रस्तावविषयः– सन्ध्यावन्दनम्🙏

सनातनधर्मे वैदिकधर्मान्तर्गतानि अनेकानि नित्यनैमित्तिककर्माणि सन्ति। तेषु कर्मसु सन्ध्यावन्दनम् एकं नित्यकर्म अस्ति। उपनयनसंस्कारानन्तरम् आजीवनं सन्ध्यावन्दनं दिने त्रिषु सन्ध्याकालेष्वपि करणीयं भवति। वेदशाखा-कुल- गोत्र -प्रदेशानुगुणं सन्ध्यावन्दनविधौ किञ्चित् भिन्नतां द्रष्टुं शक्नुमः तथापि क्रियायां विद्यमानं तत्त्वं समानं स्यात्।।

_अत ऊर्द्ध्वं प्रवक्ष्यामि_ _सन्ध्योपासनिकं विधिम्।अनर्हः कर्मणां विप्रः सन्ध्याहीनो यतः स्मृतः॥_

– इति स्मृतिवाक्यम्।

सन्ध्यावन्दनहीनो ब्राह्मण अन्ययज्ञादि कर्माणाम् अधिकारी न भवति। पुरातनकाले ये सन्ध्यावन्दनस्य अनुष्ठानं सम्यक् न कुर्वन्ति ते अब्राह्मणा इत्येव परिगण्यन्ते स्म।

_नोपासीतद्विजः सन्ध्यां स षष्ठोऽब्राह्मणः स्मृतः॥_

यथा पूर्वोक्तं मया सन्ध्यावन्दनविधौ भिन्नतां द्रष्टुं शक्यते तथापि आचमनं मन्त्रजलप्रोक्षणं गायत्रीतर्पणं देवानां कृते तर्पणं ऋषीणां कृते तर्पणं पितृतर्पणं एतादृशानि तर्पणानि भवन्ति। अनेनैव पञ्चमहायज्ञेषु देव-ऋषि-पितृयज्ञानाम् अनुष्ठानं नित्यं भवतीति सविशेषं जानीमः।एवं गायत्र्यादि मन्त्रजपोऽपि अस्य भागः। प्रणवमन्त्रजपः गायत्रीमन्त्रजपश्चारम्भे एवं सन्ध्यावन्दनावसाने अष्टाक्षरमन्त्रस्य तथा पञ्चाक्षरमन्त्रस्यापि जपो भवति। दिक्पालकेभ्योऽपि नमस्काराः कल्पन्ते।
सन्ध्यावन्दनसम्बन्धा काचित् कथा वर्तते सा च कथा एवमस्ति मन्देह (मन्देहस्) नाम कश्चन राक्षस उदयसूर्यस्य रथचक्राणि सर्वथा अवरोधं कर्तुं प्रयत्नरतोऽस्ति किन्तु एकैकस्य ब्राह्मणस्य सन्ध्यावन्दनतर्पणादेव तस्य प्रयत्नः विफलो जायमानोऽस्तीति कथा अनेनैव सूर्यभगवान् सर्वेषां हितकरं कार्यं कर्तुं प्रभवति इति विश्वासः।
अत्र सूर्य अस्माकं ज्ञानमिति भावयामः तर्हि
_अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते_ इति शास्त्रवाक्यानुसारं सन्ध्यावन्दनादिकं कृत्वा आत्माज्ञानमेव सिद्ध्यति। एकस्मिन् काले स्त्रिय अपि सन्ध्यावन्दनं कृतवत्य इति पण्डितानां अनुमानम्। सूर्यमण्डलान्तर्गतस्य परमात्मस्वरूपस्य नारायणस्य पूजा एव सन्ध्यावन्दनद्वारा क्रियते इत्यपि शास्त्रमतम्।

_ॐ ध्येयः सदा सवितृ-मण्डल-मध्यवर्त्ती नारायण: सरसिजासन-सन्निविष्टः।_
_केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशंखचक्रः ॥

________________________________________________________________________________________________________________________________

ध्यानं नाम किम्

अयं प्रश्नः एकं बालकं बाधते स्म। तस्य मातापितरौ अस्य समाधानं सरलवाक्यानि उपयुज्य दातुं असमर्थौ आस्ताम्। अथैकदा बालकः मातापितृभ्यां सह रमणमहर्षेः आश्रमं गतवान् तदा बालकेन स एव प्रश्नः रमणमहर्षेः पुरत उपस्थापितः।।

तदानीं रमणमहर्षिः स्मिताननो भूत्वा बालकं पश्यन् तस्मै एकां दोशां दातुम् अनुचरान् आदिष्टवान्। ते पाकशालां गत्वा कदलीपत्रे दोशाम् आनीय तस्मै दत्तवन्तः।

बालकः कुुतूहलेन महर्षिं दोशां च दृष्टवान् तदानीं महर्षि अकथयत्। यदा अहं आम् इति वदिष्यामि तदानीमेव दोशां खादितुम् अर्हसि पुनः यदा अहं आम् इति कथयिष्यामि तदा एकोऽपि कणम् अवशिष्टं न स्यात्। बालकः सोल्लासम् एतत् अङ्गीकृत्य आम् इति श्रोतुं बहुध्यानेन महर्षिमेव पश्यन् उपविशति स्म।
यदा महर्षि आम् इत्युक्तवान् बालकः दोशां खादितुम् आरम्भं कृतवान्। बालकः त्वरया एव खादन् आसीत् यतः पुनः आम् इति कथनात् पूर्वमेव दोशां पूर्णतया खादितुम् इच्छति स्म। यद्यपि सः वेगेन दोशां खादयन्नस्ति तथापि बालकस्य श्रद्धा महर्षे उपरि एवासीत्। अन्ते दोशा किञ्चिदेव अवशिष्टा आसीत् तदानीं तदानीं बालकः दोशाखण्डं हस्ते गृहीत्वा रमणमहर्षिम् एव पश्यन् आम् इति श्रोतुम् अक्षमो भूत्वा उपविष्टवान्। यदा महर्षिः आम् इत्युक्तवान् बालकः झटिति दोशाखण्डञ्च खादितवान्।।

अस्याः घटनाया अनन्तरं रमणमहर्षिः बालकं प्रति पृष्टवान् एतावत् पर्यन्तं कुत्रासीत् तव श्रद्धा मयि उत दोशायाम्?

बालकः – उभयत्रापि!

रमणमहर्षिः – आम्! सत्यम् त्वम् श्रद्धया मां दोशाञ्च पश्यन् खादन् आसीः। एवम् जनः दैनदिनकार्याणि कुर्वन्नपि भगवन्तं स्मरति एतदेव ध्यानम् इत्युच्यते। यथा मया पूर्वं द्विवारं प्रोक्तः आम् इति शब्दः सः जननमरणयोः सूचकत्त्वेन तिष्ठति । एवं सर्वैरपि स्वशक्त्यानुसारम् अनयोः जन्म – मरणयो: सन्दर्भयोः मध्ये ध्यानस्य अभ्यासं कर्तुं शक्यते। रमणमहर्षेः सरलप्रतिपादनं श्रुत्वा सर्वे विस्मिता अभवन्।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
🌷सोमवासरः (21-05-18) ज्येष्ठशुद्धसप्तमी💝
✍प्रस्तावविषयः– स्वेच्छा😊

 

स्वस्य इच्छा स्वेच्छा। स्वेच्छया एव कार्यं कर्तुं जना इच्छन्ति। केवलं परप्रेरणां प्राप्य एव पूर्णमनसा प्रायः कोऽपि तावत् सक्रियो न भवति। परप्रेरणया किञ्चित् प्रेरणा तु भवत्येव तथापि तदनुगुणं स्वल्पा वा स्वेच्छा चावश्यकी। इच्छया इव कार्येषु मनसः पूर्णम् अर्पणं सम्भवति अन्यथा केवलं यान्त्रिकरीत्या कार्यनिर्वहणमेव भवति। यत्किमपि कर्तुं प्रथमं इच्छाशक्तिरेव आवश्यकी। इच्छा कालक्रमेण दृढसङ्कल्पो भविष्यति ततः प्रयत्नेन सह असाध्यकार्यमपि सुसाध्यं भविष्यति। स्वेच्छा केवलं मनुष्याणां विषये एव नास्तीति चिन्तयामि सर्वेषां जन्तूनाम् अपि सहजभावो भवति स्वेच्छायाः पालनम्। मृगा अपि स्वस्य इच्छानुसारं विहरन्ति तत्र तेषां नियन्त्रणं नितरां प्रकोपनाय भवन्ति। किन्तु यथा मनुष्याः तथा मृगा अपि अशक्तावस्थासु परेच्छानुसारं कार्यं कुर्वन्त्येव।पशुशालायां मृगाः भिन्नभिन्न रीत्या शारीरिकाभ्यासं प्रदर्शयन्ति किन्तु तत्र प्रायः तेषाम् इच्छा स्वल्पमपि नस्यात् दण्डनात् आत्मरक्षणार्थमेव मृगा अनुसरणशीलं दर्शयन्ति इति वयं जानीमः। अस्माकं जीवनेऽपि निरन्तरम् एवं करणीयं भवति गृहे कार्यालये समाजे इत्यादिषु स्थानेषु
यतः वयं सर्वे लिखित-अलिखितनियमानां बन्धने स्मः। यत्र यत्र बन्धनं भवति तत्र स्वेच्छया कार्यं कर्तुं न शक्नुमः तथापि नीतिमान् मनुष्यः स्वेच्छया कृतानि कार्याणि न्यायस्य तथा धर्मस्य आधारेण साधूकरोति।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
😌शुक्रवासरः आषाढशुद्धाष्टमी (20-07-18)🙏
✍प्रस्तावविषयः– विभीषणः👑
विभीषणः रावणस्य द्वितीयः सहोदरः। शत्रूणां कृते भयङ्कर इत्येव विभीषणनाम्न अर्थः।
‌सप्तचिरञ्जीविषु द्वौ एव रामायणसम्बन्धः तौ आञ्जनेयः तथा विभीषणश्च। यद्यपि सः राक्षसकुलजातः तथापि विष्णुभक्तः नीतिमान् च।विभीषणः तपसा ब्रह्माणं प्रत्यक्षीकृत्य विष्णुभक्तिम् एव वररूपेण याचितवान्। तस्य नीतिबोधनं रामायणे बहुत्र द्रष्टुं शक्नुमः विभीषणनीतिसारः रामायणे प्रसिद्धः । सीतापहरणानन्तरं रावणं प्रति एतत् कार्यं नोचितम् सीतां प्रत्यर्प्य रामं शरणं गच्छतु इत्येव प्रोवाच विभीषणः। एवं लङ्कायाः दाहनान्तरं गृहीतस्य हनुमतः वधार्थं यदा रावणेन
‌आज्ञा प्रदत्ता तदा दूतस्य हननं राजनीतेः लंघनं भवतीति रावणं स्मारितवान् नीतिमान् विभीषणः।
‌रामायणे विभीषणस्य तत्त्वोपदेशः प्रसिद्धः। रामरावणयोः युद्धं निवारयितुं बहुविधप्रयत्नं कृत्वापि ज्येष्ठस्य रावणस्य शाठ्यकारणतः युद्धनिवारणं कर्तुं न शक्तवान् विभीषणः। भगवान् राम अजय्योऽस्तीति विष्णुभक्तः सः सम्यक् जानाति स्म एवं रामावतारलक्ष्यञ्च। अस्मिन्नवसरे भ्रातुः जीवरक्षणार्थं तेन बहुधा प्रयत्नः कृतः। तथापि विभीषणस्य वचनानि विनाशकाले रावणस्य कृते अस्वीकार्याणि एवासन्। अन्ते रावणस्य हस्तात् मरणं नेच्छन् अखिललोकपालकस्य श्रीरामस्य पक्षे स्थितवान्। भगवान् रामः विभीषणस्य सत्त्वबुद्धिं सत्यनिष्ठां च सर्वथा अभिनन्दितवान् स्वबन्धुरिव तं स्वीकृतवान् च।।

‌युद्धानन्तरं रामः एव लक्ष्मणद्वारा विभीषणं लङ्कायाः राज्यसिंहासने नियुक्तवान् । एवं अनन्य भक्त्या कर्मनिष्ठया च सः चिरञ्जीवी पदं प्राप्नोत्।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
🏕रविवासरः आषाढशुद्धदशमी (22-07-18)😴
✍प्रस्तावविषयः– विरामदिनम्👻

विरामदिनं शारीरिक- मानसिकविश्रान्त्यर्थं परिकल्पितम्।बहुषु देशेषु कर्मकराणां कृते विरामदिनानि दातव्यानि इति नियमेन अनुशासितं वर्तते।भारतेऽपि तथैव।
विरामदिनम् इत्युक्ते न तु केवलं विश्रान्त्यर्थम् अपिच अन्य वैय्यत्तिककार्याणां निर्वहनार्थञ्च भवति। रोगावस्थायां शरीरस्य रक्षणार्थं विरामः करणीयः। रोगावस्थायां उपयोगार्थं विरामदिनानि पृथक् कल्पितानि बहुषु कार्यालयेषु। परिक्षायाः पूर्वं पठनार्थं छात्राणां कृते अवकाशः कल्पितः परीक्षानन्तरम् उल्लासार्थञ्च। एवं विरामदिनं सर्वेषां प्रियदिनं भवति।।

सुदिनानि प्रियान्येषु
कार्यालये नबन्धिताः।
यास्यामो ननु स्थास्यामो
गृहं वान्यत्र निश्चयम्।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
😴सोमवासरः आषाढशुद्धैकादशी (22-07-18)👑
✍प्रस्तावविषयः– देवशयनैकादशी⛳

एकादशीव्रतं हैन्दवानां विशेषतया वैष्णवानां मुख्यं व्रतम्। एकादशीव्रतमाहात्म्यं बहुषु पुराणेषु वर्णितम् अस्ति। विजया एकादशी उत्थानएकादशी मोहिनीएकादशी पापविमोचनएकादशी एवं मासानुसारं नामानि बहुविधाः भवन्ति। देवशयनैकादशी अपि तादृशेषु एकादशीव्रतेषु एकः पद्मैकादशी इति अपरं नाम अस्याः। आषाढमासस्य शुक्लपक्षस्य एकादशी देवशयनैकादशी इति कथ्यते चातुर्मासस्यारम्भोऽपि अस्मिन्नेव समये भवति।भगवतः विष्णोः शयनकाल अस्तीति विश्वासः एवम् उत्थानएकादशी पर्यन्तं भगवतः विश्रमभावः।
देवशयनैकादशी सम्बन्धा एका कथा स्मर्यते।
‌एकदा धर्मपुत्रः युधिष्ठिरः श्रीकृष्णम् प्रति आषाढमासस्य एकादश्या: विवरणं तस्या आचरणविधिञ्च पृष्टवान्। तथा कृष्ण अस्मिन्नेव विषये प्रवृत्तस्य ब्रह्म-नारदसंवादस्य विवरणं चकार। संवादे ब्रह्मा एवम् उवाच अस्मिन् दिने भगवतः पद्मनाभस्य पूजा एव करणीया। विष्णोः प्रसादार्थं विशिष्टं व्रतदिनमिदम्।।

‌पूर्वं सूर्यवंशे मान्धाता इति राजा आसीत्। सः धर्मिष्ठःप्रजातत्परश्चासीत्। कालान्तरे तस्य देशे अनावृष्टिर्जाता अनेन प्रजा अत्यन्तं कष्टम् अनुभूतवन्तः। ते मृतप्राया अभवन्। राजा अस्यां दुःखावस्थायां प्रजाहितार्थम् अङ्गिरसः निर्देशानुसारं
‌देवशयनैकादशीव्रतं स्वीकृत्य भगवन्तं विष्णुं पूजयाञ्चकार अनेन तस्य देशे वृष्टिर्जाता प्रजाश्च सुखिनो जाताः। मुमुक्षुभिः देवशयनैकादश्याः आचरणं करणीयमिति पुराणे सूचितं वर्तते।।________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
😵मङ्गलवासरः आषाढशुद्धद्वादशी (24-07-18)🤥
✍प्रस्तावविषयः– दुर्जनसङ्गः

दुर्जनः परिहर्तव्यो विद्ययालङ्कृतोऽपि सन्।
मणिना भूषितः सर्पः किमसौ न भयङ्करः।।

यद्यपि कोऽपि दुर्जनः विद्यया भूषितः तथापि दुर्जनसङ्गः परित्यक्तव्यः यतः तादृशस्य संसर्गाद् अस्माकं परिपूर्णनाशो जायते।।

दुर्जनेन समं वैरं प्रीतिं चापि न कारयेत्।
उष्णो दहति चाङ्गारश्शीतः कृष्णायते करम्।।

दुर्जनैः सह प्रीतिं तथा मैत्रीञ्च न कर्तव्यम्। यतः द्वयमपि सज्जनानां कृते तेषां आत्मनाशाय एव भवन्ति ततः दूरं स्थास्येयुः तदेवं वरम्।

सर्पाः क्रूरा महादोषा मन्त्रौषधवशानुगाः। नहि खल्वधमे शान्तिस्तस्मात् त्याज्या विषोरगाः।।

दुर्जनाः सर्पादपि आपत्कारकाः दुर्जनानां स्वभावपरिवर्तनार्थं नास्ति काऽपि क्रिया वस्तुतः ते दुर्जनाः एव वास्तविकविषजन्तवः।।

कुपुरुषानां नीचस्वभावं कदा बहिरागच्छति इति वक्तुं कोऽपि न शक्नोति।

बन्धुरिव भवति पूर्वं मित्रमिव शत्रुरिव चान्ते।कृकालाक्ष इव दुरात्मा त्रीन् वर्णान् दर्शयति नीचः।।

अतः दुर्जनसङ्गः परित्याज्यः।।

नीचानां मधुरभाषणे अस्माकं मनपरिवर्तनं कदापि न भवेत् यतः –

दुर्जनः प्रियवादी नैतद्विश्वासकारणम्। मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम्।।

खलाः मूषकसदृशाः तेषां कार्यं तु परेषां पीडनं तेषां वस्तूनां नाशनञ्च।

आखुभ्यः किं खलैज्ञातं खलेभ्यश्च किमाखुभिः।अन्यत्परगृहोत्खातात्कर्म येषां न विद्यते।।

तस्मात् दुर्जनसङ्गः सर्वदा त्यक्तव्यः।।

________________________________________________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
बुधवासरः आषाढकृष्णचतुर्थी (01-08-18)
✍प्रस्तावविषयः– आशीर्वादः
आशीर्वादो नाम अनुग्रहवचनम्। सर्वे मानवाः जीवने उन्नमनमेव कांक्षन्ति सज्जनानां आशिषा एव श्रेयो भवतीति अस्माकं विश्वासः।यद्यपि मङ्गलवाक्यकथनं नतु केवलं भारतीयानां रीति अपिच आविश्वं जना: परस्परं सद्वचनैः व्यवहारः क्रियते तथापि एतद् अस्माकं संस्कृतिषु आचारस्यापि भागभूतकार्यम्।

गुरोः तथा मातापित्रोः एवं ज्येष्ठानाम् आशीर्वादसम्पादनं अस्माकं देशस्य पुरातनसंस्कारः। अद्यापि कुटुम्बबन्धानाम् आधारमेव परस्परबहुमानः तथा सौहार्दपूर्वकस्वस्तिवाचनमेव खलु?

आशीर्वादेन मनसि आत्मविश्वासवृद्धिर्जायते। तेन आदरभावः वर्धितः भवति। बालिकाबालकानां मनसि नितराम् आह्लादं जनयति स्नेहपूर्वकानि वचनानि।।

अतीवकष्टावस्थायां कदाचित् मनसः शक्तिर्न्यूना जायते यदि तदानीं समादरणीयव्यक्ते अनुग्रहेण नवीनम् ऊर्जं प्राप्नुवन्ति जनाः तेन एकेनैव कारणेन दुःखावस्थां तीर्त्वा पुनरपि पूर्वाधिकोत्साहेन जीवनमार्गे आगन्तुं शक्नुवन्ति।।

परस्परम् अभिवादनं स्वस्तिवाचनकथनञ्च वैदिकसंस्कारः। अस्माकं देवाः देव्यश्च अनुग्रहतत्पराः तेषाम् अनुग्रहमुद्रा एतदेव सूचयति ननु । जीवने नित्यनैमित्तिकानुष्ठानसन्दर्भेषु पूज्यानाम् अभिवादनम् आशीर्वादप्राप्तिः द्वयमपि सनातनधर्मस्य वैशिष्ट्यम्।।

____________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
शनिवासरः आषाढकृष्णसप्तमी (04-08-18)
✍प्रस्तावविषयः– मोहः

बुद्धे नाशकरः स एव मोहो नाम।

मोहस्य कारणम् अज्ञानम् इत्येव शास्त्रवाक्यम्।

धर्म्मविमूढत्वं मोहः।कुत्रचित् मोहवृक्षस्य वर्णनम् एवं दृश्यते यत् लोभः पापस्य बीजं मोहो मूलमेव असत्यं तस्य वृक्षस्य स्कन्ध एवं माया विस्तृतशाखाश्च।

मोहाः विविधाः साधारणनित्यजीवने अर्थात् भौतिकविषयेषु तथा पारमार्थिकतत्त्वेष्वपि मोहो भवति। मोहो नाम अविद्या इत्यपि केचन वदन्ति। अस्य परिणामस्तु दुःखमेव। मायया विमोहिता मनुष्याः पारमार्थिकम् ईश्वरतत्त्वं नैवावगच्छन्ति इति वेदान्तिनां मतम्। मोहः कर्त्तव्यनिर्वहणे विख्यातं करोति इत्यत्र अर्जुन एव उदाहरणम्। भगवतः वचनानि श्रुत्वा अन्ते स एवं प्रोवाच यत्।

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत।

स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव।।

एवं ममत्वम् इव मनुष्याणां परममोहो नास्तीति वदन्ति बुधा:।

क्रोधाद्भवति संमोह इति गीतायां प्रोक्तम्। एवं ब्रह्मज्ञानं प्रप्यते चेत् पुनः मोहजाले न पतिष्यति इत्यपि गीताचार्येण बोधितम्। वेदान्तज्ञानदायिन्यां गीतायां मोहविषये बहुत्र प्रतिपादितं वर्तते अत मोहनाशनाय आदौ गीतायाः पठनमेव सम्यक् कुर्मः।।

__________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
🙏सोमवासरः भाद्रपदशुक्लाष्टमी (17-09-18)💝
✍प्रस्तावविषयः– राधाष्टमी💖

हेमेन्दीवरकान्तिमञ्जुलतरं श्रीमज्जगन्मोहनं
नित्याभिर्ललितादिभिः परिवृतं सन्नीलपीता-
म्बरम्।
नानाभूषणभूषणाङ्गमधुरं कैशोररूपं युगं
गान्धर्वाजनमव्ययं सुललितं नित्यं शरण्यं भजे॥
भाद्रपदमासे शुक्लपक्षस्य अष्टमी राधाष्टमी इति प्रसिद्धा।राधादेवी वृन्दावनेश्वरी साक्षात् जगदम्बाया अवतारम् इत्येव पुराणोक्तिः।दिनेऽस्मिन् राधादेवी प्रकटिता जाता।सा वृषभानोः पुत्री इत्येव कथा।राधा भगवतः कृष्णस्य प्रियगोपी एषा कृष्णस्य प्राणसखी इत्येव कथासु वर्णिताः। राधाया आराधनेन विना कृष्णपूजनम् अपूर्णं भवतीति विश्वासः। वृन्दावनादि प्रदेशेषु राधाया: प्रामुख्यम् अधुनापि दृश्यते।तत्र जनाः परस्परम् अभिवादनं राधे राधे! इत्येव उक्त्वा कुर्वन्ति।।

राधा कृष्णश्च परमात्मनः प्रकृतिपुरुषयोः जीवात्मनः परमात्मनश्च तत्त्वं बोधयत इति पण्डिताः कथयन्ति। तयोः भेदः नोचितः। प्रान्तीयभाषास्वपि तादृशा अनेकाः कथा अपि सन्ति यासु तयो अद्भुतलीलाः सुवर्णिताः वर्तन्ते। कृष्णस्यैव माया सा राधा इत्यपि केचन वदन्ति। तथापि भागवते राधादेव्याः वर्णना नास्तीति चिन्तयामि। राधाकृष्णयोः लीलाभूमिः वृन्दावनं परित एव।तत्र बहुषु स्थलेषु अद्यापि गन्तुं शक्नुमः। रासक्रीडामण्डलं राधाकृष्णविवाहमण्डपं राधाकुण्डं बर्साना इत्यत्र राधादेव्याः हर्म्यम् इत्यादय अद्यापि द्रष्टुं शक्यन्ते।
देवीभागवते राधा देव्या अवतार इत्यपि सूचितमस्ति।।

एकदा देवर्षिः नारदः राधातत्त्वं ज्ञातुम् अतीवौत्सुक्येन भगवन्तं शिवं प्रति पप्रच्छ। तदा भगवान् शिव उवाच यद् कोटि कोटि लक्ष्मीनां समाना भवति एका राधा इति। त्रिषु लोकेषु अपि तस्या महत्त्वं वर्णयितुं कोऽपि न शक्यते। सा एका एव जगन्मोहनस्य कृष्णस्यापि चित्तं मोहितवती इति।

राधाष्टम्यां जनाः विशेषव्रतम् आचरन्ति एवं राधादेव्याः पूजनम् अपि कुर्वन्ति। दिनेऽस्मिन् बहुत्र राधाकृष्णयोः युगलमूर्त्ते। उपचारपूर्वकं पूजनं प्रचलन्ति।।

__________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
🌴मङ्गलवासरः भाद्रपदशुक्लनवमी (18-09-18)🍀
✍प्रस्तावविषयः– शाकम्🌿

शक्यते भोक्तुम् इति शाकम्।शाकं नाम फलपत्रपुष्पमुकुलादयाः भवितुम् अर्हन्ति। प्रायो मनुष्याः स्वभावेन मिश्राहारिणः तथापि मनुष्या अधिकतया शाकानि एव आहारपदार्थरूपेण स्वीकुर्वन्ति।विविधानि शाकानि शरीरस्य पोषणार्थम् आवश्यकघटकानां वितरणं कर्तुं समर्थाः सन्तीति जानीमः। तेषां वैविध्यात् पाकविधौ अपि भिन्नता द्रष्टुं शक्यते अर्थात् शाकानां पाकक्रिया: समाना: न स्युः। कृषकाः शाकानि उत्पाद्य विक्रयणं कृत्वा जीवन्ति। शाकानि शीघ्रमेव नश्यन्ति अतः अधिकानि दिनानि तेषां रक्षणं न शक्यते तथापि अद्यत्वे शीतीकरणयन्त्राण्युपयुज्यतेषां रक्षणं शक्नुमः। एवं चेदपि प्रायः सर्वे नवीनशाकानि एव आहर्तुम् इच्छन्ति।।

हरितकं शिग्रुः इत्यादयः पर्यायपदानि शाकस्य।

पत्रं पुष्पं फलं नालं
कन्दं संस्वेदजं तथा। शाकं षड्विधमुद्दिष्टं
गुरु विद्यात् यथोत्तरम्॥
आलुकम्, रक्तफलम्, पलाण्डुः, मरीचिका, लशुनम् , सूरणम्, शुण्ठी, गृञ्जनकम्, मूलकम्,
हरितम्, पालङ्गः, वृन्ताकम्, भिण्डिः, पटोलः, नारिकेलम्,
कारवेल्लं, कूष्माण्डं बिम्बफलं, पुष्पशाकं, पर्णशाकं, आमलकं, गोराणी इत्यादि बहूनि शाकानि सन्ति।विदेशतः अपि इदानींतनकाले विविधानि शाकानि आगच्छन्ति यानि भारते वर्धयितुं न शक्नुवन्ति। मांसाहारिण अपि तेषां भोजनसमये शाकानि आहरन्ति। स्वल्पेन प्रयत्नेन यदि किञ्चित् स्थलम् अस्ति चेत् गृहे एव विविधानां नित्योपयोगीनां शाकानां वर्धनं कर्तुं शक्नुमः।विपणिषु अमितरासयुक्तानि शाकानि भवन्ति अनेन शरीरस्य स्वास्थ्यं नश्यति अतः पट्टणेष्वपि अद्यत्वे जनाः गृहे एव किञ्चिद्वा कृषिकार्यं कर्तुम् इच्छन्ति।।

____________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
🌞रविवासरः भाद्रपदशुक्लसप्तमी (16-09-18)☀
✍प्रस्तावविषयः– भानुसप्तमी✨

यदा सप्तमीतिथिः रविवासरे आगच्छति तदैव भानुसप्तमी इति कथ्यते अर्थात् भानुवासरे सप्तमीतिथेः संयोगो भवति । अस्मिन् दिने भारतीयाचारानुसारं सूर्यदेवस्य पूजनम् एवं व्रताचरणमेव उत्तमम्।पुराणकालादारभ्य अयमेव आचारः। सौरानां कृते भानुवासरः विशिष्टः ततोऽपि विशिष्टतम अयं दिवसः। अस्मिन् पुण्यदिने भक्ताः सूर्याय विविधानि द्रव्याणि समर्पणं कृत्वा पूजयन्ति। सूर्यग्रहणदिनाचरणतुल्यम् अक्षयं पुण्यं प्राप्नोति भानुसप्तम्यां दानेन इति शास्त्रेषु सूचितं वर्तते। अतः जनाः जपं होमं दानं इत्यादीनि सत्कर्माणि श्रद्धया कुर्वन्ति।।
सूर्यसप्तमी रथसप्तमी आरोग्यसप्तमी एतानि अपरनामानि। माघमासे भानुसप्तमी अचला भानुसप्तमी इति प्रसिद्धा।शुक्लपक्षस्य भानुसप्तमी इतोऽपि विशिष्टा अस्तीति पण्डितानां मतम्।दिनेेऽस्मिन् सूर्यनमस्कारः गायत्रीजपः आदित्यहृदयमन्त्रजपः एतादृशा आचाराः निर्दिष्टाः। वामनावतारकारणत्त्वेन देवमातुः अदितिदेव्याः सूर्यसप्तमीव्रतमेव आसीत् इति वामनपुराणे सूचितमस्ति। माघमासे शुक्लपक्षे सप्तम्यां भानुवासरे एवासीत् देवानामपि दुःखविनाशकारकं देवमातुः व्रताचरणम्।।
आदित्यस्य पूजनेन सकलविधरोगशान्तिर्भवति एवम् ऐश्वर्यञ्च वर्धयति।।
सूर्यनारायणाय नमः
____________________________________________________________________________________________

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
🌧बुधवासरः भाद्रपदशुक्लदशमी (19-09-18)☁
✍प्रस्तावविषयः– दुर्दिनम् (मेघाच्छन्नं दिनम्)🌩
मेघाच्छन्नं दिनं कथं दुर्दिनं भवति! यदा आकाशे श्याममेघा अधिकाः भवन्ति तदा वृष्टिः भवितुम् अर्हति किन्तु यावत्पर्यन्तं वृष्टिः न सम्भवति तावत्पर्यन्तम् उष्णम् अधिकम् अनुभवामः। उष्णाधिक्येन रात्रौ निद्रा एव न आगच्छति। एतदर्थमेव स्युः जनाः दुर्दिनम् इति भावयन्ति। वस्तुतः सुदिनं दुर्दिनञ्च आपेक्षिकं भवतः। एकस्य सुदिनम् अपरस्य दुर्दिनम् अपि भवितुम् अर्हति। अतः सर्वाणि दिनानि तुल्यानि इति भावयामः। धनार्थीनां कृते यस्मिन् दिने धनार्जनं न्यूनं भवति सः वदेत् तद्दिनं दुर्दिनम् इति।ज्ञानार्थीनां जिज्ञासूनां कृते यस्मिन् दिने नूतनं किमपि नाधीतं तदेव दुर्दिनम्। एवं भक्ताः वदन्ति।

तद्दिनं दुर्दिनं मन्ये मेघाच्छन्नं न दुर्दिनम्। यद्दिनं हरिसंलापकथापीयूष-वर्जितम्।।

मैत्रीभावयुक्तैः जनैः प्रोच्यते यत्

तद्दिनं दुर्दिनं मन्ये यत्र मित्रागमो हि न।

अतः दुर्दिनम् अर्थात् मेघाच्छन्नं दिनं नास्ति यस्मिन् दिने अस्माकं प्रीतिकरं कार्यं कर्तुं न शक्नुमः तदेव दुर्दिनम्।।

____________________________________________________________________________________________

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
🌷गुरुवासरः भाद्रपदशुक्लैकादशी (20-09-18)⛳
✍प्रस्तावविषयः– घण्टानादः🔔
भारतदेश आचारसमृद्धः देशः। अस्माकं देशे बहूनि मन्दिराणि सन्ति। तेषु विविधाः सम्प्रदायाः सन्ति देशकालानुसारम् आचरणे भिन्नतां द्रष्टुं शक्यते तथापि केचन आचाराः सम्प्रदायाश्च समान्यरूपेण सर्वत्र द्रष्टुं शक्नुमः। देवालयेषु घण्टायाः प्रयोगः तेषु अन्यतमः। प्रायः सर्वेषु देवालयेषु घण्डाः भवन्ति। देवालय इति स्मरामश्चेत् घण्डानादमेव अस्माकं मनसि प्रथमम् आगच्छति खलु। पूजार्थम् लघुघण्टा उपयुज्यते एवं भक्तानां वादनार्थं बृहत्घण्डा मन्दिरे स्थापिता दृश्यन्ते।।

घण्टानादः देवनां प्रियनादः देवतायाः श्रद्धां आवहति अनेन नादेन। एतदर्थमेव भक्ता मन्दिरे घण्टां वादयन्ति।।

सर्ववाद्यमयी घण्टा केशवस्य सदा प्रिया। वादनाल्लसते पुण्यं यज्ञकोटिसमुद्भवम्।।

विधिनाह्यकृता पूजा सफला जायते नृणाम् । घण्टानादेन तुष्टोऽहं प्रयच्छामि स्वकं पदम्।।

इति स्कन्दपुराणे।

घण्टानादः ॐकारस्य प्रतिरूपः अत एव सर्ववाद्यमयी घण्टा इति कथ्यते। अस्य नादश्रवणात् सर्वपापैः मुच्यते। शङ्खनादः घण्टानादः द्वौ अपि मनसि सद्भावानां जननकारणे भवतः। पूजायां धूपदीपयोः तथा कर्पूरमङ्गलदीपस्य समर्पणकाले च
अर्चकाः घण्टां वादयन्ति। आसुरिकराक्षसपैशाचिकशक्तयः घण्टानादस्य श्रवणेन दूरं गच्छन्तीति विश्वासः। केरलसम्प्रदाये तन्त्रपूजायां पीठपूजासमये मूर्त्तिपूजासमये प्रसन्नपूजाकाले एवं एकस्यां पूजायां त्रिवारं भवति घण्टाप्रयोगः विस्तृतकलशपूजादिसन्दर्भे इतोऽप्यधिकवारं घण्टां नादयति पूजकाः।।
स्नानार्च्चनक्रियाकाले घण्टानादं करोति यः। पुरतो वासुदेवस्य
तस्य पुण्यफलं शृणु। वर्षकोटिसहस्राणि वर्षकोटिशतानि च।
वसते देवलोके तु अप्सरोगणसेवितः। इति स्कन्दपुराणे।।

सर्ववाद्यमयी र्घण्टा ननु मूलाधारतः सर्वेषाम् अपि चक्राणां प्रचोदनं करोति।मस्तिष्के विविधाः सुतरङ्गाः जायन्ते। भिन्नाः लोहाः प्रत्येकपरिमाणपरिमितं मिश्रणं कृत्वा लोहकाराः घण्टां निर्माणं कुर्वन्ति एतत् कार्यमतीव श्रमकरमेव। निर्माणस्य अनुगुणं भवति तासां शब्द-आकार-रूपादिगुणाः। आगमशास्त्रानुसारं देवतानाम् आह्वानार्थमेव घण्टानादस्य प्रयोग इति सूचितम्। अयं शब्दः मनस एकाग्रतां वर्धयति।।

____________________________________________________________________________________________

स्वर्वाणीप्रकाशः (वाट्साप् गणः)
🌞रविवासरः भाद्रपदशुक्लसप्तमी (16-09-18)☀
✍प्रस्तावविषयः– भानुसप्तमी✨

यदा सप्तमीतिथिः रविवासरे आगच्छति तदैव भानुसप्तमी इति कथ्यते अर्थात् भानुवासरे सप्तमीतिथेः संयोगो भवति । अस्मिन् दिने भारतीयाचारानुसारं सूर्यदेवस्य पूजनम् एवं व्रताचरणमेव उत्तमम्।पुराणकालादारभ्य अयमेव आचारः। सौरानां कृते भानुवासरः विशिष्टः ततोऽपि विशिष्टतम अयं दिवसः। अस्मिन् पुण्यदिने भक्ताः सूर्याय विविधानि द्रव्याणि समर्पणं कृत्वा पूजयन्ति। सूर्यग्रहणदिनाचरणतुल्यम् अक्षयं पुण्यं प्राप्नोति भानुसप्तम्यां दानेन इति शास्त्रेषु सूचितं वर्तते। अतः जनाः जपं होमं दानं इत्यादीनि सत्कर्माणि श्रद्धया कुर्वन्ति।।
सूर्यसप्तमी रथसप्तमी आरोग्यसप्तमी एतानि अपरनामानि। माघमासे भानुसप्तमी अचला भानुसप्तमी इति प्रसिद्धा।शुक्लपक्षस्य भानुसप्तमी इतोऽपि विशिष्टा अस्तीति पण्डितानां मतम्।दिनेेऽस्मिन् सूर्यनमस्कारः गायत्रीजपः आदित्यहृदयमन्त्रजपः एतादृशा आचाराः निर्दिष्टाः। वामनावतारकारणत्त्वेन देवमातुः अदितिदेव्याः सूर्यसप्तमीव्रतमेव आसीत् इति वामनपुराणे सूचितमस्ति। माघमासे शुक्लपक्षे सप्तम्यां भानुवासरे एवासीत् देवानामपि दुःखविनाशकारकं देवमातुः व्रताचरणम्।।
आदित्यस्य पूजनेन सकलविधरोगशान्तिर्भवति एवम् ऐश्वर्यञ्च वर्धयति।।
सूर्यनारायणाय नमः
____________________________

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
🌧बुधवासरः भाद्रपदशुक्लदशमी (19-09-18)☁
✍प्रस्तावविषयः– दुर्दिनम् (मेघाच्छन्नं दिनम्)🌩
मेघाच्छन्नं दिनं कथं दुर्दिनं भवति! यदा आकाशे श्याममेघा अधिकाः भवन्ति तदा वृष्टिः भवितुम् अर्हति किन्तु यावत्पर्यन्तं वृष्टिः न सम्भवति तावत्पर्यन्तम् उष्णम् अधिकम् अनुभवामः। उष्णाधिक्येन रात्रौ निद्रा एव न आगच्छति। एतदर्थमेव स्युः जनाः दुर्दिनम् इति भावयन्ति। वस्तुतः सुदिनं दुर्दिनञ्च आपेक्षिकं भवतः। एकस्य सुदिनम् अपरस्य दुर्दिनम् अपि भवितुम् अर्हति। अतः सर्वाणि दिनानि तुल्यानि इति भावयामः। धनार्थीनां कृते यस्मिन् दिने धनार्जनं न्यूनं भवति सः वदेत् तद्दिनं दुर्दिनम् इति।ज्ञानार्थीनां जिज्ञासूनां कृते यस्मिन् दिने नूतनं किमपि नाधीतं तदेव दुर्दिनम्। एवं भक्ताः वदन्ति।

तद्दिनं दुर्दिनं मन्ये मेघाच्छन्नं न दुर्दिनम्। यद्दिनं हरिसंलापकथापीयूष-वर्जितम्।।

मैत्रीभावयुक्तैः जनैः प्रोच्यते यत्

तद्दिनं दुर्दिनं मन्ये यत्र मित्रागमो हि न।

अतः दुर्दिनम् अर्थात् मेघाच्छन्नं दिनं नास्ति यस्मिन् दिने अस्माकं प्रीतिकरं कार्यं कर्तुं न शक्नुमः तदेव दुर्दिनम्।।

____________________________

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
🌷गुरुवासरः भाद्रपदशुक्लैकादशी (20-09-18)⛳
✍प्रस्तावविषयः– घण्टानादः🔔
भारतदेश आचारसमृद्धः देशः। अस्माकं देशे बहूनि मन्दिराणि सन्ति। तेषु विविधाः सम्प्रदायाः सन्ति देशकालानुसारम् आचरणे भिन्नतां द्रष्टुं शक्यते तथापि केचन आचाराः सम्प्रदायाश्च समान्यरूपेण सर्वत्र द्रष्टुं शक्नुमः। देवालयेषु घण्टायाः प्रयोगः तेषु अन्यतमः। प्रायः सर्वेषु देवालयेषु घण्डाः भवन्ति। देवालय इति स्मरामश्चेत् घण्डानादमेव अस्माकं मनसि प्रथमम् आगच्छति खलु। पूजार्थम् लघुघण्टा उपयुज्यते एवं भक्तानां वादनार्थं बृहत्घण्डा मन्दिरे स्थापिता दृश्यन्ते।।

घण्टानादः देवनां प्रियनादः देवतायाः श्रद्धां आवहति अनेन नादेन। एतदर्थमेव भक्ता मन्दिरे घण्टां वादयन्ति।।

सर्ववाद्यमयी घण्टा केशवस्य सदा प्रिया। वादनाल्लसते पुण्यं यज्ञकोटिसमुद्भवम्।।

विधिनाह्यकृता पूजा सफला जायते नृणाम् । घण्टानादेन तुष्टोऽहं प्रयच्छामि स्वकं पदम्।।

इति स्कन्दपुराणे।

घण्टानादः ॐकारस्य प्रतिरूपः अत एव सर्ववाद्यमयी घण्टा इति कथ्यते। अस्य नादश्रवणात् सर्वपापैः मुच्यते। शङ्खनादः घण्टानादः द्वौ अपि मनसि सद्भावानां जननकारणे भवतः। पूजायां धूपदीपयोः तथा कर्पूरमङ्गलदीपस्य समर्पणकाले च
अर्चकाः घण्टां वादयन्ति। आसुरिकराक्षसपैशाचिकशक्तयः घण्टानादस्य श्रवणेन दूरं गच्छन्तीति विश्वासः। केरलसम्प्रदाये तन्त्रपूजायां पीठपूजासमये मूर्त्तिपूजासमये प्रसन्नपूजाकाले एवं एकस्यां पूजायां त्रिवारं भवति घण्टाप्रयोगः विस्तृतकलशपूजादिसन्दर्भे इतोऽप्यधिकवारं घण्टां नादयति पूजकाः।।
स्नानार्च्चनक्रियाकाले घण्टानादं करोति यः। पुरतो वासुदेवस्य
तस्य पुण्यफलं शृणु। वर्षकोटिसहस्राणि वर्षकोटिशतानि च।
वसते देवलोके तु अप्सरोगणसेवितः। इति स्कन्दपुराणे।।

सर्ववाद्यमयी र्घण्टा ननु मूलाधारतः सर्वेषाम् अपि चक्राणां प्रचोदनं करोति।मस्तिष्के विविधाः सुतरङ्गाः जायन्ते। भिन्नाः लोहाः प्रत्येकपरिमाणपरिमितं मिश्रणं कृत्वा लोहकाराः घण्टां निर्माणं कुर्वन्ति एतत् कार्यमतीव श्रमकरमेव। निर्माणस्य अनुगुणं भवति तासां शब्द-आकार-रूपादिगुणाः। आगमशास्त्रानुसारं देवतानाम् आह्वानार्थमेव घण्टानादस्य प्रयोग इति सूचितम्। अयं शब्दः मनस एकाग्रतां वर्धयति।।
____________________________

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
⛳शुक्रवासरः भाद्रपदशुक्लद्वादशी (21-09-18)🙏
✍प्रस्तावविषयः– वामनावतारः🌷
दशावतारेषु विष्णोः पञ्चमावतारः वामनावतारः। वामन अर्थात् ह्रस्वः।विष्णुसहस्रनामावल्यां

“उपेन्द्रो वामनः प्रांशुरमोघः शुचिरुर्जितः”

इति वामनो नामकं विष्णोः एकं नामधेयम् वर्तते ।पुराणे वामनावतारकथा प्रसिद्धा एव प्रायः एनां कथां सर्वे जानन्ति च।।
प्रह्लादस्य पुत्रः विरोचनः तस्य पुत्रः महाबलिः सः महान् दानशूरः सत्यसन्धः धर्म्मिष्ठः सर्वोपरि विष्णुभक्तश्चासीत्। तस्य कीर्तिः त्रिलोकविस्तृता आसीत् बलिः स्वशक्त्या त्रैलोक्याधिपतिर्बभूव। इन्द्रादयः देवा: तस्य प्रभावात् स्थानभ्रष्टा अभवन्। अनेन देवमातु अदित्याः नितरां दुःखं जातम्। एवं देवमाता पत्या कश्यपेन सह देवानां दुःखनिवारणार्थं विष्णुम् उद्दिश्य तपः चक्रतुः। वर्षसहस्रान्ते तयोः तपसा प्रीतः भगवान् विष्णुः लक्ष्मीसहितं तयोः पुरतः प्रत्यक्षीभूय पुत्ररूपेण अवतारं स्वीकृत्य देवानां हितं करिष्ये इत्यवोचत्।।

एवं भगवान् अदितिदेव्याः पुत्ररूपेण वामनावतारं स्वीकृतवान्। वटुवेषधरं सर्वज्ञं भगवन्तं विष्णुं दृष्ट्वा सर्वे देवाः ऋषयश्च तं स्तुवन्ति स्म। देवानां कार्यसिद्ध्यर्थं वामनरूपेण भगवान् बलिमहाराजस्य यज्ञशालां गतवान्। त्रैलोक्याधिपत्येन गर्वितः बलिः यज्ञस्य प्रथमे दानकाले एव वामनं विधिवत् पूजयित्वा नादेयं विद्यते तव अतः मनोभीष्टदायकोऽस्मि वाञ्छितं यत्किमपि प्रष्टुम् अर्हसि इत्यवोचत्।विष्णो मायारूपं ज्ञात्वा शुक्राचार्यः बलिं दानात् निवारयितुं प्रयत्नं कृतवान् तथापि स्वगुरुणा शुक्राचार्येण निवारितः सन्नपि बलिः दानं त्यक्तुं न इष्टवान्। एवं त्रैलोक्याधिपः बलिः प्रपञ्चाधिपस्य विष्णोः पादत्रयपरिमितस्य भूमे इच्छापूर्त्तिं कर्तुम् अशक्नुवन् आत्मानं भगवतः पुरतः समर्पितवान्। बलेः दानशूरत्त्वं दृष्ट्वा भगवान् अतीव प्रसन्नो जातः तस्योपरि अनुग्रहवर्षं कृत्वा देवानामपि दुर्गम्यं विशिष्टतरं सुतललोकं प्रति बलिं प्रेषितवान्। नृसिंहावतारसमये प्रह्लादं प्रति तव वंशपरम्परायाः परिपालनं युगे युगे करिष्यामि इति पूर्वमेव भगवता प्रोक्तमासीत् एवं बले अनुग्रहेण स्वीयं वचनं परिपालयन् कारुण्यरूपः विष्णुः देवानां हितं साधितवान् च। इत्थं धन्यस्य कृतकृत्यस्य बलेः कथा तथैव भक्तवत्सलस्य भगवतः विष्णोः चरितञ्च वामनावतारेे निरूपितम्।।

____________________________

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
🐵शनिरवासरः भाद्रपदशुक्लत्रयोदशी (22-09-18)🙉
✍प्रस्तावविषयः– वानरः🐒
वानरो नाम कश्चन जन्तुः। मर्कः मर्कटः कपिः शाखामृगः कीशः प्लवङ्गः इत्यादीनि पर्यायपदानि वानरस्य। अयं मृगः जन्तुवर्गे सदृशतायाः विषये मनुष्याणां निकटे भवति। तेषाम् आकारः मनुष्याणां रूपस्य सदृशः। इतरजन्तूनाम् अपेक्षया एतेषां बुद्धिवैभवं किञ्चिद् अधिकमस्तीति वदन्ति जन्तुशास्त्रज्ञाः।वानराः वनप्रदेशे वृक्षान् आश्रित्यैव वसन्ति तथापि ग्रामप्रदेशेऽपि बहुधा सगणैः सह वासं कुर्वन्ति एते। वानराणां चेष्टा मनोहराः भवन्ति तेषां निरीक्षणेन आनन्दं प्राप्नुमः। कपयः यदा कदापि आक्रमणोत्सुका अपि भवन्ति अतः श्रद्धया एव तेषां पुरतः स्थातव्यम्।हनुमान् सुग्रीवः जाम्बवान् इत्यादयः कपिश्रेष्ठाः तथैव इतराः वानराश्च रामायणे श्रीरामसहायका आसन् अत एव स्यात् भारते ते सर्वत्र पूज्याः दृश्यन्ते।।
भूतले अधुना २६० अधिकाः वानरजातयः सन्ति। वानराः वृक्षात् वृक्षम् उत्पतन्ति। पर्णमुकुलफलमूलादीन् भक्षयन्ति। उच्चैः शब्दं कर्तुं समर्था एते।गणेश मिलित्वा आगत्य कदाचित् कृषकाणां समग्रां कृषिं नाशयन्ति। अनुकरणं वानराणां मुख्यः स्वभावः। वानराणां दन्तैर्वा नखैर्वा यदि मनुष्यः व्रणितो जायेत तर्हि स अवश्यं वैद्यालयं गत्वा सुरक्षाचिकित्सां स्वीकुर्यात्। भारते वानराः नियस्य आधारेण संरक्षितमृगविभागे एव सन्ति।।
__________________________

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
🌷रविवासरः भाद्रपदशुक्लचतुर्दशी (23-09-18)🙏
✍प्रस्तावविषयः–

*अनन्तचतुर्दशी*🌺

भाद्रपदमासस्य शुक्लपक्षस्य चतुर्दशी अनन्तचतुर्दशी इति प्रसिद्धा अस्ति। गणेशोत्सवस्य अनन्तरम् अस्मिन् दिने एव आघोषपूर्वं गणेशविग्रहस्य निमज्जनं कुर्वन्ति जनाः। अनन्तो नाम भगवान् विष्णु अतः दिनेऽस्मिन् भगवतः विष्णो आराधनं विशेषतया भवति। कुटुम्बजनानाम् अभिवृद्ध्यर्थं स्त्रियः व्रतम् आचरन्ति।।

*अनन्तचतुर्दश्याः कथा*

पूर्वं सुमन्तो नाम कश्चन ब्राह्मण आसीत् तस्य पत्नी दीक्षा। द्वावपि धार्मिकौ भक्तौ च आस्ताम् । कालान्तरे तयोरेका पुत्री जाता तस्याः नाम सुशीला इत्येवासीत्। सुशीला अपि तस्याः मातृवत् धार्मिका भक्ता च आसीत्। सुशीलायाः कौमारावस्थायाम् एव तस्या माता दीक्षा दिवंगता। किञ्चित् कालानन्तरं परिवारस्‍य परिपालनार्थं सुमन्तः कर्कशा इति अन्याम् एकां कन्यां परिणयं कृतवान्।दुष्टा कर्कशा निरन्तरं सुशीलां पीडयति स्म किन्तु सुशीला शान्ता स्वभावगुणयुक्ता च आसीत्।एवं सुशिलायाः विवाहकाल आगतः सुमन्तः तस्याः विवाहं कौण्डिन्यमहर्षिणा साकं कारितवान्। कालान्तरे कर्कशाया उपद्रव अधिको जातः तेन सुशीला कौण्डिन्यश्च अन्यत्र गतवन्तौ। तयोः जीवनं कष्टपूर्णम् आसीत्।एकदा गृहविहीनौ तौ रात्रौ एकस्मिन् नदीतीरे विश्रान्तिं कृतवन्तौ। अग्रिमदिने नदीतीरे काश्चन स्त्रियः अनन्तपूजार्थम् आगताः ताः परस्परं रक्षासूत्राणि बन्धयित्वा विष्णोः पूजां कृतवत्यः। सर्वं दृष्ट्वा सुशीला अस्याः पूजाया महत्त्वं पृष्टवती। ताः सविस्तरम् अनन्तचतुर्दश्या महिमानम् एवं व्रताचरणविधिञ्च सम्यक्तया तां बोधितवत्यः। अस्य व्रतेन कष्टानि नश्यन्ति मनोकामनाः सफला भविष्यन्ति इति ज्ञात्वा
विधिवत् अनन्तचतुर्दश्या आचरणं कृतवती सुशीला। अनेन व्रताचरणेन विष्णोरनुग्रहेण च तस्याः कौण्डिन्यस्य च जीवनं सुखमयं जातम्। भगवतः अनुग्रहेण तयोः धनराशिः धान्यराशिश्च अत्यधिको भवतः। अथैकदा सुशीला भगवतःविष्णोः कृपया एव आवयोः जीवनं सुखमयं जातमिति कृतज्ञतापूर्वम् उक्तवती एतत्‌ श्रुत्वा कोपाविष्ट महर्षिः भार्यायाः वचनं स्वस्य अपमाननम् इति मत्वा अनन्तसूत्रं निष्कास्य ताम् भृशं तर्जितवान्। कालक्रमेण पुनः तयोः जीवनं कष्टकरं जातम्। भगवतः विष्णो: निन्दा एव मम दुःस्थितेः कारणम् इति ज्ञात्वा कौण्डिन्यः सुशीलया सह पुनः चतुर्दशवर्षपर्यन्तं विधिपूर्वकम् अनन्तचतुर्दश्या आचरणं कृत्वा भगवत अनन्तनारायणस्य वरप्रसादेन पुनः जीवने शान्तिं समृद्धिञ्च प्राप्तवान्।।
भगवान् कृष्णः पाण्डवानां वनवासकाले कौरवाणाम् उपरि विजयप्राप्त्यर्थम् अस्य व्रतस्य आचरणविधिं पाण्डवान् बोधितवान्। तदनुगुणम् अनन्तचतुर्दश्याः पालनेन पाण्डवाः युद्धे विजयं प्राप्तवन्तः। पुरातनकाले राजा हरिश्चन्द्र अपि अस्य व्रतस्य आचरणं कृत्वा कीर्त्तिं विभूतिञ्च आप्नोत् इत्यपि ज्ञातुं शक्नुमः।।
एवम् अनन्तचतुर्दश्याः कथा पुराणे वर्णिता अस्ति। सर्वेभ्यः अनन्तचतुर्दशीपर्वणः शुभाशयाः।।

____________________________

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
🌷सोमवासरः भाद्रपदपौर्णमी (24-09-18)🙏
✍प्रस्तावविषयः– महालयपक्षः🌺

भाद्रपदपूर्णिमातः आश्विन‌-अमावास्याः दिनपर्यन्तं पितृपक्ष अथवा महालयपक्षेति उच्यते। अस्मिन् काले पितॄणां कृते श्राद्धकर्माण्याचर्यन्ते।श्रद्धया करणीयम् कार्यं श्राद्धम्। सर्वेषामपि पूर्वजानां कृते दायित्वं भवति श्राद्धकर्मणा पितृऋणात् मुक्तो भवति नरः। पितृपूजा तु तर्पणं तृप्यन्ति पितरो येन इति तर्पणम्। धर्मार्थम् इदं शरीरम्। वस्तुतया मनुष्यशरीरप्राप्तिः अत्यन्तं विरलम्। दुर्लभं मानुषं जन्म इत्येव ननु किमर्थम् एवं वदन्ति तत्र कारणमेतदेव यदि कोऽपि संसारचक्रात् विमुक्तिम् इच्छति अर्थात् आत्यन्तिकदुःखनिवृत्तिम् इच्छति तर्हि मानुषजन्मना एव साध्यं भवतीति शास्रमतम्। मनुजैरेव परब्रह्मतत्त्वम् अवगम्यते। अत अस्माकं दुर्लभावसरस्यास्य कारणभूता: पितृदेवा अस्माभिः पूजनीयाः। मातापित्रोः परिचरणं पूर्वजानां कृते श्राद्धकर्माणि एतानि सर्वाणि सदाकरणीयानि।

अस्माकम् आचरणादेव पूर्वजानां सद्गतिः तेषाम् अनुग्रहादेव अस्माकं श्रेयः। महालयपक्षे पितृलोकात् पूर्विका अदृश्यरूपेण पृथिवीम् आगत्य तर्पणानि स्वीकृत्य स्वजनान् अनुगृह्णन्ति इत्येव विश्वासः।।

यदि कोऽपि श्राद्धार्थं वार्षिकं श्राद्धतिथिं न जानाति न स्मरति तर्हि महालयपक्षस्य आचरणात् तस्य पितॄणां मुक्तिर्भवतीति विश्वासः।

एकैकस्य तिलैर्मिश्रांस्त्रींस्त्रीन् दद्याज्जलाञ्जलीन् ।
यावज्जीवकृतं पापं
तत्क्षणादेव नश्यति।।

___________________________

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
🍎बुधवासरः भाद्रपदकृष्णद्वितीया (26-09-18)🌿
✍प्रस्तावविषयः– शरणार्थी😌
शरणम् इच्छति इति शरणार्थी। कदा एकः शरणागतो भवतीति कोऽपि पृच्छति चेत् वक्तुं शक्नुमः यदा यःकोऽपि स्वस्य बलेन वा सामर्थ्येन वा स्वयं सहमानायाः विषमावस्थायाः तरणं कर्तुम् अशक्नुवन् पूर्णतया अन्यस्य कृपां प्रतीक्षां करोति तदानीं सः शरणागत इति।एवं लौकिकावस्थायां यःकोपि यदाकदापि शरणार्थी भवितुम् अर्हति। प्रलय -चक्रवात-भूकम्पादि प्रकृतिक्षोभाणां कारणतः बहवो जना अभयार्थिनः भवन्तीति जानीमः। निमिषाभ्यन्तरे गृहाणि धनानि वस्त्राणि अन्नजलादीनि एवं सर्वाण्यपि वस्तूनि तेषां नष्टानि भवन्ति धनिकदरिद्रभिन्नतां विना जनाः प्राणरक्षणार्थम् अभयकेन्द्रेषु अभयं प्रार्थयन्ति। तादृशेषु सन्दर्भेषु मनुष्याः तेषां निस्सारत्त्वम् अशक्तिञ्च अवगच्छन्ति।एवं रीत्या युद्धसमयेऽपि जनाः विविधैः कष्टैः शरणार्थिनः जायन्ते। निरूपयामः एतत् सर्वं लौकिकशरणागति इति।।

तथैव आध्यात्मिकविषये शरणागताः भवन्ति जनाः।बुधाः जननमरणचक्रात् मोचनार्थं भगवन्तमेव आश्रयं गच्छन्ति। अस्माकं जीवने अनेकेषु सन्दर्भेषु भगवन्तम् एव शरणं गच्छामः खलु। अनन्यभक्तिभावेन यो भगवन्तं शरणं गच्छति तस्य सहायको भवति भगवानिति गीताशास्त्रम् अस्मान् बोधयति। प्रह्लादस्य सुदाम्नः अर्जुनस्य पाण्डवानां दक्षस्य एवं भक्त्या निस्सहायतया च भगवति. कृतशरणागतानां बहूनां पूर्वजानां जनानां कथाः पुराणेषु प्रतिपादिताः।।

य अहंकारबुद्धिम् उपेक्ष्य स्वकर्माणि विधिवत् कुर्वन् भगवन्तम् आश्रयति स एव उत्तमः सुविचारयुक्तः श्रेष्ठश्च इत्येव निरूपयामः।।

____________________________

*स्वर्वाणीप्रकाशः (वाट्साप् गणः)*
👸🏻गुरुवासरः भाद्रपदकृष्णतृतीया (27-09-18)✨
✍प्रस्तावविषयः– स्वर्णहारः 💫
पुष्पमाला, रत्नमाला लोहनिर्मितमाला रुद्राक्षादि वस्तूनां माला कपालमाला!! एवं प्रकारेण हाराः विविधाः भवन्ति। लोहनिर्मितासु मालासु सुवर्णमाला एव जनप्रिया माला। न तु केवलं माला अपितु सर्वाणि सुवर्णाभरणानि लोकप्रियाणि नारीणां प्राणतुल्यानि च। लोके ताः मूल्ययुक्तानि च सन्ति। सुवर्णमालासु सुवर्णकारस्य कलावैभवानुगुणं विविधाकारसहिताः भवन्ति।अत्रैव खलु नारीणां दृष्टिः गच्छति!!

मालायाः निर्माणं सङ्कीर्णम् अस्ति।सुवर्णकारा इदानीम् आभरणानां निर्माणे बहूनां यन्त्राणां प्रयोगं कुर्वन्ति। आभरणानां वैविध्यम् अनन्तमेव तस्मिन् विषये चर्चां कर्तुं तावत् सरलं नास्ति। अतः सुवर्णस्य विषये चिन्तयाम:।।

प्राचीनकालादेव सुवर्णं मनुष्याणां प्रियलोहः।धनाढ्यस्य ऐश्वर्यस्य च प्रतीक अयं पीतवर्णलोहः।।

हिरण्यम् अतीवविशेषयुक्तलोहः।

साधारणतापे अयं लोहः निष्क्रिय अर्थात् तदानीं प्रतिप्रवर्तनं किमपि न प्रकटयति।।

सूक्ष्मातिसूक्ष्मतरं सूत्ररूपम् अपि अनेन निर्मीयते। तथैव लोलपत्ररूपेणापि परिवर्तयितुं शक्यते। एतेषां गुणानाम् कारणादेव आभरणनिर्माणे सुवर्णलोहः योग्यो भवति।

कनकस्य उपयोगः न तु केवलम् आभरणनिर्माणे सङ्गणकादि वैद्युतोपकरणेषु बहिराकाशयानेषु विविधचिकित्साप्रक्रियासु किमधिकं खाद्यपदार्थेषु एवं सर्वासु मेखलासु अस्य उपयोगो भवति।।

संशुद्धेन स्वर्णेन आभरणनिर्माणं सुलभं नास्ति तदर्थम् इतरलोहैः योजयित्वा सङ्करलोहस्य निर्माणं क्रियते। लोहसङ्करार्थं काञ्चनम् उत्तमम् अस्ति अयम् अपरः गुणः स्वर्णस्य। स्वर्णस्य शुद्धताया आधारेण एव तस्य मूल्यं भवति। आगोलविपण्याम् एतदर्थं परिमाणानि सन्ति।सुवर्णकांक्षिभिः क्रयणात् पूर्वमेव एतत्सर्वं किञ्चित् पठनीयं नोचेत् वञ्चिताः भवितुम् अर्हन्ति।।

सुवर्णस्य सान्द्रता अधिका अस्ति अतः भूमे अतीवान्तर्भागे प्रथमपटले एव अस्यलोहस्य सान्निध्यम् अधिकं दृश्यते तत्तु ततः स्वीकर्तुम् अशक्यमेव।धूमकेतूनां सदृशानां भौमेतर- पिण्डेषु स्वर्णस्य सानिध्यं दृश्यते भूतले प्राचीनकाले अनेकाः धूमकेतवः पतिताः तादृशेषु प्रदेशेभ्य एव स्वर्णस्य खननम् अधुनावधि प्रचलितम्। यद्यपि समुद्रजलेऽपि स्वर्णस्य सानिध्यम् अस्ति तथापि ततः स्वीकर्तुम् अतीवदुष्करम्।।

एका एव स्वर्णमाला बहूनां मनसि विविधाः भावनाः जनयन्ति।
स्त्रियः तस्याः सौन्दर्यं तथा स्वर्णमालाम् एव पश्यन्ति!! पुरुषाः तस्या मूल्यम् स्वकोषञ्च!! आपणिकाः लाभप्राप्तिं पश्यन्ति! चोराः कुबुद्ध्या पश्यन्ति! वैज्ञानिकाः लोहघटनां पश्यन्ति तां मालां वैराग्यनिधयः सिद्धाः पाषाणतुल्यं पश्यन्ति।।

____________________________

____________________________________________________________________________________________

 

____________________________________________________________________________________________

 

____________________________________________________________________________________________

 

____________________________________________________________________________________________

 

____________________________________________________________________________________________

 

____________________________________________________________________________________________

 

Advertisements